भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.4

1.4.1

शोधिते लिखिते सम्यग् इति निर्दोष उत्तरे ।
प्रत्यर्थिनो ऽर्थिनो वापि क्रिया कारणम् इष्यते ॥

1.4.2

ये तु तिष्ठन्ति करणे तेषाम् सभ्यैर् विभावना ।
कथयित्वोत्तरं सम्यग् दातव्यैकस्य वादिनः ॥

1.4.3

प्रतिज्ञां भावयेद् वादी प्रत्यर्थी कारणं तथा ।
प्राग्वृत्तवादी विजयं जयपत्त्रेण भावयेत् ॥

1.4.4

पूर्वपादे विलिखितं यथाक्षरम् अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥

1.4.5

श्रुत्वा पूर्वोत्तरं सभ्यैर् निर्दिष्टा यस्य भावना ।
विभावयेत् प्रतिज्ञातं सो ऽखिलं लिखितादिना ॥

1.4.6

द्विप्रकारा क्रिया प्रोक्ता मानुषीइ दैविकी तथा ।
एकैकानेकधा भिन्ना ऋषिभिस् तत्त्ववेदिभिः ॥

1.4.7

साक्षिणो लिखितं भुक्तिर् मानुषं त्रिविधं स्मृतम् ।
धटाद् या धर्मजान्ता तु दैवी नवविधा क्रिया ॥

1.4.8

साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया ।
साक्षी द्वादश भेदस् तु लिखितं त्व् अष्टधा स्मृतम् ॥

1.4.9

अनुमानं त्रिधा प्रोक्तं नवधा दैविकी क्रिया ।
प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ॥

1.4.10

उत्तरे स्याच् चतुर्थे तु ससाक्षिजयपत्रकम् ।
ऋणादिकेषु कार्येषु कल्पयेन् मानुषीं क्रियाम् ॥

1.4.11

प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत् स्वयम् ।
उत्तरार्थं प्रतिज्ञार्थं अर्थी मिथ्योत्तरे पुनः ॥

1.4.12

क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न स्याद् दिव्यं न साक्षिणः ॥

1.4.13

वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया ।
प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्व् अपि ॥

1.4.14

नृपद्रोहे साहसे च कल्पयेद् दैविकीं क्रियाम् ॥

1.4.15

मणिमुक्ताप्रवालानां कूटहृत्पाशहारकः ।
हिंसको ऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ॥

1.4.16

महापापाभिशापेषु निक्षेपे हरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥

1.4.17

लिखिते साक्षिवादे च संदिग्धिर् जायते यदि ।
अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ॥

1.4.18

द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेखकम् ॥

1.4.19

यथालाभोपपन्नैस् तैर् निर्णयं कारयेन् नृपः ।
प्रकान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥

1.4.20

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥

1.4.21

चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु ।
प्रदुष्टेष्व् अनुमानेषु दिव्यैः कार्यं विशोधयेत् ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc