भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.3

1.3.1

यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥

1.3.2

विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञाते स्थिरीभूते लेखयेद् उत्तरं ततः ॥

1.3.3

शालीनत्वाद् भयात् तद्वत् प्रत्यर्थी स्मृतिविभ्रमात् ।
कालं प्रार्थयते यत्र तत्रेमं लब्धुम् अर्हति ॥

1.3.4

एकाहत्र्यहपञ्चाह सप्ताहं पक्षम् एव वा ।
मासं चतुस् त्रयं वर्षं लभते शक्त्यपेक्षया ॥

1.3.5

पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यानगम्यम् एतद् उत्तरं तद्विदो विदुः ॥

1.3.6

उत्तरं चतुर्विधं संप्रति षत्मुरं, ।
मिथ्योत्तरं प्राङ्न्याय उत्तरं कारणोत्तरं चेति ॥

1.3.7

पूर्वपक्षे यथार्थं तु न दद्याद् उत्तरं तु यः ।
प्रत्यक्षी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥

1.3.8

प्रियपूर्वं वचः साम भेदस् तु भयदर्शनम् ।
अर्थापकर्षणं दण्डस् ताडनं बन्धनं तथा ॥

1.3.9

साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।
भूमौ विवादयेत् क्षिप्रम् अकाले ऽपि बृहस्पतिः ॥

1.3.10

अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहुतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥

1.3.11

कन्याया दूषणे स्तेये कलहे साहसेषु च ।
उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥

1.3.12

धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥

1.3.13

प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न संभवेत् ॥

1.3.14

अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते ।
प्रतिपत्तिस् तु सा ज्ञेया कारणं तूत्तरं पृथक् ॥

1.3.15

सर्वालापं तु यः कृत्वा मिथो ऽल्पम् अपि संवदेत् ।
सर्वम् एव तु दाप्यः स्याद् अभियुक्तो बृहस्पतिः ॥

1.3.16

वाक्पारुष्ये च भूम्यौ च दिव्यं तु परिवर्जयेत् ।
विक्रयादानसंबन्धे क्रियादानम् अनिच्छति ॥

1.3.17

अभियुक्तो ऽभियोगस्य यदि कुर्यात् तु निह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥

1.3.18

श्रुत्वाभियोगं प्रत्यर्थी यदि तत् प्रतिपद्यते ।
सा तु संप्रतिपत्तिस् तु शास्त्रविद्भिर् उदाहृता ॥

1.3.19

अर्थिनाभिहितो यो ऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥

1.3.20

यो ऽर्थिनार्थः प्रभाष्येत प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयाद् आधर्यं मनुर् अब्रवीत् ॥

1.3.21

आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।
स विनेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥

1.3.22

तथ्ये तथ्यं प्रयुञ्जीत मिथ्यायां चापि लेखयेत् ।
कारणं कारणोपेते प्राग्जये तु जयं तथा ॥

1.3.23

भयदृष्टोद्भवा मिथ्या गर्हिता शास्त्रवेदिभिः ।
सत्या संप्रतिपत्तिस् तु धर्म्या सा परिकीर्तिता ॥

1.3.24

प्राङ्न्यायकरणे तथ्यं श्लाघ्यं सद्भिर् उदाहृतम् ।
विपरीतम् अधर्म्यं स्यात् प्रत्यर्थी हानिम् आप्नुयात् ॥

1.3.25

अहंपूउर्विकया याताव् अर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेक्ष्य च ॥

1.3.26

एककाले समानीते प्रत्यर्थी सभ्यसंनिधौ ।
पूर्वपक्षाक्षरसमं लेखयेद् उत्तरं ततः ॥

1.3.27

प्रत्यर्थविधिर् आख्यातः संगतार्थप्रपादने ।
चतुर्विधस्याप्य् अधुना यत् तद् ग्राह्यं तद् उच्यते ॥

1.3.28

प्रस्तुताद् अन्यन् मध्यस्थं न्यूनाधिकम् असंगतम् ।
अवाच्यसारं संदिग्धं प्रतिपक्षं न लक्षयेत् ॥

1.3.29

भयं करोति भेदं वा भीषणं वा निरोधनम् ।
एतानि वादिनो ऽर्थस्य व्यवहारे स हीयते ॥

1.3.30

ऋत्विगादिर् नियुक्तस् तु समौ संपरिकीर्तितौ ।
यज्ञे स्वाम्य् आप्नुयात् पुण्यं हानिं वादे ऽथ वा जयं ॥

1.3.31

पूर्वोत्तरे ऽभिलिखिते यत्र वादी प्रमीयते ।
प्रत्यर्थी वा सुतस् ताभ्यां व्यवहारं विशोधयेत् ॥

1.3.32

अनिर्णीते विवादे तु विप्रलब्धो भवेन् नृपः ।
जयदानं समं न स्यात् तस्मात् कार्याणि निर्णयेत् ॥

1.3.33

साक्षिणस् तु समुद्दिश्य यस् तु तान् न विवादयेत् ।
त्रिंसद्रात्रात् त्रिपक्षाद् वा तस्य हानिः प्रजायते ॥

1.3.34

आहूतप्रपलायी च मौनी साक्षिपराजितः ।
स्ववाक्यप्रतिपन्नश् च हीनवादी चतुर्विधः ॥

1.3.35

प्रपलायी त्रिपक्षेण मौनी वा सप्तभिर् दिनैः ।
साक्षिभिन्नस् तत्क्षणेन प्रतिपन्नश् च हीयते ॥

1.3.36

निवेदितस्य अकथनम् अनुपस्थानम् एव च ।
पक्षार्थिदोषौ मौनं च हीयमानस्य लक्षणम् ॥

1.3.37

महापापोपपापाभ्यां पातकेनाथ संसदि ।
यो ऽभिशस्तस् तत् क्षमते संयुक्तं तम् विदुर् जनाः ॥

1.3.38

तस्माद् यत्नेन कर्तव्यं बुधेनात्मविशोधनम् ।
यद् यद् गुरुतरं कार्यं तत् तत् पूर्वं विशोधयेत् ॥

1.3.39

महापापाभिशस्तो यः पातकात् तर्तुम् इच्छति ।
पूर्वम् अङ्गीकृतं तेन जितो ऽसौ दण्डम् अर्हति ॥

1.3.40

आचारकरणे दिव्ये कृत्वोपस्थाननिश्चयम् ।
नोपस्थितो यदा कश् चिच् छलं तत्र न कारयेत् ॥

1.3.41

दैवराजकृतो दोषस् तत्काले तु यदा भवेत् ।
अवधित्यागमात्रेण न भवेत् स पराजितः ॥

1.3.42

पुर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते ।
प्रशमं ये मिथो यान्ति दाप्यस् ते द्विगुणं दमम् ॥

1.3.43

पूर्वोत्तरार्थे लिखिते प्रक्रान्ते कार्यनिर्णये ।
द्वयोः संतप्तयोः सन्धिः स्याद् अयःखण्डयोर् इव ॥

1.3.44

साक्षिसभ्यविकल्पस् तु भवेत् तत्रोभयोर् अपि ।
दोलायमानयोः सन्धिः प्रकुर्यातां विचक्षणैः ॥

1.3.45

प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजामया सन्धिर् उभयोर् अपि शस्यते ॥

1.3.46

यत्र सांशायिको धर्मो व्यवहारश् च पार्थिवे ।
सन्धिस् तत्र तु कर्तव्यो ऽयसोः संतप्तयोर् यथा ॥

1.3.47

समः सन्धिस् तदा कार्यो विषमस् तु निवर्तते ।
धर्मार्थोपग्रहः कीर्तिः भवेत् साम्येन भूभृतः ।
न क्लिश्यन्ते साक्षिसभ्या ऐरं च विनिवर्तते ॥

1.3.48

निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशो ऽयशः ।
विग्रहाज् जायते नृणां पुनर्दोषस् तथैव च ॥

1.3.49

तस्मात् कुलगणाध्यक्षा धर्मज्ञाः समदृष्टयः ।
अद्वेषलोभा यद् ब्रूयुस् तत् कर्तव्यं विजानता ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc