बृहस्पतिस्मृति · अध्याय 1.20
अप्रियोक्तिस् ताडनं च पारुष्यं द्विविधं स्मृतम् ।
एकैकं तु त्रिधा भिन्नं दमश् चोक्तस् त्रिलक्षणः ॥
देशधर्मकुलादीनां क्षेपः पापेन योजनम् ।
द्रव्यं विना तु प्रथमं वाक्पारुष्यं तद् उच्यते ॥
भगिनीभ्रातृसंबद्धम् उपपातकशंसनम् ।
पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः ॥
अभक्ष्यापेयकथनं महापातकदूषणम् ।
पारुष्यम् उत्तमं प्रोक्तं तीव्रम् अर्माभिपातनम् ॥
समजातिगुणानां तु वाक्पारुष्ये परस्परम् ।
विनयो ऽभिहितः शास्त्रे पणस् त्व् अर्धत्रयोदशः ॥
दण्डः काणखञ्जादीनां तथाविधान् अपि कार्षापणद्वयम् ॥
सवर्णाक्रोशने सार्धद्वादशपणो दण्डः ।
हीनवर्णे काकिण्यधिकषट्पणो दण्डः ॥
समानयोः समो दण्डो न्यूनस्य द्विगुणस् तु सः ।
उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्परम् ॥
क्षिपन् स्वस्रादिकं दद्यात् पञ्चाशत्पणिकं दमम् ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥
पतितं पतितेत्य् उक्त्वा चोरं चोरेति वा पुनः ।
वचनात् तुल्यदोषः स्यात् ॥
धर्मोपदेशं धर्मेण विप्राणाम् अस्य कुर्वतः ।
तप्तम् आसिञ्चयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥
विप्रे शतार्धं दण्डस् तु क्षत्रियस्याभिशंसने ।
विशस् तथार्धपञ्चाशच् छूद्रस्यार्धत्रयोदश ॥
सच्छूद्रस्यायम् उद्दिष्टो विनयो ऽनपराधिनः ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥
वैश्यस्य क्षत्रियाक्रोशे दण्डनीयः प्रदो भवेत् ।
तदर्धं क्षत्रियो वैश्यं क्षिपन् विनयम् अर्हति ॥
शूद्राक्रोशे क्षत्रियस्य पञ्चविंशतिको दमः ।
बृहत्वे द्विगुणं तत्र शास्त्रविद्भिर् उदाहृतम् ॥
वैश्यम् आक्षारयञ् शूद्रो दाप्यः स्यात् प्रथमं दमम् ।
क्षत्रियं मध्यमं चैव विप्रम् उत्तमसाहसम् ॥
देशादिकं क्षिपन् दाप्यः पणान् अर्धत्रयोदश ।
पापेन योजयन् दर्पाद् दाप्यः प्रथमसाहसम् ॥
धर्मोपदेशकर्ता च वेदोदाहरणान्वितः ।
आक्रोशकस् तु विप्राणां जिह्वाच् छेदेन दण्ड्यते ॥
एष दण्डः समाख्यातः पुरुषापेक्षया मया ।
समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिः ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0