बृहस्पतिस्मृति · अध्याय 1.19
क्रयविक्रयानुशये विधिर् एष प्रदर्शितः ।
ग्रामक्षेत्रगृहादीनां सीमावादं निबोधत ॥
सीमावृक्षांश् च कुर्वीरन् न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीशालताडां लांश् च क्षीरिणश् चैव पादपान् ॥
गुल्मान् वेणूंश् च विविधाञ् शमीवल्लीस्थलानि च ।
शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ॥
तडागान्य् उदपानानि त् प्रस्रवणानि च ।
सीमासन्धिषु कार्याणि देवतायतनानि च ॥
राजा क्षेत्रं दत्त्वा चातुर्वैद्यवणिग्वारिकसर्वग्रामीण ।
तन्महत्तरस्वामिपुरुषाधिष्ठितं परिच्छिन्द्यात् ॥
यदि शूद्रो नेता स्यात् तं क्लैब्येनालंकारेण अलंकृत्य शवभस्मना ।
मुखं विलिप्याग्रेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवायाम् ।
अन्त्राणि प्रतिमुच्य स्व्येन पाणिना सीमालोष्टं मूर्ध्नि धारयेत् ॥
निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः ।
प्रकाशोपांशुचिह्नैश् च लक्षितः संशयापहः ॥
अनश्वराणि द्रव्याणि प्रकृत्यैवाविरोधतः ।
वापीकूपतडागानि चैत्यारामसुरालयाः ॥
स्थलनिम्ननदीस्रोतः शरगुल्मनगादयः ।
प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ॥
यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्याद् विवादे सीमनिश्चयः ॥
साक्ष्यभावे च चत्वारो ग्रामसीमान्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥
सामन्तानाम् अभावे तु मौलानां सीमसाक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥
व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥
ते पृष्टास् तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।
तत् तथा स्थापयेत् राजा धर्मेण ग्रामयोर् द्वयोः ॥
शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिताः स्वैः स्वैः ब्रूयुस् ते तु समंजसम् ॥
निबध्नीयात् तथा सीमां सवींस् तांश् चैव नामतः ।
प्रकाशचिह्नान्य् एतानि सीमायां कारयेत् सदा ॥
निहितानि तथान्यानि यानि भूमिर् न भक्षयेत् ।
उपच्छत्रानि चान्यानि सीमालिङ्गानि कारयेत् ॥
सीमाज्ञाने तृनं वीक्ष्य लोके नित्यविपर्ययम् ।
श्मशानो ऽस्थीनि गोबालास् तथा भस्मकपालिकाः ॥
करीषम् इष्टकाङ्गार शर्करा बालुकांस् तथा ।
तानि सन्धिषु सीमाया अप्रकाशानि कारयेत् ॥
करीषास्थितुषाङ्गार शर्कराश्मकपालिकाः ।
सिकतेष्टकगोबाल कार्पासास्थीनि भस्म च ॥
प्रक्षिप्य कुम्भेष्व् एतानि सीमान्तेषु निधापयेत् ।
ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ॥
वार्धके च शिशूनां ते दर्शयेयुस् तथैव च ।
एवं परंपराज्ञाने सीमाभ्रान्तिर् न जायते ॥
कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् ।
एकत्र कूलपातं तु भूमेर् अन्यत्र संस्थितिः ॥
नदीतीरं प्रकुरुते तस्यैतां न विचालयेत् ।
क्षेत्रं ससस्यम् उल्लङ्घ्य भूमिश् च्छिन्ना यदा भवेत् ॥
नदीस्रोतःप्रवाहेण क्षेत्रस्वामी लभेत ताम् ।
या राज्ञा क्रोधलोभेन बलान् न्यायेन वा हृता ॥
गृहक्षेत्रविवादेषु सामन्तेभ्यो विनिर्णयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥
कीनाशशिल्पिभृतका गोपव्याधोञ्छजीविनः ।
मूलखानककैवर्त कुल्या भेदकबाधकाः ॥
आगमं च प्रमाणं च भोगं कामं च नाम च ।
भूभागलक्षणं चैव ये विदुस् ते ऽत्र साक्षिणः ॥
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिम् अवाप्नुयात् ।
या राज्ञा क्रोधलोभेन छलान् न्यायेन वा हृता ॥
प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता ।
गुणाधिकस्य दत्ता वा तस्य तां नैव चालयेत् ॥
शापथैः शापिताः स्वैः स्वैः ब्रूयुः सीम्नि विनिश्चयम् ।
दर्शयेयुर् निधानानि तत् प्रमाणम् इति स्थितिः ॥
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ॥
ज्ञातृचिह्नैर् विना साधुर् एको ऽप्य् उभयसंमतः ।
रक्तमाल्याम्बरधरो मृदम् आदाय मूर्धनि ॥
सत्यव्रतः सोपवासः सीमान्तं दर्शयेन् नरः ॥
सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्वे च ते पृथग्दण्ड्या राज्ञा मध्यम् असाहसम् ॥
यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥
सर्वस्मिन् स्थावरे वादे विधिर् एष प्रकीर्तितः ॥
तदुत्पन्नाश् च सामन्ता ये ऽन्यदेशे व्यवस्थिताः ।
मौलास् ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥
अदुष्टास् ते तु यद् ब्रूयुः संदिग्धौ समवृत्तयः ।
तत् प्रमाणं तु कर्तव्यम् एवं धर्मो न हीयते ॥
अन्यग्रामात् समाहृत्य दत्तान्यस्य यदा मही ।
अन्यथा तु भवेल् लाभो नराणां राजदैविकः ॥
महानद्याथवा राज्ञा कथं तत्र विचारणा ।
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा तु भवेल् लाभो नराणां राजदैविकः ॥
क्षयोदयौ जीवनं च दैवराजवशान् नृणाम् ।
तस्मात् सर्वेषु कालेषु तत्कृतं न विचालयेत् ॥
ग्रामयोर् उभयोर् यत्र मर्यादा कल्पिता नदी ।
कुरुते दानहरणं भाग्याभाग्यवशान् नृणाम् ।
क्षयोदयेन चाल्पा च चालयन् दण्डम् अर्हति ॥
दशग्रामशतग्राम सहस्रग्रामलक्षणाम् ।
विषमां नृपतिः कुर्याच् चिह्नैः सीमां विनिश्चिताम् ॥
निवेशकालाद् आरभ्य गृहवर्यापणादिकम् ।
येन यावद् यथा भुक्तं तस्य तन् न विचालयेत् ॥
वातायनप्रणालीस् तु तथा निर्यूहवेदिकाः ।
चतुःशालस्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥
मेखलाभ्रमनिष्कास गवाक्षान् नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन् दण्डभाग् भवेत् ॥
निवेशसमयाद् ऊर्ध्वं नैते योज्याः कथंचन ।
दृष्टिपातं प्रणालीं च न कुर्यात् परवेश्मनि ॥
वर्चस्थानं वह्निम् अयं गर्तोच्छिष्टाम्बुसेचनम् ।
अत्यारात् परकुड्यस्य न कर्तव्यं कदाचन ॥
विण्मूत्रोदकवप्रांश् च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयम् उत्सृज्य परकुड्यां निवेशयेत् ॥
यान्त्य् आयान्ति जना येन पशवश् चानिवारिताः ।
तद् उच्यते संसरणं न रोद्धव्यं तु केनचित् ॥
यस् तत्र संकरं श्वभ्रं वृक्षारोपणम् एव च ।
कामात् पुरीषं कुर्याच् च तस्य दण्डस् तु माषकः ॥
गृहीत्वा वाहयेत् काले वापगोपनसंग्रहान् ।
अकुर्वन् स्वामिने दाप्यो मध्यं कृष्टशदं तु सः ॥
क्षेत्रं गृहीत्वा यः कश्चिन् न कुर्यान् न च कारयेत् ।
स्वामिने स शदं दाप्यो राज्ञे दण्डं च तत्समम् ॥
चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
सुसंस्कृते तु षष्ठं स्यात् परिकल्प्य यथाविधि ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0