भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 43

43.43

अथायुर्दायाध्यायः

43.1

धनाध्नाख्ययोगौ च कथितौ भवता मुने ।
नराणामायुषो ज्ञानं कथयस्व महामते

43.2

साधु पृष्टं त्वया विप्र जनानां च हितेच्छया ।
कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि

43.3

आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः ।
तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः

43.4

स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः ।
स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः

43.5

पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् ।
कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः

43.6

क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह ।
नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः

43.7

प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः ।
नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः

43.8

स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् ।
स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः

43.9

अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ ।
वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः

43.10

सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः ।
व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम्

43.11

एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः ।
नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम्

43.12

लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा ।
भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत्

43.13

स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे ।
तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम

43.14

लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः ।
मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः

43.15

लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः ।
तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे

43.16

अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् ।
चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका

43.17

एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि ।
जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः

43.18

अथांशायु सलग्नानां खेटानां कथयाम्यहम् ।
नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति

43.19

भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् ।
कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम्

43.20

पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः ।
अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः

43.21

साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् ।
द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे

43.22

उभयत्र गते खेटे कार्यं त्रिगुणमेव हि ।
हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम्

43.23

एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा ।
नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत्

43.24

अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् ।
अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम

43.25

गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् ।
श्येनवानरभल्लुकमण्डूकानां शतत्रयम्

43.26

पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् ।
नगणां कुञ्जराणां च विंशोत्तरशतं तथा

43.27

द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः ।
वृषाणां महिषाणां च चतुर्विंशतिवत्सरम्

43.28

विंशत्यायुर्मयूराणां छागादीनां च षोडश ।
हंसानां पंचनव च पिकानां द्वादशाब्दकाः

43.29

शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः ।
बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः

43.30

यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम ।
तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम्

43.31

विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् ।
रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा

43.32

बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् ।
त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम

43.33

अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम ।
कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च

43.34

लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् ।
आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत्

43.35

द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम ।
लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत्

43.36

चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् ।
एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि

43.37

एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् ।
द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च

43.38

एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा ।
जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम

43.39

योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् ।
योगत्रयविसंवादे लग्नहोराविलग्नतः

43.40

लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा ।
ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः

43.41

दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः ।
योगद्वयेन वस्वाशा योगैकेन रसांककाः

43.42

मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः ।
द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः

43.43

अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः ।
योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः

43.44

एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः ।
खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत्

43.45

पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः ।
योगकारकखेटांशयोगस्तत्संख्यया हृतः

43.46

लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः ।
लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत्

43.47

योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते ।
न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते

43.48

लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते ।
कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते

43.49

अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते ।
मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम्

43.50

योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् ।
एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत्

43.51

आयुषो बहुधा भेदाः कथिता भवताऽधुना ।
कतिधा सा कदाऽनायुरमितायुः कदा भवेत्

43.52

बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् ।
दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम्

43.53

बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः ।
द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे

43.54

विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् ।
तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः

43.55

चन्द्रेज्यौ च कुलीरांगे ज्न्! असिअतु केन्द्रसंस्थितौ ।
अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत्

43.56

सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा ।
शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत्

43.57

गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज

43.58

देवलोकांशके मन्दे कुजे पारावतांशके ।
गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत्

43.59

सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा ।
अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान्

43.60

केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते ।
सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत्

43.61

केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते ।
ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत्

43.62

उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः ।
अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत्

43.63

अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत्

43.64

स्वभोच्चस्थेन केनापि नभौगेन समन्वितः ।
अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत्

43.65

त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत्

43.66

षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च ।
त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत्

43.67

शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः ।
रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि

43.68

आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा ।
तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम

43.69

द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते ।
स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत्

43.70

द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् ।
द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत्

43.71

लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् ।
तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते

43.72

आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् ।
लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम्

43.73

शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् ।
मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत्

43.74

सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ ।
अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः

43.75

षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते ।
स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते

43.76

चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते ।
बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत्

43.77

व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ ।
स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम

43.78

लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः ।
स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc