भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.21

1.21.1

हस्तपाषाणलगुडैर् भस्मकर्दमपांसुभिः ।
आयुधैश् च प्रहरणैर् दण्डपारुष्यम् उच्यते ॥

1.21.2

वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।
तस्यैव द्विगुणं दण्डं कारयेन् मरणाद् ऋते ॥

1.21.3

द्वयोः प्रहरतोर् दण्डः समयोस् तु समः स्मृतः ।
आरम्भको ऽनुबन्धी च दाप्यः स्याद् अधिकं दमम् ॥

1.21.4

पूर्वाक्रुष्टः समाक्रोशंस् ताडितः प्रतिताडयन् ।
हत्वाततायिनं चैव नापराधी भवेन् नरः ॥

1.21.5

वाक्पारुष्यादिना नीचो यः सन्तम् अभिलङ्घयेत् ।
स एव ताडयंस् तस्य नान्वेष्टव्यो महीभुजा ॥

1.21.6

भस्मादीनां प्रक्षिपणं ताडनं च करादिना ।
प्रथमं दण्डपारुष्यं दमः कार्यो ऽत्र माषिकः ॥

1.21.7

एष दण्डः समेषूक्तः परस्त्रीष्व् अधिकेषु च ।
द्विगुणस् त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुद्धैः ॥

1.21.8

उद्यते ऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः ।
परस्परं हस्तपादे दशविंशतिकस् तथा ॥

1.21.9

मध्यमः शस्त्रसंधाने संयोज्यः क्षुब्धयोर् द्वयोः ।
कार्यः कृतानुरूपस् तु लग्ने घाते दमो बुधैः ॥

1.21.10

इष्टकोपलकाष्ठैश् च ताडने तु द्विमाषिकः ।
द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ॥

1.21.11

त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः ।
उत्तमस् त्व् अस्थिभेदे स्याद् धातेन तु प्रमापणम् ॥

1.21.12

कर्णनासाकरच्छेदे दन्तभङ्गे ऽस्थिभेदने ।
कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु तु ॥

1.21.13

कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो गुरुः ॥

1.21.14

दण्डस् त्व् अभिहितायैव दण्डपारुष्यकल्पितः ।
हृते तद् द्विगुणं चान्यद् राजदण्डस् ततो ऽधिकः ॥

1.21.15

अङ्गावभेदने चैव पीडने छेदने तथा ।
समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ॥

1.21.16

विविक्ते ताडितो यस् तु हतो दृश्येत वा भवेत् ।
हन्ता तद् अनुमानेन विज्ञेयः शपथेन वा ॥

1.21.17

अन्तर्वेश्मन्य् अरण्ये वा निशायां यत्र ताडितः ।
शोणितं तत्र दृश्येत न पृच्छेत् तत्र साक्षिणः ॥

1.21.18

कश्चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् अभिद्रवेत् ।
हेत्वर्थम् अतिसामर्थ्यैस् तत्र युक्तं परीक्षणम् ॥

1.21.19

आक्रुष्टस् तु समाक्रोशंस् ताडितः प्रतिताडयन् ।
हत्वापराधिनं चैव नापराधी भवेन् नरः ॥

1.21.20

प्रातिलोम्यास् तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।
ब्राह्मणातिक्रमे वध्या न दातव्या धनं क्वचित् ॥

1.21.21

श्रान्तान् क्षुधार्तान् तृषितान् अकाले वाहयेत् तु यः ।
स गोघ्नो निष्कृतिं कार्यो दाप्यो वाप्य् अथवा दमम् ॥

1.21.22

समुत्थानव्ययं दाप्यः कलहाय कृतं च यत् ।
येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुषा ।
छेत्तव्यं तद् भवेत् तस्य मनुना समुदाहृतम् ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc