भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.9

1.9.1

धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारो ऽभिहितः संदिग्धे ऽर्थे विनिर्णयः ॥

1.9.2

एकैको द्विविधः प्रोक्तः क्रियाभेदान् मनीषिभिः ।
अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥

1.9.3

सम्यग् विचार्य कार्यं तु युक्त्या संपरिकल्प्तम् ।
परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ॥

1.9.4

प्रतिवादी प्रपद्येद् यत्र धर्मः स निर्णयः ।
दिव्यैर् विशोधितः सम्यङ् निर्णयः समुदाहृतः ॥

1.9.5

प्रमाणनिश्चितो यस् तु व्यवहारः स उच्यते ।
वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥

1.9.6

अनुमानेन निर्णीतं चारित्रम् इति कथ्यते ।
देशस्थित्या तृतीयस् तु शास्त्रविद्भिर् उदाहृतः ॥

1.9.7

प्रमाणसमतायां तु राजाज्ञा निर्णयः स्मृतः ।
शास्त्रसभ्याविरोधेन चतुर्थः परिकीर्तितः ॥

1.9.8

धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ॥

1.9.9

वधादृते ब्राह्मणस्य दण्डो भवति कर्हि चित् ।
अवध्या ब्राह्मणा गावो लोके ऽस्मिन् वैदिकी स्मृतिः ॥

1.9.10

महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ।
निर्वासनाङ्कने मौण्ड्यं तस्य कुर्यान् नराधिपः ॥

1.9.11

महापराधयुक्तांश् च वधदण्डेन शासयेत् ॥

1.9.12

स्वल्पे ऽपराधे वाग्दण्डो धिग्दण्डः पूर्वसाहसे ।
मध्योत्तमे ऽर्धदण्डस् तु राजद्रोहे च बन्धनम् ॥

1.9.13

निर्वासनं वधो वापि कार्यम् आत्महितैषिणा ।
व्यस्ताः समस्ता एकस्य महापातककारिणे ॥

1.9.14

मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनाम् ।
विवादिनो नरांश् चापि द्वेषिणो ऽर्थेन दण्डयेत् ॥

1.9.15

पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥

1.9.16

ऋत्विक्पुरोहितामात्याः पुत्राः संबन्धिबान्धवाः ।
धर्माद् विचलिता दण्ड्या निर्वास्या राजभिः पुरात् ॥

1.9.17

गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नरांश् चान्यान् धिग्धनाभ्यां च दण्डयेत् ॥

1.9.18

प्रतिलोमास् तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।
ब्राह्मणातिक्रमे वध्या न दातव्या दमं क्व चित् ॥

1.9.19

वधार्हकः स्वर्णशतं दमं दाप्यस् तु पूरुषः ।
अङ्गच्छेदार्हकस् त्व् अर्धं सदंशशश् तदर्धकम् ॥

1.9.20

ताडनं बन्धनं चैव तथैव च विडन्नकम् ।
एष दण्डो हि शूद्रस्य नार्थदण्डो बृहस्पतिः ॥

1.9.21

प्रतिज्ञा भावनाद् वादी प्राड्विवाकादिपूजनात् ।
जयपत्त्रस्य चादनाज् जयी लोके निगद्यते ॥

1.9.22

पलायनाद् अनुत्तराद् अन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥

1.9.23

कुलादिभिर् निश्चिते ऽपि न संतोषं गतस् तु यः ।
विचार्य तत्कृतं राजा कुकृतं पुनर् उद्धरेत् ॥

1.9.24

निश्चित्य बहुभिः सार्धं ब्राह्मणैः शास्त्रपारगैः ।
दण्डयेज् जयिना साकं पूर्वसभ्यांस् तु दोषिणः ॥

1.9.25

अपराधानुरूपश् च दण्डो ऽत्र परिकल्पितः ।
साक्षिलेख्यानुमानेन सम्यग् दिव्येन वा जितः ॥

1.9.26

यो न दद्याद् देयदमं स निर्वास्यस् ततः पुरात् ॥

1.9.27

ललाटाङ्कं ब्राह्मणस्य नान्यो दण्डो विधीयते ।
महापातकयुक्तो ऽपि न विप्रो वधम् अर्हति ।
निर्वासनाङ्ककरणे मौण्ड्यं कुर्यान् नराधिपः ॥

1.9.28

प्रमाणं तत्कृतं सर्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा न स्वातन्त्र्यं विसंवदेत् ॥

1.9.29

यः स्वामिना नियुक्तस् तु धनायस्यापलापने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥

1.9.30

राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् ।
त्रयस् तत्रोपचीयन्ते हानिर् एकस्य जायते ॥

1.9.31

जेताप्नोति धनं पूजां जितो विनयनिग्रहम् ।
जयं दानं दमं राजा सभ्याः पुण्यम् अवाप्नुयुः ॥

1.9.32

एवं शास्त्रोदितं राजा कुर्वन् निर्णयपालनम् ।
वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥

1.9.33

साक्षिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् ।
वितत्येह यशो राजा ब्रध्नस्याप्नोति विष्टपम् ॥

1.9.34

यत्रैवं वेत्ति नृपतिः निर्णयं तु बताध्वरम् ।
सो ऽस्मिन् लोके यशः प्राप्य याति शक्रसलोकताम् ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc