बृहत्पाराशरहोराशास्त्रम् · अध्याय 42
अथ दारिद्रय्योगाध्यायः
बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने ।
दरिद्रजन्मदान् योगान् कृपया कथय प्रभो
लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते ।
मारकेशयुते दृष्टे निर्धनो जायते नरः
लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते ।
मारकेशेन युग्दृष्टे धनहीनः प्रजायते
लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते ।
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत्
षष्ठाष्टमव्ययगते लग्नपे पापसंयुते ।
धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः
त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे ।
शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः
मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ ।
दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः
पापग्रहे लग्नगते राज्यधर्माधिपौ विना ।
मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत्
त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः ।
पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः
चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि ।
मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः
लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि ।
मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः
शुभस्थानगताः पापाः पापस्थानगताः शुभाः ।
निर्धनो जायते बालो भोजनेन प्रपीडितः
कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः ।
ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः
कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम ।
कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते
कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् ।
वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम्
अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् ।
धनसंस्थौ तु भौमार्की कथितौ धननाशकौ
बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः ।
निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः
महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ ।
शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0