बृहस्पतिस्मृति · अध्याय 1.18
समासेनोदितस् त्व् एष समयाचारनिश्चयः ।
क्रयविक्रयसंजातो विवादः श्रूयताम् अयम् ॥
जङ्गमं स्थावरं चैव द्रव्ये द्वे समुदाहृते ।
क्रयकाले पण्यशब्द उभयोर् अपि च स्मृतः ॥
ज्ञात्वा सदोषं यः पण्यं विक्रीणात्यविचक्षणः ।
तद् एव द्विगुणं दाप्यस् तत्समं विनयं तथा ॥
मत्तोन्मत्तेन विक्रीयं हीनम् ऊल्यं भयेन वा ।
अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर् भवेत् ॥
यो ऽन्यहस्ते तु विक्रीय अन्यस्मै तत् प्रयच्छति ।
सो ऽपि तद् द्विगुणं दाप्यो विनयं तावद् एव तु ॥
दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम् ॥
अतो ऽर्वाक् पुण्यदोषस् तु यदि संजायते क्वचित् ।
विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥
अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् ।
क्रीतं तत् स्वामिने देयं पण्यं काले ऽन्यथा न तु ॥
परीक्षेत स्वयं पण्यम् अन्येषां च प्रदर्शयेत् ।
परीक्सितं बहुमतं गृहीत्वा न पुनस् त्यजेत् ॥
अश्वरूप्यहिरण्यानां धान्यलोहाजवाससाम् ।
चर्मकाष्ठविकाराणाम् एकाहं स्यात् परीक्षणम् ॥
मर्णीभाश्वाश्वतरिणाम् आगमैर् मूल्यकल्पना ।
नृपाज्ञयापणस्थानां गोभूम्योर् उभयेच्छया ॥
संविभागे विनिमये क्षेत्रयोर् उभयोर् अपि ।
अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर् भविष्यति ॥
प्रष्टव्याः संनिधिस्थाश् चेत् क्रेत्रा ज्ञात्यादयः स्मृताः ।
अन्यथा चेत् कृतं कर्म ज्ञातीच्छां दर्शयेत् ततः ॥
ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।
अन्यथा चेत् क्रयो यः स्याद् अन्यग्रामे त्रिपक्षकम् ॥
सोदराश् च सपिण्डाश् च सोदकाश् च सगोत्रिणः ।
सामन्ता धनिका ग्राह्याः सप्तैते योनयो मताः ॥
मूल्यं दत्त्वाधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् ।
क्रयसिद्धेस् तु नैव स्याद् वत्सराणां शतैर् अपि ॥
विक्रयेषु च सर्वेषु कूपवृक्षादि लेखयेत् ।
जलमार्गादि यत् किंचिद् अन्यैश् चैव बृहस्पतिः ॥
क्षेत्राद्युपेतं परिपक्वसस्यं वृक्षं फलं वाप्य् उपभोगयोग्यम् ।
कूपं तडाकं गृहम् उन्नतं च क्रेत्रे च विक्रेतुर् इदं वदन्ति ॥
मत्तमूढानभिज्ञार्त मूढैर् विनिमयः कृतः ।
यच् चानुचितमूल्यं स्यात् तत् सर्वं विनिवर्तयेत् ॥
ज्ञातिसामन्तधनिकाः क्रये ग्रामात् बहिर् गताः ।
नार्हन्ति ते प्रतिक्रोष्टुं क्रान्तं पक्षत्रये क्रमात् ॥
त्रिपक्षाद् अथ वा मासात् त्रितयात् तु तद् आप्नुयात् ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0