भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.16

1.16.1

त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः ।
भक्ताच् छादभृतः सीराद् भागं गृणीत पञ्चमम् ॥

1.16.2

जातसस्यात् त्रिभागं तु प्रगृह्णीयाद् अथाभृतः ॥

1.16.3

भृतकस् तु न कुर्वीत स्वामिनः शाठ्यम् अण्व् अपि ।
भृतिहानिम् अवाप्नोति ततो वादः प्रवर्तते ॥

1.16.4

भृतो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथेरितम् ।
स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥

1.16.5

गृहीतवेतनः कर्म न करोति यदा भृतः ।
समर्थश् चेद् दमं दाप्यो द्विगुणं तच् च वेतनम् ॥

1.16.6

गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।
अगृहीते समं दाप्यो भृतै रक्ष्य उपस्करः ॥

1.16.7

प्रतिश्रुत्य न कुर्याद् यः स कार्यः स्याद् बलाद् अपि ।
स चेन् न कुर्यात् तत्कर्म प्राप्नुयाद् विंशतिं दमम् ॥

1.16.8

स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥

1.16.9

प्रभुणा विनियुक्तः सन् भृतको विदधाति यत् ।
तदर्थम् अशुभं कर्म स्वामी तत्रापराध्नुयात् ॥

1.16.10

दैवराज्ञोस् तथा न्याये तथा राष्ट्रस्य विभ्रमे ।
यत् प्रणष्टं भृतं वा स्यान् न पालस् तत्र किल्बिषी ॥

1.16.11

कृते कर्मणि यः स्वामी न दद्याद् वेतनं भृतेः ।
राज्ञा दापयितव्यः स्याद् विनयं चानुरूपतः ॥

1.16.12

पालदोषाद् विनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिने द्रव्यम् एव च ॥

1.16.13

व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता च नागच्छेत् अवाच्या बडबा स्मृता ॥

1.16.14

तथा धेनुभृतः क्षीरं लभेतास्याष्टमे ऽखिलम् ।
सायं समर्पयेत् सर्वं ॥

1.16.15

अव्यायच्छन्न् अविक्रोशन् स्वामिने चानिवेदयन् ।
वोढुम् अर्हति गोपस् तां विनयं चैव राजनि ॥

1.16.16

कृमिचोरव्याघ्रभयाद् दरीश्वभ्राच् च पालयेत् ।
आयच्छेच् छक्तितः क्रोशोत् स्वामिने वा निवेदयेत् ॥

1.16.17

सस्यान् निवारयेद् गास् तु चीर्णे दोषद्वयं भवेत् ।
स्वामी शतदमं दाप्यः पालस् ताडनम् अर्हति ।
शदश् च सदमं चीर्णे समूले कार्षभक्षिते ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc