भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.27

1.27.1

द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।
तत् प्रवर्तितम् अन्यैस् तु राजभागसमन्वितम् ॥

1.27.2

सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना ।
एष एव विधिर् ज्ञेयः प्राणिद्यूतसमाह्वये ॥

1.27.3

सभिको ग्राहकस् तत्र दद्याज् जेत्रे नृपाय च ।
राजवृद्धिः सकितवात् सभिकाद् दशकं शतम् ॥

1.27.4

यथासमयं वा स्यात् ॥

1.27.5

द्वन्द्वयुद्धेन यः कश्चिद् अवसादम् अवाप्नुयात् ।
तत् स्वामिना पणो देयो यस् तत्र परिकल्पितः ॥

1.27.6

रहोजितो ऽनभिज्ञश् च कूटाक्षैः कपटेन वा ।
मोच्यो ऽभिज्ञो ऽपि सर्वस्वम् जितं सर्वं न दाप्यते ॥

1.27.7

कूटाक्षदेविनः पापा राजभागहराश् च ये ।
गणनावञ्चकाश् चैव दण्ड्यास् ते कितवाः स्मृताः ॥

1.27.8

ग्रहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।
व्यापादने तु तत्कारी वधं चित्रम् अवाप्नुयात् ॥

1.27.9

स एव साक्षी संदिग्धौ सभ्यैश् चान्यैस् त्रिभिर् वृतः ।
उभयोर् अपि संदिग्धं कितवास् तु परीक्षकाः ॥

1.27.10

यदा विद्वेषिणस् ते तु तदा राजा विचारयेत् ॥

1.27.11

एवं वादिकृतान् वादान् प्रपश्येत् प्रत्यहं नृपः ।
नृपाश्रयास् तथा चान्ये विद्वद्भिर् ब्राह्मणैः सह ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc