भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 28

28.01

राशि.प्रभेदो.ग्रह.योनि.भेदो.वियोनि.जन्म.अथ.निषेक.कालः।
जन्म.अथ.सद्यो.मरणं.तथा.आयुर्.दशा.विपाको.अष्टक.वर्ग.संज्ञः॥(उपजातिका)

28.02

कर्म.आजीवो.राज.योगाः.ख.योगाश्.चान्द्रा.योगाद्.विग्रह.आद्याश्.च.योगाः।
प्रव्रज.अथो.राशि.शीलानि.दृष्टिर्.भावस्.तस्माद्.आश्रयो.अथ.प्रकीर्णः॥(शालिनी)

28.03

न.इष्टा.योगा.जातकं.कामिनीनां.निर्याणं.स्यान्.न.इष्ट.जन्म.दृकाणः।
अध्यायानां.विंशतिः.पञ्च.युक्ता.जन्मन्य्.एतद्.यात्रिकं.च.अभिधास्ये॥(शालिनी)

28.04

प्रश्नास्.तिथिर्.भं.दिवसः.क्षणश्.च.चन्द्रो.विलग्नं.त्व्.अथ.लग्न.भेदः।
शुद्धिर्.ग्रहाणाम्.अथ.चाप.वादो.विमिश्रक.आख्यं.तनु.वेपनं.च॥(उपजातिका)

28.05

अतः.परं.गुह्यक.पूजनं.स्यात्.स्वप्नं.ततः.स्नान.विधिः.प्रदिष्टः।
यज्ञो.ग्रहाणाम्.अथ.निर्गमश्.च.क्रमाच्.च.दिष्टः.शकुन.उपदेशः॥(उपजातिका)

28.06

विवाह.कालः.करणं.ग्रहाणां.प्रोक्तं.पृथक्.तद्.विपुला.अथ.शाखा।
स्कन्धैस्.त्रिभिर्.ज्योतिष.संग्रहो.अयं.मया.कृतो.दैव.विदां.हिताय॥(उपजातिका)

28.07

पृथु.विरचितम्.अन्यैः.शास्त्रम्.एतत्.समस्तं.तद्.अनु.लघु.मया.इदं.तत्.प्रदेश.अर्थम्.एव।
कृतम्.इह.हि.समर्थं.धी.विषाणामत्वे.मम.यदि.ह.यद्.उक्तं.सज्.जनैः.क्षम्यतां.तत्॥(मालिनी)

28.08

ग्रन्थस्य.या.प्रचरतो.अस्य.विनाशम्.एति.केख्व्यात्.बहु.श्रित.मुख.अधिगम.क्रमेण।
यद्.वा.मया.कुकृतम्.अल्पम्.इह.आकृतं.वा.कार्यं.तद्.अत्र.विदुषा.परिहृत्य.रागम्॥(व.ति)

28.09

आदित्य.दास.तनयस्.तद्.अवाप्त.बोधः.कापित्थके.सवितृ.लब्ध.वर.प्रसादः।
आवन्तिको.मुनि.मतान्य्.अवलोक्य.सम्यग्.घोरां.वराहमिहिरो.रुचिरां.चकार.(व.ति)

28.10

दिन.कर.मुनि.गुरु.चरण.प्रणिपात.कृत.प्रसाद.मतिना.इदम्।
शास्त्रम्.उपसंगृहीतं.नमो.अस्तु.पूर्व.प्रनेतृभ्यः॥(आर्या)ए28

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc