बृहस्पतिस्मृति · अध्याय 1.26
ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद् धनम् ।
तद् दायं ॥
एकां स्त्रीं कारयेत् कर्म यथांशेन गृहे गृहे ।
बह्व्यः समांशतो देया दासानाम् अप्य् अयं विधिः ॥
उद्धृत्य कूपवाप्यम्भस् त्व् अनुसारेण गृह्यते ।
तथा भागानुसारेण सेतुः क्षेत्रं विभज्यते ॥
युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥
एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद् द्विभक्तानां तद् एव स्याद् गृहे गृहे ॥
साक्सित्वं प्रतिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥
येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तान् अवगच्छेयुः लेख्यम् अप्य् अन्तरेण तान् ॥
कुलानुबन्धव्याघात होधं साहससाधकम् ।
स्वस्वभोगस्थावरस्य विभागस्य पृथग्धनम् ॥
पित्रोर् अभावे भ्रातृणां विभागः संप्रदर्शितः ।
मातुर् निवृत्ते रजसि प्रत्तसु भगिनीषु च ॥
क्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः ।
पैतृके न विभागार्हाः सुताः पितुर् अनिच्छया ॥
समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्त्वा भजेरन्न् इतरे समम् ॥
वयोविद्यातपोभिश् च द्व्यंशं हि लभते धनम् ।
यथा यथा विभागाप्तं धनं यागार्थताम् इयात् ।
तथा तथा विधातव्यं विद्वद्भिर् भागगौरवम् ॥
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥
द्रव्ये पितामहोपात्ते स्थावरे जङ्गमे ऽपि वा ।
समम् अंशित्वम् आख्यातं पितुः पुत्रस्य चैव हि ॥
समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास् ते स्युर् अन्यथा ॥
जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् ॥
द्विप्रकारो विभागस् तु दायादानां प्रकीर्तितः ।
वयोज्येष्ठक्रमेणैकः समा परांशकल्पना ॥
समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः ।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥
पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।
विद्याकर्मरतस् तेषाम् अधिकं लब्धुम् अर्हति ॥
विद्याविज्ञानशौर्यार्थे ज्ञानदानक्रियासु च ।
यस्येह प्रथिता कीर्तितः पितरस् तेन पुत्रिणः ॥
जन्मविद्यागुणैर् ज्येष्ठो द्व्यंशं दायाद् अवाप्नुयात् ।
समांशभागिनस् त्व् अन्ये तेषां पितृसमस् तु सः ॥
तदभावे तु जननी तनयांशसमांशिनी ।
समांशा मातरस् तेषां तुरीयांशा च कन्यका ॥
कन्यकानां त्व् अदत्तानां चतुर्थो भाग इष्यते ।
पुत्राणां च त्रयो भागाः साम्यं त्व् अल्पधने स्मृतम् ॥
यद्य् एकजाता बहवः समाना जातिसंख्यया ।
स्वधनैस् तैर् विभक्तव्यं मातृभागेन धर्मतः ॥
सवर्णा भिन्नसंख्या ये पुंभागस् तेषु शस्यते ।
पितामह्यस् तु सर्वास् ता मातृतुल्याः प्रकीर्तिताः ॥
असंस्कृतास् तु यास् तत्र पैतृकाद् एव ता धनात् ।
संस्कार्या भ्रातृभिर् ज्येष्ठः कन्यकाश् च यथाविधि ॥
असंस्कृता भ्रातरस् तु ये स्युस् तत्र यवीयसः ।
संस्कार्याः पूर्वजैस् ते वै पैतृकान् मध्यगाद् धनात् ॥
दद्याद् धनं च पर्याप्तं क्षेत्रांशं वा यद् इच्छति ॥
ऊढया कन्यया वापि भर्तुः पितृगृहे ऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्रम् इष्यते ।
यस्मात् तदानृशंस्यार्थं तैर् दत्तम् उपजीवनम् ॥
विक्रये चैव दाने च यथेष्तं स्थावरेष्व् अपि ।
स्त्रीधनं स्याद् अपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत् समूढा तु लभते मानमात्रकम् ॥
मातुः स्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥
यद् आसाम् औरसो न स्यात् पुत्रो दौहित्र एव वा ।
तत् सुतो वा धनं तासां स्वस्त्रीयाद् याः समाप्नुयुः ॥
सवर्णजो ऽप्य् अगुणवान् नार्हः स्यात् पैतृके धने ।
तत्पिण्डदाः श्रोत्रिया ये तेषां तत् तु विधीयते ॥
उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।
अतस् तु विपरीतेन तेन नास्ति प्रयोजनम् ॥
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ॥
शास्त्रशौर्यार्थरहितस् तपोविज्ञानवर्जितः ।
आचारहीनः पुत्रस् तु मूत्रोच्चारसमः स्मृतः ॥
स्थावरद्विपदं चैव यद्य् अपि स्वयम् आर्हितम् ।
असम्भूय सुतान् सर्वान् न दानं न च विक्रयः ॥
जाता जनिष्यद् गर्भस्थाः पितृस्था ये च मानवाः ।
सर्वे कांक्षन्ति तां वृत्तिम् अनाच्छेद्यास् ततस् तु सा ॥
गृहोपस्करवाह्यादि भोज्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते गूढे केशो विधीयते ॥
क्षत्रजास् त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ॥
ब्रह्मक्सत्रियविष्शूद्रा विप्रोत्पन्नास् त्व् अनुक्रमात् ।
चतुस्त्रिद्व्येकभागेन भवेयुस् ते यथाक्रमम् ॥
शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।
द्विजातिर् आप्नुयात् सर्वम् इति धर्मो व्यवस्थितः ॥
तेषां सवर्णा ये पुत्रास् ते तृतीयांशभागिनः ।
हीनास् तम् उपजीवेयुर् ग्रासाच्छादनसंभृताः ॥
सर्वे ह्य् अनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनर् उत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ॥
पितामहपितृभ्यां च दत्तं मात्रा च यद् भवेत् ।
तस्य तन् नापहर्तव्यं शौर्यभार्याधनं तथा ॥
वस्त्रादयो ऽविभाज्या यैर् उक्तं तैर् न विचारितम् ।
धनं भवेत् समृद्धानां वस्त्रालंकारसंश्रितम् ॥
ऋणम् उद्वाह्य लेखितम् ॥
उक्तप्रकारो विज्ञेयः पत्रारूढऋणे खलु ।
उक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥
मध्यस्थितम् अनाजीव्यं दातुं नैकस्य शक्यते ।
युक्त्या विभजनीयं तद् अन्यथानर्थकं भवेत् ॥
विक्रीय वस्त्राभरणं धनम् उद्ग्राह्य लेखितम् ।
कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥
योगक्षेमवतो लाभः समत्वेन विभज्यते ।
प्रचारश् च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥
ब्रह्मदायं गतां भूमिं हरेद् यो ब्राह्मणीसुतः ।
गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ॥
पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्याश् चैव ये तेषां पितृभागहरास् तु ते ॥
अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ॥
पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् आर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥
यथा धने तथा र्णे च दानादानक्रयेषु च ।
परस्परम् अनीशास् ते मुक्त्वाशौचोदकक्रियाम् ॥
पैतामहं हृतं पित्रा स्वशक्त्या यद् उपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥
प्रदानं स्वेच्छया कुर्यात् भोगं चैव ततो धनात् ।
तदभावे ऽपि तनयाः समांशाः परिकीर्तिताः ॥
वस्त्रालंकारशय्याइ पितुर् यद् वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तद् अर्पयेत् ॥
पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादाः भजमानाः पतन्ति ते ॥
पितृप्रसादात् भुज्यन्ते वस्त्राण्य् आभरणानि च ॥
कृते ऽकृते वा विभागे रिक्थी यत्र प्रवर्तते ।
सामान्यं चेद् भावयति तत्र भागहरस् तु सः ॥
ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
चिरकालप्रोषितो ऽपि भागभागागतस् तु सः ॥
गोत्रसाधारणं त्यक्त्वा यो ऽन्यं देशं समाश्रितः ।
अर्धतस् त्व् आगतस्यांशः प्रदातव्यो न संशयः ॥
तृतीयः पञ्चमश् चैव सप्तमो यो ऽपि वा भवेत् ।
जन्मनाम् अपरिज्ञाने लभेतांशं क्रमागते ॥
यं परंपरया मौलाः समस्ताः स्वामिनं विदुः ।
तद् अन्वयस्यागतस्य दातव्या गोत्रजैर् मही ॥
अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्याद् आचतुर्थाद् इति स्थितिः ॥
अनेकधा कृताः पुत्रा ऋषिभिश् च पुरातनैः ।
न शक्यन्ते ऽधुना कर्तुं शक्तिहीनैश् चिरन्तनैः ॥
एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत् तुल्यः पुत्रिकपुत्रो भर्तव्यास् त्व् अपरे स्मृताः ॥
क्षेत्रजाद्याः सुतास् त्व् अन्ये पञ्चषट्सप्तभागिनः ॥
दत्तो ऽपविद्धः क्रीतश् च कृतः शौद्रस् तथैव च ।
जातिशुद्धा मध्यमास् ते सर्वे रिक्थसुताः स्मृताः ॥
क्षेत्रजो गर्हितः सद्भिस् तथा पौनर्भवः सुतः ।
कानीनश् च सहोढश् च गूढजः पुत्रिकासुतः ॥
शूद्रापुत्रः स्वयंदत्तो ये चैते क्रीतकाः स्मृताः ।
सर्वे ते मैत्रिणः प्रोक्ता काण्डपृष्ठा न संशयः ॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥
अग्निं प्रजापतिं चेष्ट्वा क्रियते गौतमो ऽवदत् ।
अन्ये त्व् आहुर् अपुत्रस्य चिन्तिता पुत्रिका भवेत् ॥
पुत्रास् त्रयोदश प्रोक्ता मनुना येन पूर्वशः ।
संतानकारणं तेषाम् औरसः पुत्रिका तथा ॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् ।
तथैकादश पुत्रास् तु पुत्रिकौरसयोर् विना ॥
यद्य् एकजाता बहवो भ्रातरस् तु सहोदराः ।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥
बह्वीनाम् एकपत्नीनाम् एष एव विधिः स्मृतः ।
एका चेत् पुत्रिणी तासां सर्वासां पिण्डदस् तु सः ॥
पुन्नाम्नो नरकात् पुत्रः पितरं त्रायते यतः ।
मुखसंदर्शनेनापि तद् उत्पत्तौ यतेत सः ॥
पौत्रो ऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकराव् उभौ ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥
कामतश् च शूद्रावरोधजस्य भ्रातुर् अंशं ।
संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश् चेत् ॥
अन्नार्थं तण्डुलप्रस्थम् अपराह्ने तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयम् एकं त्रिमासतः ॥
एतावद् एव साध्वीनां चोदितं विधवाधनम् ॥
वसनस्याशनस्यैव तथैव रजकस्य च ।
धनं व्यपोह्य तच् छिष्टं दायादानां प्रकल्पयेत् ॥
अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥
अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर् धर्मसंकीर्तनस्य च ॥
काङ्क्षण्ति पितरः पुत्रान् नरकापतभीरवः ।
गयां यास्यति यः कश्चित् सो ऽस्मान् संतारयिष्यति ॥
यथा जलं कुप्लवेन तरन् मज्जति मानवः ।
तद्वत् पिता कुपुत्रेण तमस्य् अन्धे निमज्जति ॥
करिष्यति वृषोत्सर्गम् इष्टापूर्तं तथैव च ।
पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥
आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ॥
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्य् अर्धशरीरे ऽर्थं कथम् अन्यः समाप्नुयात् ॥
सकुल्यैर् विद्यमानस् तु पितृभ्रातृसनाभिभिः ।
असुतस्य प्रमीतस्य पत्नी तद् भागहारिणी ॥
पूर्वप्रमीताग्निहोत्रं मृतं भर्तरि तद्धनम् ।
विन्देत् पतिव्रता नारी धर्म एष सनातनः ॥
मूर्वं म्र्ता हरेद् अग्निम् अन्वारूढा हरेद् अघम् ।
पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद् दौहित्रकं धनम् ॥
जङ्गमं स्थावरं हेम रूप्यधान्यरसाम्बरम् ।
आदाय दापयेच् छ्राद्धं मासषाण्मासिकादिकम् ॥
पितृव्यगुरुदौहित्रान् स्वसृभर्त्रीयम् आतुलान् ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धान् आथातिथीन् स्त्रियः ॥
यद् विभक्ते धने किंचिद् आध्यादिविधिसंस्मृतम् ।
तज्जाया स्थावरं मुक्त्वा लभेत गतभर्तृका ॥
वृत्तस्थापि कृते ऽप्य् अंशे न स्त्री स्थावरम् अर्हति ।
विधवा यौवनस्था चेन् नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ॥
मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।
यावज् जीवं हीनस्वाम्यं दानाधमनविक्रये ॥
क्रयक्रीता तु या नारी संभोगार्थं सुतार्थिना ।
गृहीता वान्यदीया वा सैव स्त्री परिकीर्त्यते ॥
प्रदद्यात् त्व् एव पिण्डं वा क्षेत्रांशं वा यदृच्छया ॥
स्थावराज् जीवनं स्त्रीभ्यो यद् दत्तं श्वशुरेण तु ।
न तच् छक्यम् अपाहर्तुं इतरैः श्वशुरे म्र्ते ॥
सपिण्डा बान्धवा ये तु तस्याः स्युः परिपन्थिनः ।
हिंस्युर् धनानि तान् राजा चौरदण्डेण घातयेत् ॥
संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।
विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः ।
पुनर् विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥
कदाचिद् वा प्रमीयेत प्रव्रजेद् वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥
या तस्य भगिनी सा तु ततो ऽंशं लब्धुम् अर्हति ।
अनपत्यस्य धर्मो ऽयम् अभार्यपितृकस्य च ॥
सा च दत्ता त्व् अदत्ता वा सोदरे तु मृते सति ।
तस्यांशं तु हरेत् सैव द्वयोर् व्यक्तं हि कारणम् ॥
अनन्तरः सपिण्डाद् यस् तस्य तस्य धनं भवेत् ॥
मृतो ऽनपत्यो ऽभार्यश् चेद् अभ्रातृपितृमातृकः ।
सर्वे सपिण्डास् तद् दायं विभजेरन् यथांशतः ॥
संसृष्टानां तु यः कश्चिद् विद्या शौर्यादिना धनम् ।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥
विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।
पितृव्येणाथवा प्रीत्या तत् संसृष्टः स उच्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदरस्य तु सोदरः ।
दद्याच् चापहरेच् चांशं जातस्य च मृतस्य च ॥
अन्योदर्यस् तु संसृष्टी नान्योदर्याद् धनं हरेत् ।
असंसृष्ट्य् अपि चादद्यात् सोदर्यो नान्यमातृजः ॥
प्रमीतपितृकाणां तु पितृतो भागकल्पना ॥
ये ऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।
तेषां धनहरो राजा सर्वस्याधिपतिर् हि सः ॥
विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः ।
भवेत् समांशः क्षत्रेण वैश्याजातस् तथैव च ॥
न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषाम् पिता दद्यान् मृते विप्रासुतो हरेत् ॥
शूद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।
सजाताव् आप्नुयात् सर्वम् इति धर्मो व्यवस्थितः ॥
निषाद एकपुत्रस् तु विप्रस्य स तृतीयभाक् ।
द्वौ सकुल्याः सपिण्डा वा स्वधादाताथ संहरेत् ॥
कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा ।
सर्वास्व् आपत्सु तान् वर्णांस् तथैव प्रतिपादयेत् ॥
अनपत्यस्य शुश्रूषुर् गुणवाञ् शूद्रयोनिजः ।
लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥
भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ॥
अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ।
तस्मात् पितृधनं त्व् अन्यः कथं गृह्णीत मानवः ॥
तदभावे तु दुहिता यद्य् अनूढा भवेत् तदा ।
अपुत्रपौत्रसंताने दौहित्रा धनम् आप्नुयुः ॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्ति कथम् अन्यो धनं हरेत् ॥
पौत्रदौहित्रयोर् लोके विशेषो नास्ति धर्मतः ।
अनेनैव विधानेन सुतं चक्रे ऽथ पुत्रिकाम् ॥
पुमान् पुंसो ऽधिके शुक्ले स्त्री भवत्य् अधिके स्त्रियाः ॥
सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
कृताकृता वा पुत्रस्य पितुर् धनहरी तु सा ॥
यथा पितृधने स्वाम्यं तस्याः सत्स्व् अपि बन्धुषु ।
तथैव तत्सुतो ऽपीष्टे मातृमातामहे धने ॥
तदभावे भ्रातरस् तु भ्रातृपुत्राः सनाभयः ।
सकुल्या बान्धवाः शिष्याः श्रोत्रियाश् च धनार्हकाः ॥
अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
भार्यासुतविहीनस्य तनयस्य मृतस्य तु ।
माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥
पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद् दौहित्रकं धनम् ॥
समुत्पन्नाद् धनाद् अर्धं तदर्थं स्थापयेत् प्र्थक् ।
मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ॥
बहवो ज्ञातयो यत्र सकुल्या बान्धवास् तथा ।
यस् त्व् आसन्नतरस् तेषां सो ऽनपत्यधनं हरेत् ॥
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सह पिण्डक्रियां कृत्वा कुर्याद् अभ्युदयं ततः ॥
स्वेच्छाकृतविभागो यः पुनर् एव विसंवदेत् ।
स राज्ञांशे स्वके स्थाप्यः शासनीयो ऽनुबन्धकृत् ॥
साधारणऋणन्यास निह्नवे छद्मना क्रियाम् ।
पार्श्वहानिकारीं कृत्वा बलान् नैव प्रदापयेत् ॥
मायाविनो धृतधनाः क्रूरा लुब्धाश् च ये नराः ।
संप्रीत्या साधनीयास् ते स्वार्थहान्या छलेन वा ॥
साहसं स्थावरस्वाम्यं प्राग्विभागश् च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्युर् यत्र च साक्षिणः ॥
तेषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥
अविभक्तैश् च कर्तव्या वैश्वदेवादिकाः क्रियाः ॥
बलानुबन्धव्याघात होढं साहसभावकम् ।
स्वस्य भोगः स्थावरस्य विभागस्य पृथग्धनम् ॥
पृथगायव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युर् विभक्तास् ते न संशयः ॥
कार्यम् उच्छ्रावणालेख्यं विभक्तैर् भ्रातृभिर् मिथः ।
साक्षिणो वा विरोधार्थं विभजद्भिर् अनिन्दिताः ॥
येनांशो यादृशो भुक्तस् तस्य तं न विचालयेत् ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0