ग्रंथ पाठ
बृहत्पाराशरहोराशास्त्रम् · अध्याय 71
71.71
अथाऽष्टवर्गायुर्दायाध्यायः
71.1
अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् ।
दिनद्वयं विरेखायां रेखायां सार्धवासरम्
71.2
दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् ।
वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम्
71.3
द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा ।
षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः
71.4
एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् ।
तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम्
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0