भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.24

1.24.1

पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥

1.24.2

बलोपाधिकृते द्वे तु तृतीयम् अनुरागजम् ।
तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥

1.24.3

अनिच्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात् कारकृतं तु तत् ॥

1.24.4

छद्मना गृहम् आनीय दत्त्वा वा मद्यकार्मणम् ।
संयोगः क्रियते यस्यास् तदुपाधिकृतं विदुः ॥

1.24.5

अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।
कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ॥

1.24.6

तत् पुनस् त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।
स्पर्शो भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ॥

1.24.7

प्रेषणं गन्धमाल्यानां धूपम् अध्वन्न् अवाससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥

1.24.8

एकशाय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ।
एतत् संग्रहणं प्रोक्तम् उत्तमं शास्त्रवेदिभिः ॥

1.24.9

प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।
प्रलोभनं चान्नपानैर् मध्यमः संग्रहः स्मृतः ॥

1.24.10

प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥

1.24.11

त्रयाणाम् अपि चैतेषां प्रथमो मध्य उत्तमः ।
विनयः कल्पनीयः स्याद् अधिको द्रविणाधिके ॥

1.24.12

परपत्न्या तु पुरुषः संभाषां योजयन् रहः ।
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥

1.24.13

सहमायः कामयते धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद् गर्दभेन तु ॥

1.24.14

छद्मना कामयेद् यस् तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्गेन पुरान् निर्वासयेत् ततः ॥

1.24.15

दमो नेयः सभायां यो हीनायाम् अधिकस् ततः ।
पुंसः कार्यो ऽधिकायां तु गमने संप्रमापणम् ॥

1.24.16

गृहम् आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कामयेत् तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥

1.24.17

छिन्ननासौष्ठकर्णानां परिभ्राम्याप्सु मज्जयेत् ।
खादयेद् वा सारमेयैः संस्थाने बहुसंस्थिते ॥

1.24.18

अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद् गृहे ।
मलिनाङ्गीम् अधः शय्यां पिण्डमात्रोपजीविनीम् ॥

1.24.19

कारयेन् निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।
हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc