बृहस्पतिस्मृति · अध्याय 1.5
नव सप्त च पञ्च स्युश् चत्वारस् त्रय एव वा ।
उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत् कदा चन ॥
द्यूतकः शटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥
स्तेनाः साहसिकाः षण्डाः कितवाः सूचकास् तथा ।
न साक्षिणस् ते दुष्टात्वात् तेषु साक्षियं न विद्यते ॥
लिखितो लिखितो गूढः स्मारितः कुल्यदूतकौ ।
यदृच्छश् चोत्तरश् चैव कार्यमध्यगतो ऽपरः ॥
नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः ।
प्रभेदम् एषां वक्ष्यामि यथावद् अनुपूर्वशः ॥
जातिनामादिलिखितं येन स्वं पित्र्यम् एव च ।
निवासश् च विज्ञेयः साक्षी लिखितसंज्ञकः ॥
अर्थिना च क्रिया भेदैस् तस्य कृत्वा ऋणादिकम् ।
प्रत्यक्षं लिख्यते यस् तु लेखितः स उदाहृतः ॥
कुड्यव्यवहितो यस् तु श्राव्यते ऋणभाषितम् ।
विनिह्नुतो यथाभूतं गूढः साक्षी स उच्यते ॥
आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके ।
स्मार्यते च मुहुर्यश् च स्मारितः स उदाहृतः ॥
विभागदाने विपणे ज्ञातिर् यश् चोपयुज्यते ।
द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥
अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस् तु यः ।
उभयोः संमतः साधुः दूतकः स उदाहृतः ॥
क्रियमाणे तु कर्तव्ये यः कश् चित् स्वयम् आगतः ।
अत्र साक्षी त्वम् अस्माकम् उक्तो यादृच्छिकस् तु सः ॥
यत्र साक्षी दिशं गच्छेन् मुमूर्षुर् वा यथाक्रमम् ।
अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥
साक्षिणाम् अपि यः साक्ष्यम् उपर्य् उपरि भाषताम् ।
श्रवणाच् छ्रवणाद् वापि स साक्ष्य् उत्तरसंज्ञितः ॥
उभाभ्यां यस्य विश्वस्तं कार्यं चापि निवेदितम् ।
गूढधारी स विज्ञेयः कार्यमध्यागतस् तथा ॥
अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद् विसंवादे द्वयोर् अपि ॥
निर्णीते व्यवहारे तु पुनर् न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥
व्युषितं छादितं यत्र सीमायां च समन्ततः ।
स कृत्तो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥
लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः ।
यदृच्छ स्मारिताः कुल्यास् तथा चोत्तरसाक्षिणः ॥
दूतकः स्वटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥
साक्षिणो ऽर्थसमुद्दिष्टान् यस् तु दोषेण दूषयेत् ।
अदुष्टं दूषयन् वादी तत्समं दण्डम् अर्हति ॥
लेख्यदोषास् तु ये केचित् साक्षिणाम् चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥
साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान् सर्वान् वाच्यं प्रत्युत्तरं ततः ॥
प्रतिपत्तौ न साक्षित्वम् अर्हन्ति तु कदा चन ।
अतो ऽन्यथा भावनीयाः क्रियायां प्रतिवादिना ॥
अभावयन् दमं दाप्यः प्रत्यर्थी साक्षिणा स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥
प्रत्यर्थिनो ऽर्थिनो वापि साक्षिदूषणसाधने ।
प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥
जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षी सत्ये व्यवस्थितः ॥
उक्ते ऽर्थे साक्षिणो यस् तु दूषयन् प्रागदूषितान् ।
न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥
लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्यं न शोध्यं तु यावत् तन् न विशोधयेत् ॥
साक्षिभिर् गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः ।
पुनर्विवादं कुरुते राजा तत्र विचारयेत् ॥
साक्षिसंदूषणे कार्यं पूर्वं साक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात् कार्यं विशोधयेत् ॥
सत्यप्रशंसावचनैर् अनृतस्यापवर्जनैः ।
सभ्यैः संबोधनीयास् तु धर्मशास्त्रार्थवेदिभिः ॥
आ जन्मनश् चा मरणात् सुकृतं यत् त्वयार्जितम् ।
तत् सर्वं नाशम् आयाति वितथस्याभिशंसनात् ॥
कूटसब् ह्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः ।
भ्रूणहा मित्रहा चैषां नाधिकः समुदाहृतः ॥
एवं विदित्वा यः साक्षी स यथार्थं वदेत् ततः ।
तेनेह कीर्तिम् आप्नोति परत्र च शुभां गतिम् ॥
पुरुषाः सन्ति लोभाद् ये कार्यं प्रब्रूयुर् अन्यथा ।
सन्ति चान्ये दुरात्मान्ः कूटलेख्यकृतो नराः ॥
प्रष्टव्याः साक्षिणो ये तु वर्ज्याश् चैव नराधमाः ।
तान् अहं कथयिष्यामि सांप्रतं शास्त्रचोतितान् ॥
श्रौतस्मार्तक्रियायुक्ताः लोभद्वेषविवर्जिताः ।
कुलीनाः साक्षिणो ऽनिन्द्यास् तपोदानदयान्विताः ॥
मातुः पिता पितृव्यश् च भार्याया भ्रातृमातरौ ।
भ्राता सखा च जामाता सर्ववादेष्व् असाक्षिणः ॥
परस्त्रीपानसक्ताश् च कितवाः पूर्वदूषिताः ।
उन्मत्तार्ताः साहसिका नास्तिकाश् च न साक्षिणः ॥
सन्तो ऽपि न प्रमाणं स्युर् मृते धनिनि साक्षिणः ।
पुत्रे तु श्राविता ये स्युः स्वयम् आसन्नमृत्युना ॥
विहायोपानदुष्णीषं दक्षिणं पाणिम् उद्धरेत् ।
हिरण्यं गोशकृद् दर्भान् समादाय ऋतं वदेत् ॥
उपस्थिताः परीक्ष्याः स्युः स्वर्वर्णेङ्गितादिभिः ।
सकृत् प्रमादापराधि विप्रं व्यापदि पीडितम् ।
भटादिभिर् वध्यमानं रक्षेद् उक्त्वानृतान्य् अपि ॥
यस्याशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः ।
स जयी स्याद् अन्यथा तु साध्यार्थं न समाप्नुयात् ॥
आहूतो यत्र नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ॥
साक्षिद्वैधे प्रभूताः स्युर् ग्राह्याः साम्ये गुणान्विताः ।
गुणिद्वैधे क्रियायुक्तास् तत्साम्ये शुचिमत्तराः ॥
अपृष्टाः सत्यवचने प्रश्नस्याकथने तथा ।
साक्षिणः सन् निरोद्ध्व्या गर्ह्या दण्ड्याश् च धर्मतः ॥
देशकालवयोद्रव्य संज्ञाजातिप्रमाणतः ।
अन्यूनं चेन् निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥
देशकालवयोद्रव्य प्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् अपि नान्यथा ॥
निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्य आगते ।
न ब्रूयाद् अक्षस्रसमं न तन् निगदितं भवेत् ॥
पूर्वपक्षे प्रतिज्ञातम् अशेषं प्रतिभावयेत् ।
ऊनाधिकं तु यत्रोक्तं न तन् निगदितं भवेत् ॥
ऊनम् अभ्यधिकं वार्थम् विब्रूयुर् यत्र साक्षिणः ।
तदर्थानुक्तविज्ञेयम् एष साक्षिविधिः स्मृतः ॥
साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकल्प्यते ॥
ऊनाधिकं तु यत्र स्यात् साक्ष्यं तत्र विवर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्याद् अब्रुवन् दण्डम् अर्हति ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0