भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.12

1.12.1

निक्षेपानन्तरं प्रोक्तो भृगुणास्वामिविक्रयः ।
श्रूयतां तं प्रयत्नेन सविशेषं ब्रवीम्य् अहम् ॥

1.12.2

निक्षेपान्वाहितन्यास हृतयाचितबन्धकम् ।
उपांशुजनविक्रीतम् अस्वामी सो ऽभिधीयते ॥

1.12.3

येन क्रीतं तु मूल्येन प्रागध्यक्षनिवेदितम् ।
न विद्यते तत्र दोषः स्तेन स्याद् उपधिक्रयात् ॥

1.12.4

अन्तर् गृहे बहिर् ग्रामान् निशायाम् असतो जनात् ।
हीनमूल्यं च यत् क्रीतं ज्ञेयो ऽसाव् उपविक्रयः ॥

1.12.5

पूर्वस्वामी तु तद् द्रव्यं यद् आगत्य विचारयेत् ।
तत्र मूल्यं दर्शनीयं क्रेतुः शुद्धिस् ततो भवेत् ॥

1.12.6

मूले समाहृते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टकस्य विहीयते ॥

1.12.7

विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।
क्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात् स्वामिने धनम् ॥

1.12.8

परद्रव्ये ऽभिलषति यो ऽस्वामी लोभसंयुतः ।
अभावयंस् ततः पश्चाद् दाप्यः स्याद् द्विगुणं दमम् ॥

1.12.9

प्रमाणहीने वादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन स्वयं कुर्याद् विनिर्णयम् ॥

1.12.10

वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥

1.12.11

स्वामी दत्त्वार्धमूल्यं तु प्रकृह्णीत स्वकं धनम् ।
अर्धं द्वयोर् अपि हृतं तत्र स्याद् व्यवहारतः ॥

1.12.12

अविज्ञातक्रयो दोषस् तथा चापरिपालनम् ।
एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥

1.12.13

वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
दिवा गृहीतं सत्क्रेता समृद्धो लभते धनम् ॥

1.12.14

विक्रीयोर्वीं तु यत् क्रेतुर् भुक्तिं यो न च साधयेत् ।
स तस्मै तद् धनं दद्याद् अन्यथा चोरदण्डभाक् ॥

1.12.15

एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ।
अविज्ञातविशेषत्वाद् यत्र मूल्यं न लभ्यते ॥

1.12.16

हानिस् तत्र समा कल्प्या क्रेतृनास्तिकयोर् द्वयोः ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc