बृहदारण्यकोपनिषद (टीका सहित) · अध्याय 5.7
ब्र्हुप्भ्_5,6.1 उपाधीनामनेकत्वादनेकविशेषणत्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मनौपाधिविशिष्टस्योपासनं विधित्सन्नाहमनोमयो मनःप्रायो मनस्युपलभ्यमानत्वात् ।
मनसा चोपलभत इति मनोमयो ऽयं पुरुषो भाः सत्यो भा एव सत्यं सद्भावः स्वरूपं यस्य सो ऽयं भाः सत्यो भास्वर इत्येतत् ।
मनसः सर्वार्थावभासमत्वान्मनोमयत्वाच्चास्य भास्वरत्वात् ।
तस्मिन्नन्तर्हृदये हृदयस्यान्तस्तस्मिन्नित्येतत् ।
यथा व्रीहिर्वा यवो वा परिणमत एवं परिमाणस्तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः ।
स एष सर्वस्येशानः सर्वस्य स्वभेदजातस्येशानः स्वामी ।
स्वामित्वे ऽपि सति कश्चिदमात्यादितन्त्रो ऽयं तु न तथा किं तर्ह्यधिपतिरधिष्ठाय पालयिता ।
सर्वमिदं प्रशास्ति यदिदं किञ्च यत्किञ्च्चित्सर्वं जगत्तत्सर्वं प्रशास्ति ।
एं मनोमयस्योपासनात्तथारूपापत्तिरेव फलम् ।
तं तथा यथेपासते तदेव भवतीति ब्राह्मणम् ॥1॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य षष्ठं ब्राह्मणम् ॥6॥
स्तर्त् ब्र्हुप् 5,7.1
विद्युद् ब्रह्मेत्य् आहुः ।
विदानाद् विद्युत् ।
विद्यत्य् एनं पाप्मनो य एवं वेद विद्युद् ब्रह्मेति ।
विद्युद् ध्य् एव ब्रह्म
मूल पाठ: Bṛhadāraṇyakopaniṣad, Kāṇva recension with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0