भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.25

1.25.1

एतत् संग्रहणस्योक्तं विधानं संग्रहस् तथा ।
स्त्रीपुंसवर्तनोपायः श्रूयतां गदतो मम ॥

1.25.2

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
श्वश्र्वादिभिर् गुरुस्त्रीभिः पालनीया दिवानिशम् ॥

1.25.3

स्वकामे वर्तमाना तु या स्नेहान् न निवारिता ।
अवश्या सा भवेत् पश्चाद् यथा व्याधिर् उपेक्षिता ॥

1.25.4

अप्रयच्छन् पिता काले पतिश् चानुपयन्न् ऋतौ ।
पुत्रश् चाभक्तदो मातुः गार्ह्यो दण्ड्यश् च धर्मतः ॥

1.25.5

यत्र स्त्रियो ऽभिपूज्यन्ते रमन्ते तत्र देवताः ।
संपदश् च प्रजाः शुद्धाः क्रिया च सफला भवेत् ॥

1.25.6

आयव्यये ऽन्नसंस्कारे गृहोपस्काररक्षणे ।
शौचे ऽग्निकार्ये संयोज्याः स्त्रीणां शुद्धिर् इयं स्मृता ॥

1.25.7

भर्त्रा पत्नी समभ्यर्च्या वस्त्रालंकारभोजनैः ।
उत्सवे तु पितृभ्रातृ श्वशुराद्यैश् च बन्धुभिः ॥

1.25.8

पतिं या नातिचरति मनोवाक्कायसंयुता ।
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥

1.25.9

भर्त्रा पित्रा सुतैर् न स्त्री वियुक्तान्यगृहे वसेत् ।
असत्सङ्गे विशेषेण गर्ह्यताम् एति सा ध्रुवम् ॥

1.25.10

पूर्वोत्थानं गुरुष्व् अर्वाग् भोजनव्यञ्जनक्रिया ।
जघन्यासनशायित्वं कर्म स्त्रीणाम् उदाहृतम् ॥

1.25.11

पानाटनदिवास्वप्नम् अक्रिया दूषणं स्त्रियाः ॥

1.25.12

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
म्र्ते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥

1.25.13

प्रसाधनं नृत्तगीत समाजोत्सवदर्शनम् ।
मांसमद्याभियोगं च न कुर्यात् प्रोषिते प्रभौ ॥

1.25.14

शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ।
अन्वारूढा जीवतीन्ती च साध्वी भर्तुर् हित्तय सा ॥

1.25.15

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
धर्मदानपरा नित्यम् अपुत्रापि दिवं व्रजेत् ॥

1.25.16

उक्त्वा नियोगो मनुना निषिद्धः स्वयम् एव तु ।
युगह्रासाद् अशक्यो ऽयं कर्तुं सर्वैर् विधानतः ॥

1.25.17

तपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः ।
द्वापरे च कलौ नृणां शक्तिहानिर् विनिर्मिता ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc