भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.22

1.22.1

प्रकाशाश् चाप्रकाशाश् च तस्करा द्विविधा स्मृताः ।
प्रज्ञासामर्थ्यम् आयाभिः प्रभिन्नास् ते सहस्रधा ॥

1.22.2

नैगमा वैद्यकितवाः सभ्योत्कोचकवञ्चकाः ।
दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ॥

1.22.3

अक्रियाकारिणश् चैव मध्यस्थाः कूटसाक्षिणः ।
प्रकाशतस्करा ह्य् एते तथा कुहकजीविनः ॥

1.22.4

सन्धिच्छिदः पान्थमुषो द्विचतुष्पदहारिणः ।
उत्क्षेपकाः सस्यहराः ज्ञेयाः प्रच्छन्नतस्कराः ॥

1.22.5

संसर्गचिह्नरूपैश् च विज्ञाता राजपूरुषैः ।
प्रदाप्यापहृतं दण्ड्या दमैः शास्त्रप्रचोदितैः ॥

1.22.6

उत्क्षेपकस् तु संदंशैर् भेत्तव्यो राजपूरुषैः ।
धान्यहर्ता दशगुणं दाप्यः स्याद् द्विगुणं दमम् ॥

1.22.7

एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमः तस्य पुण्यप्रदो वधः ॥

1.22.8

तथा पान्थम् उषो वृक्षे गले बध्वावलम्बयेत् ॥

1.22.9

अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥

1.22.10

अज्ञातौषधिमन्त्रस् तु यश् च व्याधेर् अतत्त्ववित् ।
रोगिभ्यो ऽर्थं समादत्ते स दण्ड्यश् चोरवद् भिषक् ॥

1.22.11

ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ॥

1.22.12

कूटाक्षदेविनः क्षुद्रा राजभार्याहराश् च ये ।
गणका वञ्चकाश् चैव दण्ड्यास् ते कितवा स्मृताः ॥

1.22.13

प्रच्छन्नदोषव्यामिश्रं पुनः संस्कृतविक्रयी ।
पण्ये तद् द्विगुणं दाप्यो वणिग्दण्डं च तत्समम् ॥

1.22.14

अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥

1.22.15

ज्योतिर् ज्ञानं तथोत्पातम् अविदित्वा तु ये नृणाम् ।
श्रावयन्त्य् अर्थलोभेन विनेयास् ते प्रयत्नतः ॥

1.22.16

दण्डाजिनादिभिर् युक्तम् आत्मानं दर्शयन्ति ये ।
हिंसन्तश् च्छद्मना नृणां वध्यास् ते राजपूरुषैः ॥

1.22.17

अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान् वञ्चयन्ति दण्ड्यास् ते ऽर्थानुरूपतः ॥

1.22.18

हेममुक्ताप्रबालाद्यं कृत्रिमं कुर्वते तु ये ।
क्रेत्रे मूल्यं प्रदाप्यास् ते राज्ञा तद् द्विगुणं दमम् ॥

1.22.19

मध्यस्था वञ्चयन्त्य् एकं स्नेहलोभादिना यदा ।
साक्षिणश् चान्यथा ब्रूयुर् दाप्यास् ते द्विगुणं दमम् ॥

1.22.20

मन्त्रौषधिबलात् किंचित् संभ्रान्तिं दर्शयन्ति ये ।
मूलकर्म च कुर्वन्ति निर्वास्यास् ते महीभुजा ॥

1.22.21

सन्धिच्छेदो हृतं त्याज्याः शूलम् आरोपयेत् ततः ।
तथा पान्थम् उषो वृक्षे गले बद्ध्वावलम्बयेत् ॥

1.22.22

मनुष्यहारिणो राज्ञा दग्धव्यास् ते कटाग्निना ।
गोहर्तुर् नासिकां छिन्द्यात् बध्वा वाम्भसि मज्जयेत् ॥

1.22.23

धान्यं दशभ्यः कुम्भेभ्यो हरणे ऽभ्यधिकं वधः ।
शेषेष्व् एकादशगुणं दाप्यस् तस्य च तद्धनम् ॥

1.22.24

धान्यहारी दशगुणं दाप्यस् तद् द्विगुणं दमम् ॥

1.22.25

तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छ्य तु गृह्णानो हस्तच्छेदनम् अर्हति ॥

1.22.26

वृत्तस्वाध्यायवान् स्तेयी बन्धने क्लेश्यते चिरम् ।
स्वामिने तद् धनं दाप्यः प्रायश्चित्तं न कार्यते ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc