भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.1

1.1.1

धर्मप्रधानाः पुरुषाः पूर्वम् आसन्न् अहिंसकाः ।
लोभद्वेषाभिभूतानां व्यवहारः प्रवर्तितः ॥

1.1.2

प्रयच्छेच् चेद् भृतिं स्वामी भृत्यानां कर्म कुर्वताम् ।
न कुर्वन्ति च भृत्याश् चेत् तत्र वादः प्रवर्तते ॥

1.1.3

हिंसां वा कुरुते कश् चिद् देयं वा न प्रयच्छति ।
द्वे हि स्थाने विवादस्य तयोर् बहुतरा गतिः ॥

1.1.4

यतो द्रव्यं विनिक्रीय ऋणार्थं चैव गृह्यते ।
तन्मूल्यम् उत्तमर्णेन व्यवहार इति स्मृतः ॥

1.1.5

गुणधर्मान् अतो राज्ञः कथयाम्य् अनुपूर्वशः ।
धनिकर्णिकसंदिग्धौ प्रतिभूलेख्यसाक्षिणः ॥

1.1.6

विचारयति यः सम्यक् तस्योत्पत्तिं निबोधत ।
सोमाग्न्यर्कानिलेन्द्राणां वित्तापत्त्योर् यमस्य च ॥

1.1.7

तेजोमात्रं समुद्धृत्य राज्ञो मूर्तिर् हि निर्मिता ।
तस्य सवाणि भूतानि चराणि स्थावराणि च ॥

1.1.8

भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ।
नाराजके कृषिवणिक् कुसीदपरिपालनम् ॥

1.1.9

तस्माद् वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा ।
द्विपदो व्यवहारः स्यात् धनहिंसासमुद्भवः ॥

1.1.10

द्विसप्तकोऽर्थमूलस् तु हिंसामूलश् चतुर्विधः ।
पारुष्ये द्वे वधश् चैव परस्त्रीसंग्रहस् तथा ॥

1.1.11

कुसीदनिधिदेयाद् यं संभूयोत्थानम् एव च ।
भृत्यदानम् अशुश्रूषा भूवादो ऽस्वामिविक्रियः ॥

1.1.12

क्रयविक्रयानुशयः समयातिक्रमस् तथा ।
स्त्रीपुंसयोगः स्तेयं च दायभागोऽक्षदेवनम् ॥

1.1.13

एतान्य् अर्थसमुत्थानि पदानि तु चतुर्दश ।
पुनर् एवं प्रभिन्नानि क्रियाभेदाद् अनेकदहा ॥

1.1.14

पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस् तथा ।
हिंसोद्भवपदान्य् एवं चत्वार्य् आह बृहस्पतिः ॥

1.1.15

हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक् पृथक् ।
विशेष एषां निर्दिष्टश् चतुर्णाम् अप्य् अनुक्रमात् ॥

1.1.16

पदान्य् अष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां ये विदुस् ते परीक्षकाः ॥

1.1.17

पूर्वपक्षः स्मृतः पादो द्वितीयस् तूत्तरस् तथा ।
क्रियापादस् तथा वाच्यश् चतुर्थो निर्णयस् तथा ॥

1.1.18

धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारोऽभिहितः संदिग्धे ऽर्थे विनिर्णयः ॥

1.1.19

शास्त्रं केवलम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस् तेनापि वर्धते ॥

1.1.20

देशस्थित्यानुमानेन नैगमानुमतेन च ।
क्रियते निर्णयस् तत्र व्यवहारस् तु बाध्यते ॥

1.1.21

विहाय चरिताचारं यत्र कुर्यात् पुनर् नृपः ।
निर्णयं सा तु राजाज्ञा चरितं बाध्यते तया ॥

1.1.22

धर्मशास्त्रानुसारेण सामात्यः स पुरोहितः ।
व्यवहारान् नृपः पश्येत् प्रजासंरक्षणाय च ।
क्रोधलोभविहीनस् तु सत्यवादी जितेन्द्रियः ॥

1.1.23

सप्तप्रकृतिकं यत् तु विजिगीषोर् अरेश् च यत् ।
चतुर्दशकम् एवेदं मण्डलं परिचक्षते ॥

1.1.24

चत्वारः पृथिवीपालाः पृथङ्मित्रैः सहाष्टकम् ।
अमात्यादिभिर् एते च जगत्य् अक्षरसंहिताः ॥

1.1.25

प्रातर् उत्थाय नृपतिः शौचं कृत्वा विधानतः ।
गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान् पुरोहितान् ॥

1.1.26

यथार्हम् एतान् संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिनन्द्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् ॥

1.1.27

राजा कार्याणि संपश्येत् सद्भिर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥

1.1.28

आत्मदारार्थलोकानां संचितानां तु गुप्तये ।
नृपतिः कारयेद् दुर्गं प्राकारद्वयसंयुतम् ॥

1.1.29

भूपानाम् इन्धनरसैर् वेत्रशष्पान्नवाहनैः ।
यन्त्रायुधैश् च विविधैः स्निग्धैः शूरैर् नरैर् युतम् ॥

1.1.30

वेदविद्याविदो विप्रान् क्षत्रियान् अग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥

1.1.31

अनाच्छेद्याः करास् तेभ्यः प्रदेया गृहभूमयः ।
मुक्ता भाव्याश् च नृपतेर् लेखयित्वा स्वशासने ॥

1.1.32

नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस् ते संदिग्धविनयं तथा ॥

1.1.33

समा निम्नोन्नता वापि यत्र भूमिर् यथाविधा ।
शालाट्टपरिखाद्याश् च कर्तव्याश् च तथाविधाः ॥

1.1.34

समन्तात् तत्र वेश्मानि कुर्युः प्रकृतयस् ततः ।
द्विजवैश्यवणिच्छिल्पि कारुका रक्षकास् तथा ॥

1.1.35

स्हलावस्थाननिष्काश भ्रमश्वभ्रचतुष्पथान् ।
समाजविक्रयस्थान गोव्रजांश् चैव कल्पयेत् ॥

1.1.36

गुणवान् इति यः प्रोक्तः ख्यापितो जनसंसदि ।
कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥

1.1.37

तस्मात् प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् ।
अनवस्थाप्रसङ्गः स्यान् नश्येतोपग्रहस् तथा ॥

1.1.38

सम्यङ् निविष्टदेशस् तु कृतदुर्गस् तु शास्त्रतः ।
कण्टकोद्धरणे नित्यम् आतिष्ठेद् बलम् उत्तमम् ॥

1.1.39

तत् प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः ।
परचक्राच् चौरभयाद् बलिनोऽन्यायवर्तिनः ॥

1.1.40

परानीकस्तेनभयम् उपायैः शमयेन् नृपः ।
बलवत् परिभूतानां प्रत्यहं न्यायदर्शनैः ॥

1.1.41

यद् अधीते यद् यजते यज् जुहोति यद् अर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥

1.1.42

रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन् ।
यजते ऽहरहर् यज्ञैः सहस्रशतदक्षिणैः ॥

1.1.43

दशाष्टषष्ठं नृपतेर् भागं दद्यात् कृषीवलम् ।
खिलाद् वर्षावसन्ताच् च कृष्यमाणाद् यथाक्रमम् ॥

1.1.44

देशस्थित्या बलिं दद्युर् भूतं षण्मासवार्षिकम् ।
एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥

1.1.45

औदकं पार्वतं वार्क्ष्यम् ऐरणं धान्वनं तथा ।
दुर्गमध्ये गृहं कुर्याज् जलवृक्षावृतं पृथक् ॥

1.1.46

प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सभाम् ।
माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ॥

1.1.47

प्रतिमालेख्यदेवैश् च युक्ताम् अग्न्यम्बुना तथा ।
लक्षण्यां वास्तुशास्त्रोक्त लक्षणेन तु लक्षिताम् ॥

1.1.48

भद्रासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥

1.1.49

विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः ।
सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ॥

1.1.50

यशो वित्तं फलरसो भोगोपग्रहपूजनम् ।
अजेयत्वं लोकपङ्क्तिः स्वर्गे स्थानं च शाश्वतम् ॥

1.1.51

वोदोत्वैतान् न्यायरसान् समो भूत्वा विवादनम् ।
त्यक्तलोभादिकं राजा धर्मं कुर्याद् विनिर्णयम् ॥

1.1.52

राजा वृत्तिविवादानां स्वयम् एव प्रदर्शनम् ।
शास्त्रदृष्टेन मार्गेण स विद्वद्भिः प्रसेव्यते ॥

1.1.53

तस्मान् न्यायेन राजा तु सम्यग् यत्नेन पालयेत् ।
तस्माद् अर्थं च राज्यं च यशश् च विपुलं लभेत् ॥

1.1.54

सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं विदुः ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥

1.1.55

पश्वाज्य्यर्त्विगादीनां संयोगाज् जायते ऽध्वरः ।
यथा संबध्यते तेन व्यवहारस् तथोच्यते ॥

1.1.56

प्राड्विवाकसदस्यानाम् उपजीव्य मतानि तु ।
तद्युक्तियोगाद् यो ऽर्थेषु निर्णये न स दण्डभाक् ॥

1.1.57

प्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश् चैव तथाविधाः ॥

1.1.58

प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिता अध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥

1.1.59

न्यायान् पश्येत् कृतमतिः सा सभाध्वरसंमिता ।
लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यत्रोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥

1.1.60

कुर्याद् अलग्नकौ रक्षेद् अर्थिप्रथ्यर्थिनौ सदा ।
एतद् दशाङ्गं करणं यस्याम् अध्यास्त पार्थिवः ॥

1.1.61

द्विसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥

1.1.62

साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।
अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा ॥

1.1.63

सप्त पञ्च त्रयो वा सभासदो भवन्ति ॥

1.1.64

देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥

1.1.65

राजा कार्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥

1.1.66

बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः ।
दीप्यमानः स्ववपुषा तेन राजाभिधीयते ॥

1.1.67

एकस् त्व् अनेकधा प्रोक्तो व्यवहारो मनीषिभिः ।
तस्य निर्णयकृद् राजा ब्राह्मणश् च बहुश्रुतः ॥

1.1.68

व्यवहाराश्रितं प्रश्नं पृच्छति प्राड् इति श्रुतिः ।
विवदेत् तत्र यस् तस्मिन् प्राड्विवाकस् तु स स्मृतः ॥

1.1.69

विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग् वदति प्राड्विवाकस् ततः स्मृतः ॥

1.1.70

सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥

1.1.71

सर्वशास्त्रार्थवेत्तारम् अलुब्धं न्यायभाषिणम् ।
विप्रं प्राज्ञं क्रमायातम् अमात्यं स्थापयेद् द्विजम् ॥

1.1.72

द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षरते राष्ट्रं बलं कोशं च नश्यति ॥

1.1.73

ये चारण्यचरास् तेषाम् अरण्ये करणं भवेत् ।
सेनायां सैनिकानां तु सार्थेषु बणिजां तथा ॥

1.1.74

कीनाशाः कारुका मल्लाः कुसीदश्रेणिवर्तकाः ।
लिङ्गिनस् तस्कराश् चैव स्वेन धर्मेण निर्णयः ॥

1.1.75

कुलानि श्रेणयश् चैव गणास् त्व् अधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥

1.1.76

तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ॥

1.1.77

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥

1.1.78

अपि भ्राता सुतो ऽर्घ्यो वा श्वशुरो मातुरो ऽपि वा ।
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥

1.1.79

यत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥

1.1.80

धर्मकर्मविहीनस् तु ब्राह्मैर् लिङ्गैर् विवर्जितः ।
ब्रवीति ब्राह्मणो ऽस्मीति तम् आहुर् ब्राह्मणब्रुवम् ॥

1.1.81

शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥

1.1.82

अकारणे रक्षणे च साक्ष्यर्थिप्रवादिनाम् ।
सभ्याधीनः सत्यवादी कर्तव्यस् तु स पूरुषः ॥

1.1.83

एतद् दशाङ्गकरणं यस्याम् अध्यास्य पार्थिवः ।
न्य्हायं पश्येत् कृतमतिः सा सभाध्वरसंमिता ॥

1.1.84

एषां मूर्धा नृपो ऽङ्गानां मुखं चाधिकृतः स्मृतः ।
बाहू सभ्याः स्मृतिर् हस्तौ जङ्घे गणकलेखकौ ॥

1.1.85

हेमाग्न्यम्बुदृशौ हृच् च पादौ स्वपुरुषस् तथा ॥

1.1.86

हिरण्यम् अग्निम् उदकं धर्मशास्त्राणि चैव हि ।
तन्मध्ये स्थापयेद् राजा पुण्यानि च हितानि च ॥

1.1.87

आदित्यचन्द्रदेवादि दिक्पालान् तत्र कल्पयेत् ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥

1.1.88

दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ।
वक्ताध्यक्षो नृपः शास्ता सभ्यः कार्यपरीक्षकः ॥

1.1.89

स्मृतिर् विनिर्णयं ब्रूते जयदानं दमं तथा ।
शपथार्थे हिरण्याग्नी अम्बु तृषितजन्तुषु ॥

1.1.90

गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ।
पर्त्यर्थिसभ्यानयनं साक्षिणम् च स्वपूरुषः ॥

1.1.91

वाग्दण्डश् चैव धिग्दण्डो विप्राधीनौ तु ताऊभौ ।
अर्थदण्डवधाव् उक्तौ राजायताव् उभाव् अपि ॥

1.1.92

राज्ञा ये विदिताः सम्यक् कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥

1.1.93

कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः ।
विचार्य श्रेणिभिः कार्यं कुलैर् यन् न विचारितम् ॥

1.1.94

गणैश् च श्रेण्य् अविज्ञातं गणाज्ञातं नियुक्तकैः ।
कुलादिभ्यो ऽधिकाः सभ्यास् तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः ॥

1.1.95

सर्वेषाम् अधिको राजा धर्मं यत्नेन निश्चितम् ।
उत्तमाधममध्यानां विवादानां विचारणात् ॥

1.1.96

उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ।
अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ॥

1.1.97

निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ।
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ॥

1.1.98

लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिर्णयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥

1.1.99

अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणास् ते भूपा नरकं यान्त्य् अधोमुखाः ॥

1.1.100

न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं त्व् अप्रियं तत्र न सभ्यः किल्बिषी ततः ॥

1.1.101

सभ्येन तावद् वक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात् तु सभ्यस् ततो ऽनघः ॥

1.1.102

अनिर्णीतेषु यद्य् एवं संभाषेत रहो ऽर्थिना ।
प्राड्विवाको ऽपि दण्ड्यः स्यात् सभ्याश् चैव विशेषतः ॥

1.1.103

स्नेताच् चाज्ञानतो वापि मोहाद् वा लोभतो ऽपि वा ।
यत्र सभ्यो ऽन्यथावादी दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥

1.1.104

लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः ।
प्रमाणानि न सन्त्य् एकं प्रमाणं तत्र पार्थिवः ॥

1.1.105

निश्चेतुं ये न शक्याः स्युर् वादाः संदिग्धरूपिणः ।
तेषां नृपः प्रमाण् अं स्यात् स सर्वस्य प्रभुर् यतः ॥

1.1.106

व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥

1.1.107

अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्ते वञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥

1.1.108

नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुम् अर्हति ।
यत् तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ॥

1.1.109

पूर्वामुखस् तूपविशेद् राजा सभ्या उदङ्मुखाः ।
गणकः पश्चिमा यस् तु लेखको दक्षिणामुखः ॥

1.1.110

यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास् तद् धि यमव्रतम् ॥

1.1.111

धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन पार्थिवः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥

1.1.112

न्यायशास्त्रम् अतिक्रम्य सभ्यैर् अत्र तु निश्चितम् ।
तत्र धर्मो हतो हन्ति सर्वान् एव न संशयः ॥

1.1.113

धार्यं मन्वादिकं शास्त्रं नार्थशास्त्रं कथंचन ।
द्वयोर् विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ॥

1.1.114

केवलं शास्त्रम् आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥

1.1.115

पूर्वाह्णे ताम् अधिष्ठाय वृद्धामात्यानुजीविभिः ।
पश्येत् पुराणधर्मार्थ शास्त्राणि शृणुयात् तथा ॥

1.1.116

चौरो ऽचौरः साध्व् असाधु जायते व्यवहारतः ।
युक्तिं विना विचारेण माण्डव्यश् चोरतां गतः ॥

1.1.117

असत्याः सत्यसदृशाः सत्याश् चासत्यसंनिभाः ।
दृश्यन्ते भ्रान्तिजनकास् तस्माद् युक्त्या विचारयेत् ॥

1.1.118

यज्ञे संपूज्यते विष्णुर् व्यवहारे महीपतिः ।
जयी तु यजमानो ऽत्र जितः पशुर् उदाहृतः ॥

1.1.119

पूर्वपक्षोत्तराव् आद्यं प्रतिज्ञा च हविः स्मृतः ।
त्रयी शास्त्राणि सभ्यास् तु ऋत्विजो दक्षिणा दमः ॥

1.1.120

तथा चैवोपदृष्टारौ ज्ञेयौ गणकलेखकौ ।
एषो ऽध्वरसमः प्रोक्तो व्यवहारः समाहृतः ॥

1.1.121

स्मृत्याचारव्यपेतेन मार्गेनाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥

1.1.122

पतितादिकृतश् चैव यश् च न प्रकृतिं गतः ।
अस्वतन्त्रकृतश् चैव पूर्वपक्षो न सिध्यति ॥

1.1.123

मत्तोन्मत्तार्तव्यसनि बालवृद्धप्रयोजितः ।
असंबन्धकृतश् चैव व्यवहारो न सिध्यति ॥

1.1.124

गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।
एतेषां समवेतानां व्यवहारो न सिध्यति ॥

1.1.125

एवं परीक्षितं सभ्यैः पूर्व्पक्षं तु लेखयेत् ।
अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ॥

1.1.126

प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।
देशजातिकुलादीनां ये धर्मास् तत्प्रवर्तिताः ॥

1.1.127

तथैव ते पालनीयाः प्रजा प्रक्षुभ्यते ऽन्यथा ।
जनापरक्तिर् भवति बलं कोशश् च नश्यति ॥

1.1.128

उदुह्यते दाक्षिणात्यैर् मातुलस्य सुता द्विजैः ।
मध्यदेशे कर्मकराः शिल्पिनश् च गवाशिनः ॥

1.1.129

मत्स्यादाश् च नराः पूर्वे व्यभिचाररताः स्त्रियः ।
उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ॥

1.1.130

सहजाताः प्रगृह्णन्ति भ्रातृभार्याम् अभर्तृकाम् ।
अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥

1.1.131

विहिताकरणान् नित्यं प्रतिषिद्धनिषेवणात् ।
भक्ताच्छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ॥

1.1.132

प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।
शास्त्रवद् यत्नतो रक्ष्या संदिग्धौ साधनं तु सा ॥

1.1.133

तां दृष्ट्वा निर्णयं कुर्यात् प्राङ् निविष्टव्यवस्थया ।
सभा शुल्कोचितदमे मासषाण्मासिके करे ॥

1.1.134

मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा ।
अर्थिनश् च वचः कार्यं वचः प्रत्यर्थिनस् तथा ।
परीक्ष्य पदम् आदद्याद् अन्यथा नरकं व्रजेत् ॥

1.1.135

एकस्य बहुभिः सर्धं स्त्रीभिः प्रेक्षकरैस् तथा ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥

1.1.136

सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।
मत्तो वृद्धो ऽनुयुक्तश् च नृपकार्योद्यतो व्रती ॥

1.1.137

आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे ।
विषमस्थाश् च नासेध्याः स्त्रीसनाथास् तथैव च ॥

1.1.138

अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्याः स्त्रीसनाथास् तथैव च ॥

1.1.139

वणिग्विक्रीतपण्यस् तु सस्ये जाते कृषीवलः ।
सत्रोद्यताश् चैव तथा दापनीयाः कृतक्रियाः ॥

1.1.140

मतिर् नोत्सहते यत्र विवादं कर्तुम् इच्छते ।
दातव्यस् तस्य कालः स्याद् अर्थिप्रत्यर्थिनोर् अपि ॥

1.1.141

यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा ।
तम् एवानाययेद् राजा सुद्रया पुरुषेण वा ॥

1.1.142

अप्रगल्भजडोन्मात वृद्धस्त्रीबालरोगिणाम् ।
पूर्वोत्तरं वदेद् बन्धुर् नियुक्तो ऽन्यो ऽथ वा नरः ॥

1.1.143

ऋत्विग्वादे नियुक्तश् च समौ संपरिकीर्तिनौ ।
यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं वादे ऽथ वा जयम् ॥

1.1.144

आहूतो यस् तु नागच्छेद् दर्पाद् बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥

1.1.145

काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥

1.1.146

एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैः ब्राह्मणैः सह ।
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ॥

1.1.147

मुद्रां दद्याद् यथा पत्रं पुरुषं वा समादिशेत् ।
आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥

1.1.148

अकल्पबालस्थविर विषमस्थक्रियाकुलान् ।
हीने कर्मणि पञ्चाशन् मध्यमेषु शतावरः ।
गुरुकार्येषु दण्ड्यः स्यात्न् नित्यं पञ्चशतावरः ॥

1.1.149

परानीकहते देशे दुर्भिक्षे व्याधिपीडिते ।
कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् ॥

1.1.150

कार्यातिपातिव्यसनि नृपकार्योत्सवाकुलान् ॥

1.1.151

द्जर्मोद्यतान् अभ्युदये पराधीनशठाकृतीन् ।
मत्तोन्मत्तप्रमत्तांश् च भृत्यान् नाह्वाययेन् नृपः ॥

1.1.152

न च भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥

1.1.153

न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुक्ताः स्मृताः ॥

1.1.154

कालं देशञ् च विज्ञाय कार्याणां च बलावलम् ।
अकल्पादीन् अपि शनैर् यानैर् आह्वापयेन् नृपः ॥

1.1.155

तदधीनकुटुम्बिव्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥

1.1.156

उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥

1.1.157

ज्ञात्वाभियोगं ये ऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वापयेत् राजा गुरुकार्येष्व् अकोपयन् ॥

1.1.158

वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥

1.1.159

स्थानासेधः काल्कृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधः आसिद्धस् तं न लङ्घयेत् ॥

1.1.160

क्षेत्रारामगृहादीनि धनधान्यादिकं तथा ।
अन्यायवादिनां त्व् एतान्य् आसेधव्यानि वादिनाम् ॥

1.1.161

आसेद्धा तु स्वम् आसेधं स्वयम् एवोत्सृजेद् यदि ।
न तस्यातिक्रमाद् दोषो न च दण्डं प्रकल्पयेत् ॥

1.1.162

राज्ञे निवेदनाद् ऊर्ध्वं आसेद्धा नोत्सृजेद् स्वयम् ।
उत्सृजेच् चेद् दमो दाप्य आसिद्धश् च न लङ्घयेत् ॥

1.1.163

नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।
आसिद्धस् तु परासेधम् उत्क्रामन् नापराध्नुयात् ॥

1.1.164

निवेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥

1.1.165

गवाम् प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।
शिल्पिनश् चापि तत्काले आयुधीयाश् च विग्रहे ॥

1.1.166

वृक्षं पर्वतम् आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश् च ते सर्वे नासेध्याः कार्यसाधकैः ॥

1.1.167

यस् त्व् इन्द्रियनिरोधेनाप्य् आहारोच्छ्वसनादिभिः ।
आसेधयेद् अनासेधैः स दण्ड्यो न त्व् अतिक्रमी ॥

1.1.168

आसेधयोग्य आसेधम् उत्क्रामन् दण्डम् अर्हति ।
आसेधयंस् तु नासेध्यं राज्ञा शास्य इति स्थितिः ॥

1.1.169

आगतानां विवदताम् असकृद्वादिनां नृपः ।
वादान् पश्येन् नात्मकृतान् न चाध्यक्षनिवेदितान् ॥

1.1.170

पीडितः स्वयम् आयातः शस्त्रेणार्थी यदा भवेत् ।
प्राड्विवाकस् तु तं पृच्छेत् पुरुषो वा शनैः शनैः ॥

1.1.171

यो ऽदत्तव्यवहारत्वाद् अनियुक्तः प्रवर्तते ।
वचन्ं तस्य न ग्राह्यं लिखितप्रेषिताद् ऋते ॥

1.1.172

अहं पूर्विकया याताव् अर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेक्ष्य वा ॥

1.1.173

उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।
जडातिवृद्धबालश् च विज्ञेयास् तु निरुत्तराः ॥

1.1.174

पक्षः प्रोक्तस् त्व् अनादेयो वादी चानुत्तरस् तथा ।
यादृग्वादी यश् च पक्षो ग्राह्यस् तत् कथयाम्य् अहम् ॥

1.1.175

पीडातिशयम् आश्रित्य यद् ब्रवीति विवक्षितम् ।
स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc