बृहस्पतिस्मृति · अध्याय 1.2
भाषापादोत्तरपदौ क्रियापादस् तथैव च ।
प्रत्याकलितपादश् च व्यवहारश् चतुष्पदः ॥
मिथ्यासंप्रतिपत्तिश् च प्रत्यवस्कन्दनं तथा ।
प्राङ्न्यायश् चोत्तराः प्रोक्ताश् चत्वारः शास्त्रवेदिभिः ॥
मिथ्यायां च चतुष्पादः प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥
उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दण्दम् अर्हति ॥
उपस्थिते ततस् तस्मिन् वादी पक्षं प्रकल्पयेत् ।
निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् ॥
देशस्थानसमामास पक्षाहोनामजातिभिः ।
द्रव्यसंख्योदयं पीडां क्षामलिङ्गं च लेखयेत् ॥
यं च अर्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
न च पक्षान्तरं गच्छेत् गच्छन् पूर्वात् स हीयते ॥
अप्रसिद्धं सदोषं च निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥
न केनचित् कृतो यस् तु सो ऽप्रसिद्ध उदाहृतः ।
अन्यार्थः स्वार्थहीनश् च सदोषः परिकीर्तितः ॥
स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः ।
कार्यबाधाविहीनस् तु विज्ञेयो निष्प्रयोजनः ॥
कुसीदाद्यैः पदैर् हीनो व्यवहारो निरर्थकः ।
वाक्पार्ष्यादिभिश् चैव विज्ञेयो निष्प्रयोजनः ॥
ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।
असंभाव्यम् असाध्यं तं पक्षम् आहुर् मनीषिणः ॥
यस्मिन्न् आवेदिते पक्षे प्राड्विवाके च राजनि ।
पुरे राष्ट्रे विरोधः स्याद् विरुद्धः सो ऽभिधीयते ॥
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितं ।
विश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरप्रभूतार्था निस्संदिग्धो निराकुलः ।
विरोधिकारणैर् मुक्तो विरोधिप्रतिषेधकः ॥
वचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता ।
असंकरेण वक्तव्ये व्यवहारेषु वादिभिः ॥
मोहाद् वा यदि वा शाठ्याद् यन् नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वापि तद् ग्राह्यम् उभयोर् अपि ॥
एवमादिगुणान् सम्यग् आलोच्य च सुनिश्चितः ।
पक्षः कृतः समादेयः पक्षाभासस् ततो ऽन्यथा ॥
देशकालविहीनश् च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥
मृषायुक्ति क्रियाहीनम् असाध्याद्यर्थम् आकुलम् ।
पूर्वं पक्षं लेख्यतो वादहानिः प्रजायते ॥
अपदिश्याभियोगं यस् तम् अतीत्यापरं वदेत् ।
क्रियाम् उक्त्वान्यथा ब्रूयात् स वादी हानिम् आप्नुयात् ॥
ऊनाधिकं पूर्वप्क्षे तावद् वादी विशोधयेत् ।
न दद्याद् उत्तरं यावत् प्रत्यर्थी सभ्यसंनिधौ ॥
ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येष्व् असभ्यवादेषु प्रतिवादी न दीयते ॥
मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषने ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रणिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् ॥
अष्टादशपदो वादो विचार्यो विनिवेदितः ।
सन्त्य् अन्यानि पदान्य् अत्र तानि राजा विशेत् स्वयम् ॥
षड्भागहरणं शुद्धं समयाविक्रमो निधिः ।
वधः संहरणं स्तेयम् आसेधाज्ञाव्यतिक्रमः ॥
स्वयं नोत्पादयेत् कार्यं राजा वा सास्य पूरुषः ।
अधिकाच् छातयेद् अर्थान् न्यूनांश् च परिपूरयेत् ॥
भूमौ निवेशयेत् तावद् यावद् अर्थो विनिश्चितः ।
श्रुतं च लिखितं चैव शोधितं च विचारितम् ॥
पूर्वपक्षं स्वभावोक्तं प्राड्विवाको ऽथ लेखयेत् ।
पाण्डुलेख्येन फलके ततः पत्रे विशोधितम् ॥
आवेद्य तु गृहीते ऽर्थे प्रशमं यान्ति ये मिथः ।
अभियोगानुरूपेण तेषां दण्डं प्रकल्पयेत् ॥
अन्ये वा ये पुरग्राम महाराजनविरोधकाः ।
अनदेयास् तु ते सर्वे व्यवहाराः प्रकीर्त्तिताः ॥
पाण्डुलेखेन फलके भूम्यां वा प्रथमण् लिखेत् ।
न्यूनाधिकं तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥
अभियोक्ताप्रगल्भत्वाद् वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कालशक्त्यनुरूपतः ॥
यदि नोत्सहते यत्र विवादं कर्तुम् इच्छतोः ।
दातव्यस् तत्र कालः स्याद् अर्थिप्रत्यर्थिनोर् अपि ॥
चतुर्विधः पूर्वपक्षः प्रतिपक्षस् तथैव च ।
चतुर्धा निर्णयः प्रोक्तः कश् चिद् अष्टविधः स्मृतः ॥
देशः कालस् तथा स्थानं संनिवेशस् तथैव च ।
ज्ञातृसंज्ञा निवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥
श्वोलेखनं वा लभते त्र्यहं सप्ताहम् एव वा ।
मतिर् उत्पद्यते यावत् विवादे वक्तुम् इच्छतः ॥
बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितं ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबृभुत्सया ॥
शङ्काभियोगस् तथ्यं च लक्ष्ये ऽर्थे ऽभ्यर्थनं तथा ।
वृत्ते वादे पुनर् न्यायः पक्षो ज्ञेयश् चतुर्विधः ॥
भ्रान्तिः शङ्का समुद्दिष्टा वश्यं नष्टार्थदर्शनम् ।
लब्धे ऽर्थे ऽभ्यर्थनं मोहस् तथा वृत्ते पुनः क्रियाः ॥
राज्ञापवर्जितो यस् तु यश् च पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
न्यायं व नेच्छते कर्तुम् अन्यायं वा करोति यः ।
न लेखयति यस् त्व् एवं तस्य पक्षी न सिध्यति ॥
विरुद्धं चाविरुद्धं च द्वाव् अप्य् अर्थौ निवेशितौ ।
एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस् त्यजेत् ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0