बृहस्पतिस्मृति · अध्याय 1.15
अदेयादिकम् आख्यातं भृतानाम् उच्यते विधिः ।
शुश्रूषाम् अभ्यूपेत्यैतत् पदम् आदौ निगद्यते ॥
अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥
वेतनस्यानपाकर्म तदर्थं स्वामिपालयोः ।
क्रमशः कल्प्यते वादो भृतभेदत्रयं त्व् इदम् ॥
अनेकधा त्व् अभिहिता जातिकर्मानुरूपतः ।
विद्याविज्ञानकामार्थ निमित्तेन चतुर्विधा ॥
एकैकः पुनर् एतेषां क्रियाभेदात् प्रभिद्यते ॥
विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच् च प्रचोदिताम् ॥
विज्ञानम् उच्यते शिल्पं हेमरूप्यादिसंस्कृतिः ।
नृत्यादिकं च तत्प्राप्तं कुर्यात् कर्म गुरोर् गृहे ॥
यो भुङ्क्ते परदासीं तु स ज्ञेयो वडबाभृतः ।
कर्म तत्स्वामिनः कुर्याद् यथान्नेन भृतो नरः ॥
बहुधार्थभृतः प्रोक्तस् तथा भागभृतो ऽपरः ।
हीनमध्योत्तमत्वं च सर्वेषाम् एव चोदितम् ॥
दिनमासार्धषण्मास त्रिमासाब्दभृतस् तथा ।
कर्म कुर्यात् प्रतिज्ञातं लभते परिभाषितम् ॥
भृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽधमः ।
शक्तिभक्त्यनुरूपैः स्याद् एषां कर्माश्रया भृतिः ॥
उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाहः स्याद् इत्य् एष त्रिविधो भृतः ॥
आयुधी तूत्तमः प्रोक्तो मध्यमस् तु कृषीवलः ।
भारवाहो ऽधमः प्रोक्तस् तथा च गृहकर्मकृत् ॥
द्विप्रकारो भोगभृतः कृषिगोजीविनां स्मृतः ।
जातसस्यात् तथा क्षीरात् स लभेत न संशयः ॥
शुभकर्मकरा ह्य् एते चत्वारः समुदाहृताः ।
चत्वारः शिष्यो ऽन्तेवासी भृतकः कर्मकरश् च ।
जधन्यकर्मभाजस् तु शेषा दासास्त्रिपञ्चकाः ॥
कर्मापि द्विविधं प्रोक्तम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकरे स्मृतम् ॥
गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।
गृह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ॥
गच्छतः स्वामिनः स्वाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥
ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नो ऽथ प्रतिग्राह्यो भवत्य् अभिमतः सताम् ॥
आविद्याग्रहणाच् शिष्यः शुश्रूषेत् प्रयतो गुरुम् ।
तद् वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥
समावृत्तश् च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतियाति गृहान् एषा शिष्यवृत्तिर् उदाहृतः ॥
अत्र पुर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते ।
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥
विक्रीणीते स्वतन्त्रो यः समात्मानं नराधमः ।
स जघन्यतमस् त्व् एषां सो ऽपि दास्यान् न मुच्यते ॥
दासेनोढा त्वस्वदासी या सो ऽपि दासीत्वम् आप्नुयात् ।
यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनप्रभुर् यतः ॥
दासीसुताश् च ये जाताः तस्याः पत्या परेण वा ।
उत्पादको यदि स्वामी न दासीं कारयेत् प्रभुः ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0