भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.14

1.14.1

एषाखिलेनाभिहिता संभूयोत्थाननिष्कृतिः ।
अदेयदेयदत्तानाम् अदत्तस्य च कथ्यते ॥

1.14.2

सामान्यं पुत्रदारादि सर्वस्वं न्यासयाचितम् ।
प्रतिश्रुतं तथान्यस्य न देयं त्व् अष्टधा स्मृतम् ॥

1.14.3

कुटुम्बभक्तवसनाद् देयं यद् अतिरिच्यते ।
मध्वास्वादो विषं पश्चाद् दातुर् धमो ऽन्यथा भवेत् ॥

1.14.4

सप्तारामाद् गृहक्षेत्राद् यद् यत् क्षेत्रं प्रचीयते ।
पित्रा वाथ स्वयं प्राप्तं तद् दातव्यं विवक्षितम् ॥

1.14.5

स्वेच्छादेयं स्वयं प्राप्तं बन्धाचारेण बन्धकम् ।
वैवाहिके क्रमायाते सर्वदानं न विद्यते ॥

1.14.6

सौदायिकक्रमायातं शौर्यप्राप्तं च यद् भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिम् अवाप्नुयात् ॥

1.14.7

सर्वस्वगृहवर्जं तु कुटुम्बभरणादिकम् ।
यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥

1.14.8

विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानादापनविक्रये ॥

1.14.9

भृतिस् तुष्ट्या पण्यमूलं स्त्रीशुल्कम् उपकारिणे ।
श्रद्धानुग्रहसंप्रीत्या दत्तम् अष्टविधं स्मृतम् ॥

1.14.10

शूद्रे समगुणं दानं वैश्ये तद् द्विगुणं स्मृतम् ।
क्षत्रिये त्रिगुणं दानं ब्राह्मणे षड्गुणं स्मृतम् ॥

1.14.11

श्रोत्रिये चैव साहस्रम् उपाध्याये तु तद् द्वयम् ।
आचार्ये त्रिगुणं ज्ञेयम् आहिताग्निषु तद् द्वयम् ॥

1.14.12

आत्मिके ज्ञातसाहस्रम् अनन्तं त्व् अग्निहोत्रिणि ।
सोमपे शतसाहस्रम् अनन्तं ब्रह्मवादिनि ॥

1.14.13

स्त्रीधनं स्त्री स्वकुल्येभ्यः प्रयच्च्छेत्तं तु वर्जयेत् ।
कुल्याभावे तु बन्धुभ्यः तदभावे द्विजातिषु ॥

1.14.14

मदूर्ध्वम् इति यद् दत्तं न तत् सत्त्वावहं भवेत् ।
तेनेदानीम् अदत्तत्वान् मृते रिक्थिनम् आपतेत् ॥

1.14.15

क्रुद्धहृष्टप्रमत्तार्त बालोन्मत्तभयातुरैः ।
मत्तातिवृद्धनिर्धूतैः संऊढैः शोकवेगिभिः ॥

1.14.16

नन्ददत्तं तथैतैर् यत् तद् अदत्तं प्रकीर्तितम् ॥

1.14.17

प्रतिलाभेच्छया दत्तम् अपात्रे पात्रशङ्कया ।
कार्ये वाधर्मसंयुक्ते स्वामी तत् पुनर् आप्नुयात् ॥

1.14.18

अदत्तभोक्ता दण्ड्यः स्यात् तथादेयप्रदायकः ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc