बृहत्पाराशरहोराशास्त्रम् · अध्याय 72
अथ समुदायाष्टकवर्गाध्यायः
द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् ।
सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत्
समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते ।
अतः फलानि जातानां विज्ञेयानि द्विजोत्तम
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः
अतः क्षीणफला ये ते राशयः कष्टदुःखदा ।
शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः
कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम ।
श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः
तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै ।
अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत्
मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् ।
मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः
लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः ।
विपरीतेन दारिद्र्यं भवत्येव न संशयः
दशावदिह भावानां कृत्वा खंडत्रयं बुधः ।
पश्येत् पापसमारूढं खंडे कष्टकरं वदेत्
सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा ।
क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत्
रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् ।
सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ
रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः ।
असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम्
रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् ।
अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये
रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा ।
दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम्
अभिशापभयं यत्र रेखा रुद्रसमा द्विज ।
दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः
युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् ।
सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत्
विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा ।
विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये
शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् ।
वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम्
तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज ।
रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा
सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा ।
कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम्
अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः ।
विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत्
रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् ।
यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज
त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् ।
सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः
वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः ।
सर्वरोगविनाशार्थं जपहोमादिकं चरेत्
धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा ।
षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः
तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् ।
अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा
सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः ।
एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत्
घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः ।
त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः
त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः ।
चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते
अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।
अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु
तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् ।
अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत्
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0