बृहस्पतिस्मृति · अध्याय 1.10
पदांशसहितस् त्व् एष व्यवहारः प्रकीर्तितः ।
विवादकारणान्यस्य पदानि शृणुताधुना ॥
ऋणादानप्रधानानि द्यूताह्वानान्तिकानि च ।
क्रमशः संप्रवक्ष्यामि क्रियाभेदांश् च तत्त्वतः ॥
ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्मौ च ऋणादानम् इति स्मृतम् ॥
अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रि चतुःपञ्चकम् अन्यथा ॥
परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।
लेख्यारूढं साक्षिमद् वा ऋणं दद्याद् धनी सदा ॥
कुत्सितात् सीदतश् चैव निर्विशङ्कैः प्रगृह्यते ।
चतुर्गुणं वाष्टगुणं कुसीदाख्यम् अतः स्मृतम् ॥
पुराणे पणम् ॥
वृद्धिश् चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।
षड्विधान्यैः समाख्याता तत्त्वतस् ता निबोधत ॥
कायिका कालिका चैव चक्रवृद्धिर् अतो ऽपरा ।
कारिता च शिखावृद्धिर् भोगलाभस् तथैव च ॥
कायिका कर्मसंयुक्ता मासाद् ग्राह्या च कालिका ।
वृद्धेर् वृद्धिश् चक्रवृद्धिः कारिता ऋणिना कृता ॥
प्रत्यहं गृह्यते या तु शिखावृद्धिस् तु सा स्मृता ।
शिखेव वर्धते नित्यं शिरश्च्छेदान् निवर्तते ॥
ऋणिकेन तु या वृद्धिर् अधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या सा तु कारिता ।
अन्यथा कारिता वृद्धिर् न दातव्या कथञ् चन ॥
शिखेव वर्धते नित्यं शिरश्च्छेदान् निवर्तते ।
मूले दत्ते तथैवैषा शिखावृद्धिस् ततः स्मृता ॥
गृही स्तोमः शदः क्षेत्राद् भोगलाभः प्रकीर्तितः ॥
कायिका भोगवृद्धिं च कारितां च शिखात्मिकाम् ।
चतुष्टयीं वृद्धिम् आहुश् चक्रवृध्या तु पञ्चमीम् ॥
शिखा वृद्धिं कायिकां च भोगलाभं तथैव च ।
धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ॥
हिरण्ये द्विगुणा वृद्धिस् त्रिगुणा वस्त्रकुप्यके ।
धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च ॥
उक्तपञ्चगुणा शाके बीजे ऽक्षौ षड्गुणा स्मृता ।
लवणस्वेदम् अद्येषु वृद्धिर् अष्टगुणा मता ।
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ॥
तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् ।
वृद्धिर् अष्टगुणा प्रोक्ता गुडस्य लवणस्य च ॥
स्यात् कोशानां पञ्चगुणा कार्पासस्य चतुर्गुणा ।
काष्ठानां चन्दनादीनां वृद्धिर् अष्टगुणा भवेत् ॥
भागो यद् द्विगुणाद् ऊर्ध्वं चक्रवृद्धिश् च गृह्यते ।
पूर्णे च सोदयं पश्चाद् वार्द्धुष्यं तद् विगर्हितम् ॥
अशीतिभागो वर्धेत लाभे द्विगुणताम् इयात् ।
प्रयुक्तं सप्तभिर् वर्षैस् त्रिभागोअनैर् न संशयः ॥
तृणकाष्ठेष्टकासूत्र किण्वचर्मास्थिवर्मणाम् ।
हेतिपुष्पफलानां च वृद्धिस् तु न निवर्तते ॥
हिरण्यधान्यवस्त्राणां वृद्धिर् द्वित्रिचतुर्गुणा ।
घृतस्याष्टगुणा वृद्धिस् ताम्रादीनां चतुर्गुणा ॥
शिखावृद्धिं कायिकां च भोगे लाभं तथैव च ।
धनी तावत् समादद्याद् यावन् मूलं न शोधितम् ॥
पादोपचयात् क्रमेणेतरेषाम् ॥
सर्वेष्व् अर्थविवादेषु वाक्च्छले नावसीदति ।
परस्त्रीभूमिर्णादाने शास्यो ऽप्य् अर्थान् न हीयते ।
समवृद्धिः सदा कुर्याद् विषमस् तु निवर्तते ॥
वसिष्ठवचनप्रोक्तां वृद्धिं वार्द्धुषिके शृणु ।
पञ्च माषास् तु विंशत्या एवं धर्मो न हीयते ॥
माषो विंशतिभागस् तु पलस्य परिकीर्तितः ॥
तत्र त्व् इदम् उपेक्षां वा यः कश्चित् कुरुते नरः ।
चतुःसुवर्णं षण्णिष्कास् तस्य दण्डो विधीयते ॥
समूहकार्यसिध्यर्थं राजादीनां च दर्शने ।
ततो लभेत यत् किंचित् सर्वेषाम् एव तत् समम् ॥
सान्तानिकादिषु तथा धर्म एषां सनातनः ।
यत्नैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ॥
स्वदेशस्थो ऽपि वा यस् तु न दद्याद् याचितो ऽसकृत् ।
स तत्र कारितां वृद्धिम् अनिच्छन्न् अपि चाहरेत् ॥
षाण्मास्यं मासिकं वापि विभक्तव्यं यथांशतः ।
देयं वा निःस्ववृद्धार्त स्त्रीबालातुररोगिषु ॥
ऋतुत्रयस्योपरिष्टाद् धनं वृद्धिम् अवाप्नुयात् ।
एवम् आदिष्व् अशीति भागवृद्धिर् विवक्षिता ॥
न निःस्रवति यत् तत् स्याद् धनिको मूलभाग् भवेत् ।
द्विगुणाद् अपि चोत्कर्षे कालिका यस्य चादिनाम् ।
विवादन्यायतत्त्वज्ञैस् तदा राजा विनिर्णयेत् ॥
आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ॥
आधिर् बन्धः समाख्यातः स च प्रोक्तश् चतुर्विधः ।
जङ्गमः स्थावरश् चैव गोप्यो भोग्यस् तथैव च ॥
यादृच्छिकः सावधिश् च लेख्यारुढो ऽथ साक्षिमान् ।
अशान्तलाभे च ऋणे तथा पूर्णे ऽवधौ धनी ॥
यो भुङ्क्ते बन्धकं लोभान् न स लाभो भवेत् पुनः ।
न्यासवत् परिपाल्यो ऽसौ वृद्धिर् नश्यते हापिते ॥
दैवराजोपघाते च यथाधिर् नाशम् आप्नुयात् ।
तत्राधिं दापयेद् दद्यात् सोदयं धनम् अन्यथा ॥
बन्धहस्तस्य यद् देयं चित्रेण चरितेन वा ।
अदत्ते ऽर्थे ऽखिलं बन्धं नाकामो दाप्यते क्वचित् ॥
भुक्ते चासारतां प्राप्ते मूलहानिः प्रजायते ।
बहुमूल्यं तत्र नष्टम् ऋणिकं तत्र तोषयेत् ॥
क्षेत्रम् एकं द्वयोर् बन्धे दत्तं यत् समकालिकम् ।
येन भुक्तं भवेत् पूर्वं तस्य सिद्धिम् अवाप्नुयात् ॥
तुल्यकालोपस्थितयोर् द्वयोर् अपि समं भवेत् ।
प्रदाने विक्रये चैव विधिः स परिकीर्तितः ॥
आधानं विक्रयो दानं साक्षिलेख्यकृतं यदा ।
एकक्रियानिबन्धेन लेख्यं तत्रापहारकम् ॥
अनिर्दिष्टं च निर्दिष्टं एकत्र च विशेषितम् ।
विशेषलिखितं ज्याय इति कात्यायनो ऽब्रवीत् ॥
हिरण्यं द्विगुणीभूते पूर्णे काले धृतावधौ ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥
तदन्तरा धनं दत्त्वा ऋणी बन्धम् अवाप्नुयात् ।
पूर्णे विधौ सान्तलाभे बन्धस्वामी ततो भवेत् ।
अनिर्गते दशाहे तु ऋणी मोक्षितुम् अर्हति ॥
गोप्याधिर् द्विगुणाद् ऊर्ध्वं कृतकालो यथाविधि ।
श्रावयित्वा ऋणिकुले भोक्तव्यः समनन्तरम् ॥
हिरण्ये द्विगुणीभूते नष्टे चैवाधमर्णके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥
रक्षेद् वा कृतमूल्यं तु दशाहं जनसंसदि ।
ऋणानुरूपां परतो गृहीत्वान्यं तु वर्जयेत् ॥
न भुङ्क्ते यः स्वम् आधानं नादद्यान् न निवेदयेत् ।
प्रमीतसाक्षी ऋणिकः तस्य लेख्यम् अपार्थकम् ॥
गृहवार्यापणं धान्यं पशुस्त्रीवाहनानि च ।
उपेक्षया विनश्यन्ति यान्ति चासारतां तथा ॥
स्वधनं च स्थिरीकृत्य गणनाकुशलैर् नृभिः ।
तद्बन्धुज्ञातिविदितं प्रगृह्णन्न् आपराध्नुयात् ॥
विवादो ऽष्टादशोपेतः पूर्वोत्तरविशेषितः ।
व्याख्यातस् त्व् अधुना सम्यक् क्रियाभेदान् निबोधत ॥
पूर्वं कृता क्रिया या तु पालनीया तथैव सा ।
अन्यथा क्रियते यत्र क्रियाभेदस् तदा भवेत् ॥
विहाय करणं पूर्वं धनिको वाधमर्णिकः ।
कुर्यान् न्यूनाधिकं तुल्यं क्रियाभेदः स उच्यते ॥
द्विकेनार्थं समादाय प्रपन्नः पञ्चकं तु यः ।
लाभं तत्र प्रमाणं स्यात् पश्चिमं यद् धि निश्चितं ॥
अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथास्थितिः ॥
उत्तरोत्तरबन्धेन प्राग्बन्धः शिथिलो भवेत् ।
यः पश्चिमः क्रियाकारः स पूर्वाद् बलवत्तरः ॥
न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति यः ।
विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥
कृतं चेद् एकदिवसे विक्रयाधिप्रतिग्रहम् ।
त्रयाणाम् अपि संदिग्धे कथं तत्र विचारणा ॥
त्रीण्य् एवात्र प्रमाणानि विभजेयुर् यथांशतः ।
उभौ चार्थानुसारेण त्रिभागेन प्रतिग्रही ॥
सामकं कर्षितं तत् स्यात् तदा न धनभाग्धनी ।
ऋणी च न लभेद् बन्धं परस्परमतं विना ॥
धनं मूलीकृतं दत्त्वा यद् आधिं प्रार्थयेद् ऋणी ।
तदैव तस्य मोक्तव्यस् त्व् अन्यथा दोषभाग्धनी ॥
क्षेत्रादिकं यदा भुक्तम् उत्पन्नम् अधिकं ततः ।
मूलोदयं प्रविष्टं चेत् तद् आधिं प्राप्नुयाद् ऋणी ॥
प्रयोजके ऽसति धनं मूले न्यस्याधिम् आप्नुयात् ।
परिभाष्य यदा क्षेत्रं दद्यात् तु धनिने ऋणी ।
तदा तच् छान्तलाभे ऽर्थे मोक्तव्यम् इति निश्चयः ॥
आधिस् तु सोदये द्रव्ये प्रदातव्यं त्वया मम ।
कुसीदाधिविधिस् त्व् एष धर्म्यः संपरिकीर्तितः ॥
यत्राधिकं गृहक्षेत्रं भोगेन प्रकर्षान्वितम् ।
तत्र र्णी चाप्नुयाद् बन्धं धनी चैव ऋणं तथा ॥
पूर्णे प्रकर्षे तत्साम्यम् उभयोः परिकीर्तितम् ।
अपूर्णे तु प्रकुर्यातां प्रस्परमतेन तौ ॥
यदि प्रकर्षितं तत् स्यात् तदा न धनभाग्धनी ।
ऋणी न लभते बन्धं परस्परमतं विना ॥
दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।
चतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥
आहैको दर्शयामीति साधुर् एषो ऽपरो ऽब्रवीत् ।
दाताहम् एतद् द्रविणम् अर्पताम्य् अपरो वदेत् ॥
दर्शनप्रतिभूर्यस् तु देशे काले च दर्शयेत् ।
निबन्धं वावहेत् तत्र दैवराजकृताद् ऋते ॥
नष्टस्यान्वेषणे कालं दद्यात् प्रतिभुवे धनी ।
देशाध्वरूपतः पक्षं मासं सार्धम् अथापि वा ॥
यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।
अदर्शयं स तं तस्मै प्रयच्छेत् स्वधनाद् ऋणम् ॥
आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥
स्वामीरिपुनिरुद्धाधि कृतदण्डितसंशयाः ।
रिक्थि मित्र अन्तेवासि राजवृत्तवीतराग ।
व्रतिदरिद्रबालवृद्धस्त्रीरुग्णा न प्रतिभुवः ॥
उपस्थाप्यविपत्तौ उपस्थाप्यस्य पुनः प्रतिभूः दाप्यः ॥
पुत्रेणापि समं देयम् ऋणं सर्वं तु पैतृकम् ॥
प्रतिभाव्यं तु यो दद्यात् पीडितः प्रतिभावितः ।
त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥
साधुत्वाच् चेन् मन्दधिय ऋणं दद्युर् अभाविताः ।
यद् अर्थं दापितास् तस्मान् न लभेरन् कथञ् चन ॥
नात्यन्तं पीडनीयाः स्युर् ऋणं दाप्याः शनैः शनैः ।
स्वसाक्ष्येणए न नियोज्याः स्युर् विधिः प्रतिभुवाम् अयम् ॥
नष्टे मृते वा ऋणिके धनी पत्रं प्रदर्शयेत् ।
तत्कालावधिसंयुक्तं स्थानलेख्यं च कारयेत् ॥
प्रतिभुवा तु यद् दत्तम् अपृष्टम् ऋणिके धनम् ।
द्विगुणं न प्रतिभुवे प्रदेयम् ऋणिकेन तु ॥
धर्मोपधिबलात् कारैर् गृहसंरोधनेन च ।
प्रतिपन्नम् ऋणं दाप्यः सामादिभिर् उपक्रमैः ।
धर्मोपधिबलात् कारैर् गृहसंरोधनेन च ॥
सुहृत्संबन्धिसंदिष्टैः सामोक्त्यानुगमेन च ।
प्रायेण धनिने दाप्यो धर्म एष उदाहृतः ॥
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥
छद्मना याचितं चार्थम् आनीय ऋणिकाद् धनी ।
अन्वाहितादि वाहृत्य दाप्यते यत्र सोपधिः ॥
यदा स्वगृहम् आनीय ताडनाद्यैर् उपक्रमैः ।
ऋणिको दाप्यते यत्र बलात् कारः स कीर्तितः ॥
कर्मणापि समं कुर्याद् धनिकं वाधमर्णिकः ।
समो ऽपकृष्टजातिश् च दद्याच् छेयांस् तु तच्छनैः ॥
हीनजातिं परिक्षीणम् ऋणार्थे कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥
दारपुत्रपशून् बध्वा कृत्वा द्वारोपवेशनम् ।
यत्रर्णी दाप्यते ऽर्थं स्वं तद् आचरितम् उच्यते ॥
प्रतिपन्नस्य धर्मो ऽयं व्यपलापी तु संसदि ।
लेख्येन साक्षिभिर् वापि भावयित्वा प्रदाप्यते ॥
प्रदातव्यं यद् भवति न्यायतस् तद् ददाम्य् अहम् ।
एवं यत्रर्णिको ब्रूते क्रियावादी स उच्यते ॥
न रोद्धव्यः क्रियावादी संदिग्धे ऽर्थे कथञ् चन ।
आसेधयंस् त्व् अनासेध्यं दण्ड्यो भवति धर्मतः ॥
रूपसंख्यादिलाभेषु यत्र भ्रान्तिर् द्वयोर् भवेत् ।
देयानादेययोर् वापि संदिग्धो ऽर्थः स कीर्तितः ॥
पूर्णावधौ शान्तलाभे ऋणाम् उद्ग्राहयेद् धनी ।
धारयेद् वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया ॥
द्विगुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते ।
भोगलाभस् तदा तत्र मूलं स्यात् सोदयं नृणाम् ॥
अनावेद्य तु राज्ञे यः संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् स चाप्य् अर्थो न सिध्यति ॥
परहस्ताद् गृहीतं यत् कुषीदविधिना ऋणम् ।
येन यत्र यथा देयम् अदेयं चोच्यते ऽधुना ॥
याचमानाय दातव्यम् अल्पकालम् ऋणं कृतम् ।
पूर्णे ऽवधौ शान्तलाभम् अभावे च पितुः सुतैः ॥
तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि ।
तपस्या चाग्निहोत्रं च सर्वं तद् धनिनो भवेत् ॥
निर्धनम् ऋणिनं कर्म गृहमानीय कारयेत् ।
शौण्डिकाद्यं ब्राह्मणस् तु दापनीयः शनैः शनैः ॥
धनस्त्रीहारिपुत्राणां पूर्वीभावे यथोत्तरं आधमर्ण्यं ॥
तदभावे क्रमशो ऽन्येषां रिक्थभाजाम् ॥
ऋणं धर्मादितो ग्राह्यं यस् तूपरि न लेखयेत् ।
न चैवोपगतं दद्यात् तस्य तद्वृद्धिम् आप्नुयात् ॥
व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणम् एवंविधं पुत्रान् जीवताम् अपि दापयेत् ॥
सांनिध्ये ऽपि पितुः पुत्रैर् ऋणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ॥
एकच्छायाप्रविष्टानां दाप्यो यस् तत्र दृश्यते ।
प्रोषितस्य सुतः सर्वं पित्र्यम् अंशं मृतस्य तु ॥
एकच्छायाकृतं सर्वं दद्यात् तु प्रेषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न कदाचन ॥
पित्र्यम् एवाग्रतो देयं पश्चाद् आत्मीयम् एव च ।
तयोः पैतामहं पूर्वं देयम् एवम् ऋणं सदा ॥
ऋणम् आत्मीयवत् पित्र्यं पुत्रैर् देयं विभावितम् ।
पैतामहं समं देयम् अदेयं तत् सुतस्य तु ॥
कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं समाचरेत् ।
स्वदेशे वा विदेशे वा तं विद्वान् न विचालयेत् ॥
अतः पुत्रेन जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा न नरकं व्रजेत् ॥
पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः ।
विभक्ता अविभक्ता वा यो वा ताम् उद्वहेद् धुरम् ॥
सौराक्षिकं वृथा दानं कामक्रोधप्रतिश्रुतम् ।
प्रातिभाव्यं दण्डशुल्क शेषं पुत्रं न दापयेत् ॥
शौण्डिकव्याधरजक गोपनापितनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस् तासां भर्तृक्रियासु तत् ॥
ऋणभाग्द्रव्यहारी च यदि सोपद्रवः सुतः ।
स्त्रीहारी तु तथैव स्याद् अभावे धनहारिणः ॥
पितृव्य भ्रातृपुत्रस्त्री दासशिष्यानुजीविभिः ।
यद् गृहीतं कुटुम्बार्थे तद् गृही दातुम् अर्हति ॥
यः स्वामिना नियुक्तस् तु धनायव्ययपालने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस् तु स स्मृतः ॥
उज्जामादिकम् आदाय स्वामिने न ददाति यः ।
स तस्य दासः पुत्रः स्त्री पशुवी जायते गृहे ॥
ऋणं पुत्रकृतं पित्रा शोध्यं यद् अनुमोदितम् ।
सुतस्नेहेन वा दद्यान् नान्यथा दातुम् अर्हति ॥
ऋणी बन्धम् अवाप्नुयात् ।
फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥
यदि प्रकर्षितं तत् स्यात् तदा न धनभाग्धनी ।
ऋणी च न लभेत् बन्धं परस्परमतं विना ॥
अधमर्णो ऽर्थसिध्यर्थम् उत्तमर्णेन वादितः ।
दापयेद् धनिकस्यार्थम् अधमर्णविभावितम् ॥
अर्थे ऽपव्ययमानं तु करणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डकेशं च शक्तितः ॥
यो यावन् निह्नुवीतार्थं मिथ्या यावति वादयेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद् द्विगुणं दमम् ॥
धर्म्यादिनोद्ग्राह्य धनं यस् तूपरि न लेखयेत् ।
न चैवोपगतं दद्यात् तस्य तद् वृद्धिम् आप्नुयात् ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0