बृहज्जातक · अध्याय 27
कट्यां.सित.वस्त्र.वेष्टितः.कृष्णः.शक्त.इव.अभिरक्षितुम्।
रौद्रः.परशुं.समुद्यतं.धत्ते.रक्त.विलोचनः.पुमान्॥(वैतालीया)
रक्तम्.अम्बरा.भूषण.भक्ष्य.चिन्ता.कुम्भ.आकृतिर्.वाजि.मुखी.तृष.आर्ता।
एकेन.पादेन.च.मेष.मध्ये.द्रेष्काण.रूपं.यवन.उपदिष्टम्॥(इन्द्रवज्रा)
क्रूरः.कलाज्ञः.कपिलः.क्रिया.अर्थी.भग्न.व्रतो.अभ्युद्य.तद्.अण्ड.हस्तः।
रक्तानि.वस्त्राणि.बिभर्ति.चण्डो.मेषे.तृतीयः.कथितस्.त्रि.भागः॥(इन्द्रवज्रा)
कुञ्चित.लून.कचा.घट.देहा.दग्ध.पटा.तृषित.आशन.चित्ता।
आभरणान्य्.अभिवाञ्छति.नारी.रूपम्.इदं.वृष.भे.प्रथमस्य॥(दोधक)
क्षेत्र.धान्य.गृह.धेनु.कलाज्ञो.लाङ्गले.स.शकटे.कुशलश्.च।
स्कन्धम्.उद्वहति.गो.पति.तुल्यं.क्षुत्.परो.अज.वदनो.मल.वासा॥(स्वागता)
द्विप.सम.कायः.पाण्डुर.दंष्ट्रः.शरभ.सम.अङ्घ्रिः.पिङ्गल.मूर्तिः।
अवि.मृग.लोभ.व्याकुल.चित्तो.वृषभ.वनस्य.प्रान्त.गतो.अयम्॥(दोधक)
सूच्य.आश्रयं.समभिवाञ्छति.कर्म.नारी.रूप.अन्वित.आभरण.कार्य.कृत.आदरा.च।
हीन.प्रजा.उच्छ्रित.भुज.ऋतु.मती.त्रि.भागम्.आद्यं.तृतीय.भवनस्य.वदन्ति.तज्ज्ञाः॥(व.ति)
उद्यान.संस्थः.कवची.धनुष्माञ्.छूरो.अस्त्र.धारी.गरुड.आनानाश्.च।
क्रीडा.आत्मज.अलंकरण.अर्थ.चिन्तां.करोति.मध्ये.मिथुनस्य.राशेः॥(उपजातिका)
भूषितो.वरुणवद्.बहु.रत्नो.बद्ध.तूण.कवचः.स.धनुष्कः।
नृत्त.वादित.कलासु.च.विद्वान्.काव्य.कृन्.मिथुन.राश्य्.अवसाने॥(स्वागता)
पत्र.मूल.फल.भृद्.द्विप.कायः.कानने.मलयगः.शरभ.अङ्घ्रिः।
क्रोड.तुल्य.वदनो.हय.कण्ठः.कर्कटे.प्रथम.रूपम्.उशन्ति॥(स्वागता)
पद्म.अर्चिता.मूर्धनि.भोगि.युक्ता.स्त्री.कर्क.शारण्य.गता.विरौति।
शाखां.पलाशस्य.समाश्रिता.च.मध्ये.स्थिता.कर्कटकस्य.राशेः॥(इन्द्रवज्रा)
भार्या.आभरण.अर्थम्.अर्णवं.नौस्थो.गच्छति.सर्प.वेष्टितः।
हैमैश्.च.युतो.विभूषणैश्.चिपिट.आस्य.अङ्त्य.गतश्.च.कर्कटे॥(वैतालीय)
शाल्मलेर्.उपरि.गृध्र.जम्बुकौ.श्वा.नरश्.च.मलिना.अम्बर.अन्वितः।
रौति.मातृ.पित्र्.विपर्योजितः.सिंह.रूपम्.इदम्.आद्यम्.उच्यते॥(रथोद्धता)
हय.आकृतिः.पाण्डुर.माल्य.शेखरो.बिभर्ति.कृष्ण.अजिन.कम्बलं.नरः।
दुरासदः.सिंह.इव.अत्त.कार्मुको.नत.अग्र.नासो.मृग.राज.मध्यमः॥(वंशस्थ)
ऋक्ष.आननो.वानर.तुल्य.चेष्टो.बिभर्ति.दण्डं.फलम्.आमिषं.च।
कूर्ची.मनुष्यः.कुटिलैश्.च.केशैर्.मृग.ईश्वरस्य.अन्त्य.गतस्.त्रि.भागः॥(उपजातिका)
पुष्प.प्रपूर्णेन.घटेन.कन्या.मल.प्रदिग्ध.अम्बर.संवृत.अङ्गी।
वस्त्र.अर्थ.संयोगम्.अभीष्टमाना.गुरोः.कुलं.वाञ्छति.कन्याक.आद्यः॥(उपजातिका)
पुरुषः.प्रगृहीत.लेखनिः.श्यामो.वस्त्र.शिरा.व्यायय.कृत्।
विपुलं.च.बिभर्ति.कार्मुकं.रोम.व्याप्त.तनुश्.च.मध्यमः॥(वैतालीय)
गौरी.सुधौत.अग्र.दुकूल.गुप्ता.समुच्छ्रिता.कुम्भ.कटच्.छुहस्ता।
देव.आलयं.स्त्री.प्रयता.प्रवृत्ता.वदन्ति.कन्या.अन्त्य.गतस्.त्रि.भागः॥(उपजातिका)
वीथ्य्.अन्तर.अपण.गतः.पुरुषस्.तुलावान्.उन्मान.मान.कुशलः.प्रतिमान.हस्तः।
भ.अण्डं.विचिन्तयति.तस्य.च.मूल्यम्.एतद्.रूपं.वदन्ति.यवनाः.प्रथमं.तुलायाः॥(व.ति)
कलशं.परिगृह्य.विनिष्पतितुं.समभीप्सति.गृध्र.मुखः.पुरुषः।
क्षुधितस्.तृषितश् च.कलत्र.सुतान्.मनसा.इति.तुला.धर.मध्य.गतः॥(त्रोटक)
विभीषयंस्.तिष्ठति.रत्न.चित्रितो.वने.मृगान्.काञ्चन.तूण.वर्म.भृत्।
फल.आमिषं.वानर.रूपभृन्.नरस्.तुला.वसाने.यवनैर्.उदाहृतः॥(वंशस्थ)
वस्त्रैर्.विहीन.आभरणैश्.च.नारी.महा.समुद्रात्.समुपैति.कूलम्।
स्थान.च्युता.सर्प.निबद्ध.पादा.मनोरमा.वृश्चिक.राशि.पूर्वः॥(उपजातिका)
स्थान.सुखान्य्.अभिवाञ्छति.नारी.भ.ऋतु.कृते.भुजग.आवृत.देहा।
कच्छप.कुम्भ.स.मान.शरीरा.वृश्चिक.मध्यम.रूपम्.उशन्ति॥(दोधक)
पृथुल.चिपिट.कूर्म.तुल्य.वक्रः.श्व.मृग.वराह.सृगाल.भीषकारी।
अवति.च.मलयाकर.प्रदेशं.मृग.पतिर्.अन्त्य.गतस्य.वृश्चिकस्य॥(पुष्पिताग्रा)
मनुष्य.वक्रो.अश्व.स.मान.कायो.धनुर्.विगृह्य.आयतम्.आश्रमस्थः।
क्रतु.उपयोज्यानि.तपस्विनश्.च.ररक्ष.आद्यो.धनुषस्.त्रि.भागः॥(इन्द्रवज्रा)
मनोरमा.चम्पक.हेम.वर्णा.भद्र.आसने.तिष्ठति.मध्य.रूपा।
समुद्र.रत्नानि.विघट्टयन्ती.मध्य.त्रि.भागो.धनुषः.प्रदिष्टः॥(उपजातिका)
कूर्ची.नरो.हाटक.चम्पक.आभो.वर.आसने.दण्ड.धरो.निषण्णः।
कौशेयकान्य्.उद्वहते.अजिनं.च.तृतीय.रूपं.नवमस्य.राशेः॥(उपजातिका)
रोम.चितो.मकर.उपम.दंष्ट्रः.सूकरक.आयस.मान.शरीरः।
योक्त्रक.जालक.बन्धन.धारी.रौद्र.मुखो.मकर.प्रथमस्.तु॥(दोधक)
कलास्व्.अभिज्ञा.अब्ज.दल.आयत.अक्षी.श्यामा.विचित्राणि.च.मार्गमाणा।
विभूषण.अलंकृत.लोह.कर्णा.योषा.प्रदिष्टा.मकरस्य.मध्ह्ये॥(उपजातिका)
किन्नर.उपम.तनुः.स.कम्बलस्.तूण.चाप.कवचैः.समन्वितः।
कुम्भम्.उद्वहति.रत्न.चित्रितं.स्कन्धगं.मकर.राशि.पश्चिमः॥रथोद्धता)
स्नेह.मद्य.जल.भोजन.आगम.व्याकुली.कृत.मनाः.स.कम्बलः।
कोश.कार.वसनो.अजिन.अन्वितो.गृध्र.तुल्य.वदनो.घट.आदिगः॥(दोधक)
दग्धे.शकटे.स.शाल्मले.लोहान्य्.आहरते.अङ्गना.वने।
मलिनेन.पटेन.संवृता.भाण्डैर्.मूर्ध्नि.गतैश्.च.मध्यमः॥(वैतालीय)
श्यामः.स.रोम.श्रवणः.किरीटी.त्वक्.पत्र.निर्यास.फलैर्.बिभर्ति।
भाण्डानि.लोह.व्यतिमिश्रितानि.सञ्चारयन्त्य्.अन्त.गतो.घटस्य॥(इन्द्रवज्रा)
स्रुग्.भाण्ड.मुक्तामणि.शङ्ख.मिस्रैर्.व्याक्षिप्त.हस्तः.स.विभूषणश्.च।
भार्या.विभूष.अर्थम्.अपां.निधानं.नावा.प्लवत्य्.आदि.गतो.झषस्य॥(इन्द्रवज्रा)
अत्युच्छ्रित.ध्वज.पताकम्.उपैति.पोतं.कूलं.प्रयाति.जलधेः.परिवार.युक्ता।
वर्णेन.चम्पक.मुखी.प्रमदा.त्रि.भागो.मीनस्य.च.एष.कथितो.मुनिभिर्.द्वितीयः॥(व.ति)
श्वभ्र.अन्तिके.सर्प.निवेष्टित.अङ्गा.वस्त्रैर्.विहीनः.पुरुषस्.त्व्.अटव्याम्।
चौर.अनल.व्याकुलित.अन्तर.आत्मा.विक्रोशते.अन्त्य.उपगतो.झषस्य॥(इन्द्रवज्रा)ए27
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0