भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.13

1.13.1

कुलीनदक्षानलसैः प्राज्ञैर् नाणकवेदिभिः ।
आयव्ययज्ञैः शुचिभिः शूरैः कुर्यात् सह क्रियाः ॥

1.13.2

समो ऽतिरिक्तो जीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस् तस्य तत्र तथाविधा ॥

1.13.3

अशक्तालसरोगार्त मन्दभाग्यनिराश्रयैः ।
वणिज्याद्याः सहैतैस् तु न कर्तव्या बुधैः क्रियाः ॥

1.13.4

प्रयोगं कुर्वते ये तु हेमधान्यरसादिना ।
समन्यूनाधिकैर् अंशैर् लाभस् तेषां तथाविधः ॥

1.13.5

समो न्यूनो ऽधिको वांशो येन क्षिप्तस् तथैव सः ।
व्ययं दद्यात् कर्म कुर्याल् लाभं गृह्णीत चैव हि ॥

1.13.6

परीक्षकाः साक्षिणश् च त एवोक्ताः परस्परम् ।
संदिग्धे ऽर्थे ऽवञ्चनायां न चेद् द्विद्वेषसंयुताः ॥

1.13.7

यः कश्चिद् वञ्चकस् तेषां विज्ञातः क्रयविक्रये ।
शपथैः स विशोध्यः स्यात् सर्ववादे त्व् अयं विधिः ॥

1.13.8

क्षयहानिर् यदा तत्र दैवराजकृताद् भवेत् ।
सर्वेषाम् एव सा प्रोक्ता कल्पनीया तथांशतः ॥

1.13.9

अनिर्दिष्टो वार्यमाणः प्रमादाद् यस् तु नाशयेत् ।
तेनैव तद् भवेद् देयं सर्वेषां समवायिनाम् ॥

1.13.10

राज्ञे दत्त्वा तु षड्भागं लभेरंस् ते यतांशतः ॥

1.13.11

दैवराजभयाद् अस्तु स्वशक्त्या परिपालयेत् ।
तस्य अंशं दशमं दत्त्वा गृह्नीयुस् ते ऽंशतो ऽपरम् ॥

1.13.12

शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद् यथोचितम् ।
न तद् व्यभिचरेत् राज्ञां बलिर् एष प्रकीर्तितः ॥

1.13.13

नैवं तस्करराजाग्नि व्यसने समुपस्थिते ।
यस् तु स्वशक्त्या रक्षेत् तु तस्यांशो दशमः स्मृतः ॥

1.13.14

यदा तत्र वणिक् कश्चित् प्रमीयेत प्रमादतः ।
तस्य भाण्डं दर्शनीयं नियुक्तैः राजपुरुषैः ॥

1.13.15

यदा कश्चित् समागच्छेत् तदा रिक्थहरो नरः ।
स्वाम्यं विभावयेद् अन्यैः स तदा लब्धुम् अर्हति ॥

1.13.16

राजाददीत षड्भागं नवमं दशमं तथा ।
शूद्रविष्क्षत्रजातीनां विप्राद् गृह्णीत विंशकम् ॥

1.13.17

त्र्यब्दाद् ऊर्ध्वं तु नागच्छेद् यत्र स्वामी कथंचन ।
तदा गृह्णीत तद् राजा ब्रह्मस्वं ब्राह्मणाञ् श्रयेत् ॥

1.13.18

एवं क्रियाप्रवृत्तानां यदा कश्चिद् विपद्यते ।
तद् बन्धुना क्रिया कार्या सर्वेषां सहकारिभिः ॥

1.13.19

रथं हरेद् यथाध्वर्युर् ब्रह्माधाने च वाजिनम् ।
होता निविद्वरं चाश्वम् उद्गाता चाप्यनः क्रये ॥

1.13.20

सर्वेषाम् अर्धिनो मुख्यास् तद् अर्धेनाधिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥

1.13.21

आगन्तुकाः क्रमायातास् तथा चैव स्वयंकृताः ।
त्रिविधास् ते समाख्याता वर्तितव्यं तथैव तैः ॥

1.13.22

बहूनां संमतो यस् तु दद्याद् एको धनं नरः ।
करणं कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥

1.13.23

ज्ञातिसंबन्धिसुहृदाम् ऋणं देयं सबन्धकम् ।
अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥

1.13.24

स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि ।
देशस्थित्या प्रदातव्यं गृहीतव्यं तथैव तत् ॥

1.13.25

समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् ।
न याचते च यः कश्चिल् लाभात् स परिहीयते ॥

1.13.26

श्रूयतां कर्षकादीनां विधानम् इदम् उच्यते ॥

1.13.27

वाह्यवाहकबीजाद्यैः क्षेत्रोपकरणेन च ।
ये समाः स्युस् तु तैः सार्धं कृषिः कार्या विजानता ॥

1.13.28

बाह्यबीजात्ययाद् यत्र क्षेत्रहानिः प्रजायते ।
तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम् ॥

1.13.29

पर्वते नगराभ्यासे तथा राजपथस्य च ।
उषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥

1.13.30

गर्तानूपं सुसेकं च समन्तात् क्षेत्रसंयुतम् ।
प्रकृष्टं च कृतं काले वापयन् फलम् अश्नुते ॥

1.13.31

कृशातिवृद्धं क्षूद्रं च रोगिणं प्रपलायिनम् ।
काणं खञ्जं विनादद्यात् बाह्यं प्राज्ञः कृषीवलः ॥

1.13.32

एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥

1.13.33

हिरण्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम् ।
संस्कर्ता तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः ॥

1.13.34

हेमकारादयो यत्र शिल्पं संभूय कुर्वते ।
कर्मानुरूपं निर्वेश लभेरंस् ते यथांशतः ॥

1.13.35

शिक्षकाभिज्ञकुशला आचार्याश् चेति शिल्पिनः ।
एकद्वित्रिचतुर्भागान् लभेयुस् ते यथोत्तरम् ॥

1.13.36

हर्म्यं देवगृहं वापि धार्मिकोपस्कराणि च ।
संभूय कुर्वतां चैषां प्रमुखो द्व्यंशम् अर्हति ॥

1.13.37

नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः ।
तालज्ञो लभते ऽध्यर्धं गायनास् तु समांशिनः ॥

1.13.38

स्वाम्याज्ञया तु यश् चौरैः परदेशात् समाहृतम् ।
राज्ञे दत्त्वा तु षड्भागं भजेयुस् ते यथांशतः ॥

1.13.39

चतुरो ऽंशांस् ततो मुख्यः शूरस्त्र्यंशं समाप्नुयात् ।
समर्थस् तु हरेद् द्व्यंशं शेषाः सर्वे समांशिनः ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc