बृहस्पतिस्मृति · अध्याय 1.11
ऋणादानं प्रयोगादि दापनान्तं प्रकीर्तितम् ।
निक्षेपस्याधुना सम्यग् विधानं श्रूयताम् इति ॥
अनाख्यातं व्यवहितम् असंख्यातम् अदर्शितम् ।
मुद्राङ्कितं च यद् दत्तं तदोपनिधिकं स्मृतम् ॥
राजचौरारातिभयाद् दायादानां च वञ्चनात् ।
स्थाप्यते ऽन्यगृहे द्रव्यं न्यासस् तत् परिकीर्तितम् ॥
स्थानं गृहं स्थलं चैव तद् ऋणं विविधान् गुणान् ।
सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन् निधिम् ॥
स पुनर् द्विविधः प्रोक्तः साक्षिमानितरस् तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥
समाक्षिकं रहोदत्तं द्विविधं तद् उदाहृतम् ।
पुत्रवत् परिपाल्यं तु विनश्यत्य् अनवेक्षया ॥
ददतो यद् भवेत् पुण्यं हेमकुप्याम्बरादिकम् ।
तत् स्यात् पालयतो न्यासं तथा च शरणागतम् ॥
भर्तुर् द्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत् तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥
न्यासद्रव्यं न गृह्णीयात् तन्नाशस् त्व् अयशःकरः ।
गृहीतं पालयेद् यत्नात् सकृद्याचितम् अर्पयेत् ॥
स्थापितं येन विधिना येन यच् च विभावितम् ।
तथैव तस्य दातव्यम् अदेयं प्रत्यनन्तरम् ॥
देवराजोपघातेन यदि तन् नाशम् आप्नुयात् ।
ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥
भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ॥
न्यासद्रव्येण यः कश्चित् साधयेत् कार्यम् आत्मनः ।
दण्ड्यः स राज्ञो भवति दाप्यस् तच् चापि सोदयम् ॥
गृहीत्वापह्नुते यश् च साक्षिभिः शपथेन वा ।
विभाव्य दापयेन् न्यासं तत् समं विनयं तथा ॥
रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र दिव्यम् उभयोर् अपि च स्मृतम् ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥
समुद्रे नाप्नुयात् किंचिद् यदि तस्मान् न संहरेत् ॥
अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।
एष एवोदितो धर्मस् तथा च शरणागते ॥
यस् तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः ।
तद् ऊर्ध्व स्थापयञ् शिल्पी दाप्यो दैवहतो ऽपि तत् ॥
याचितं स्वाम्यनुज्ञातं प्रददन् नापराध्नुयात् ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0