बृहस्पतिस्मृति · अध्याय 1.23
स्तेनानाम् एतद् आख्यातं सर्वेषां दण्डनिग्रहम् ।
साहसस्याधुना सम्यक् श्रूयतां वधशासनम् ॥
मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चैव साहसं तु चतुर्विधम् ॥
हीनमध्योत्तमत्वेन त्रिविधं तत् प्रकीर्तितम् ।
द्रव्यापेक्षया दमास् तत्र प्रथमोत्तममध्यमाः ॥
आततायिद्विजाग्याणां धर्मयुद्धेन हिंसनम् ।
इमान् धर्मान् कलियुगे वर्ज्यान् आहुर् मनीषिणः ॥
क्षेत्रोपकरणं सेतुं मूलपुष्पफलानि च ।
विनाशयन् हरन् दण्ड्यः शतोद्यम् अनुरूपतः ॥
पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।
हिंसयंश् चौरवद् दाप्यो द्विशतोद्यं दमं तथा ॥
स्त्रीपुंसौ हेमरत्नानि देवविप्रधनं तथा ।
कौशेयं चोत्तमद्रव्यम् एषां मूल्यसमो दमः ॥
द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।
हन्ता वा घातनीयः स्यात् प्रसंगविनिवृत्तये ॥
साहसं पञ्चधा प्रोक्तं वधस् तत्राधिकः स्मृतः ।
तत्कारिणो नार्थदमैः शास्या वध्याः प्रयत्नतः ॥
प्रकाशघातका ये तु तथा चोपांशुघातकाः ।
ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्याः विविधैर् वधैः ॥
मित्रप्राप्त्यर्थलाभे वा राज्ञा लोकहितैषिणा ।
न मोक्तव्याः साहसिकाः सर्वलोकभयावहाः ॥
लोभाद् भयाद् वा यो राजा न हन्त्य् अन्यायकारिणः ।
तस्य प्रक्षुभ्यते राष्ट्रं राज्याच् च परिहीयते ॥
बन्धाग्निविषशस्त्रेण परान् यस् तु प्रमापयेत् ।
क्रोधादिना निमित्तेन नरः साहसिकस् तु सः ॥
एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।
मर्मप्रहारदो यस् तु घातकः स उदाहृतः ॥
मर्मघाती तु यस् तेषां यथोक्तं दापयेद् दमम् ।
आरम्भकृत्सहायश् च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥
युद्धोपदेशकश् चैव तद्विनाशप्रदर्शकः ।
उपेक्षी कार्ययुक्तश् च दोषवक्तानुमोदकः ॥
नाततायिवधे हन्ता किल्विषं प्राप्नुयात् क्वचित् ।
विनाशार्थिनम् आयान्तं घातयन्न् आपराध्नुयात् ॥
आततायिनम् उत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।
यो न हन्याद् वधप्राप्तं सो ऽश्वमेधफलं लभेत् ॥
स्वाध्यायिनं कुले जातं यो हन्याद् आततायिनम् ।
अहत्वा भ्रूणहा स स्यान् न हत्वा भ्रूणहा भवेत् ॥
सांप्रतं साहसं स्तेयं श्रूयतां क्रोधलोभजम् ।
क्षतस्याल्पम् अहत्वं च मर्मस्थानं च यत्नतः ।
सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नैः प्रसादयेत् ॥
हतस् तु दृश्यते यत्र घातकश् च न दृश्यते ।
पूर्ववैरानुसारेण ज्ञातव्यः स महीभुजा ॥
समघाती तु यस् तेषां यथोक्तं दापयेद् दमम् ।
आरम्भकृत्सहायश् च दोषभाजस् तद् अर्धतः ॥
प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः ।
प्रष्टव्या राजपुरुषैः सामादिभिर् उपक्रमैः ॥
विज्ञेयो ऽसाधुसंसर्गाच् चिह्नहोढेन वा नरैः ।
एषोदिता घातकानां तस्कराणां च भावना ॥
गृहीतः शङ्कया यस् तु न तत् कार्यं प्रपद्यते ।
शपथेन विशोद्धव्यः सर्ववादेष्व् अयं विधिः ॥
दिव्यैर् विशुद्धो मेध्यः स्याद् अशुद्धो वधम् अर्हति ।
निग्रहानुग्रहैर् राज्ञः कीर्तिर् धर्मश् च वर्धते ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0