भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.17

1.17.1

एषा हि स्वामिभृत्यानां वै क्रिया परिकीर्तिता ।
संविद्विधानम् अधुना समासेन निबोधत ॥

1.17.2

वेदविद्याविदो विप्राञ् श्रोत्रियान् अग्निहोत्रिणः ।
आहृत्य स्थापयेत् तत्र तेषां वृत्तिं प्रकल्पयेत् ॥

1.17.3

अनाच्छेद्यकरास् तेषां प्रदद्याद् गृहभूमिकाः ।
मुक्ता भाव्याश् च नृपतिर् लेखयित्वा स्वशासनैः ॥

1.17.4

नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस् ते संदिग्धे निर्णयं तथा ॥

1.17.5

ग्रामश्रेणिगणार्थं तु संकेतसमयक्रिया ।
बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥

1.17.6

चाटचोरभयं बाधा सर्वसाधारणा स्मृता ।
तत्रोपशमनं कार्यं सर्वैर् नैकेन केन चित् ॥

1.17.7

कोशेन लेख्यक्रियया मध्यस्थैर् वा परस्परम् ।
विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्य् अनन्तरम् ॥

1.17.8

विद्वेषिणो व्यसनिनः शालीनालसभीरवः ।
लुब्धातिवृद्धबालाश् च न कार्याः कार्यचिन्तकाः ॥

1.17.9

शुचयो वेदधर्मज्ञा दक्षा दान्ताः कुलोद्भवाः ।
सर्वकार्यप्रवीणाश् च कर्तव्यास् तु महत् तमाः ॥

1.17.10

द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः ।
कर्तव्यं वचनं तेषां ग्रामश्रेणिगणादिभिः ॥

1.17.11

सभाप्रपादेवगृह तडाकारामसंस्कृतिः ।
तथानाथदरिद्राणां संस्कारो योजनक्रिया ॥

1.17.12

कुलायनं निरोधश् च कार्यम् अस्माभिर् अंशतः ।
यत् त्व् एवं लिखितं पत्रं धर्म्या सा समयक्रिया ॥

1.17.13

पालनीयाः समर्थैस् तु यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस् तस्य निर्वासनं पुरात् ॥

1.17.14

तत्र भेदम् उपेक्षां वा यः कश्चित् कुरुते नरः ।
चतुःसुवर्णाः षण्णिष्कास् तस्य दण्डो विधीयते ॥

1.17.15

यस् तु साधारणं हिंस्यात् क्षिपेत् त्रैविद्यम् एव वा ।
संवित्क्रियां विहन्याच् च स निर्वास्यः पुरात् ततः ॥

1.17.16

अरुन्तुदः सूचकश् च भेदकृत्साहसी तथा ।
श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः ॥

1.17.17

कुलश्रेणिगनाध्यक्षाः पुरदुर्गनिवासिनः ।
वाग्धिग्दमं परित्यागं प्रकुर्युः पापकारिणाम् ॥

1.17.18

तैः कृतं च स्वधर्मेण निग्रहानुग्रहं नृणाम् ।
तद्राज्ञो ऽप्य् अनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ॥

1.17.19

बाधां कुर्युर् यद् एकस्य संभूता द्वेषसंयुताः ॥

1.17.20

मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।
तदा विचारयेत् राजा स्वमार्गे स्थापयेच् च तान् ॥

1.17.21

यः समर्थो विसंवदेत् ।
सर्वस्वहरणं दण्डस् तस्य निर्वासनं पुरात् ॥

1.17.22

संभूयैकतमं कृत्वा राजभाव्यं हरन्ति ये ।
ते तदष्टगुणं दाप्या वणिजश् च पलायिनः ॥

1.17.23

ततो लभेत यत् किंचित् सर्वेषाम् एव तत् समम् ।
षाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः ॥

1.17.24

देयं वा निःस्ववृद्दान्ध स्त्रीबालातुररोगिषु ।
सान्तानिकादिषु तथा धर्म एष सनातनः ॥

1.17.25

यत्नैः प्राप्तं रक्षितं वा गणार्थे वा पणं कृतम् ।
राजप्रसादलब्धं वा सर्वेषाम् एव तत्समम् ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc