भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 76

76.76

अथ पंचमहाभूतफलाध्यायः

76.1

अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।
ज्ञायते येन खेटानां वर्तमानदशा बुधैः

76.2

शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।
तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम्

76.3

सबले मङ्गले वह्निस्वभावो जायते नरः ।
बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ

76.4

शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।
मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम

76.5

सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।
स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम्

76.6

क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।
तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः

76.7

कर्पूरोत्पलफन्धाढ्यो भोगी स्थिरसुखी बली ।
क्षमावान् सिंहनादश्च महीप्रकृतिको नरः

76.8

शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।
विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः

76.9

कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः ।
बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः

76.10

वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।
भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः

76.11

स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।
विजयो धनलाभश्च वह्निभायां प्रजायते

76.12

इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।
धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत्

76.13

स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।
सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते

76.14

मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।
तदाऽभिष्टरसस्वादसुखं भवति देहिनः

76.15

मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः ।
तदा च शोकसन्तापौ वायुच्छाया यदा भवेत्

76.16

एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।
निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज

76.17

नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।
फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते

76.18

तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।
फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc