बृहज्जातक · अध्याय 26
आधान.जन्म.अपरिबोध.काले.सम्पृच्छतो.जन्म.वदेद्.विलग्नात्।
पूर्व.अपर.अर्धे.भवनस्य.विन्द्याद्.भानाव्.उदग्.दक्षिणगे.प्रसूतिम्॥(इन्द्रवज्रा)
लग्न.त्रि.कोणेषु.गुरुस्.त्रि.भागैर्.विकल्प्य.वर्षाणि.वयो.अनुमानात्।
ग्रीष्मो.अर्क.लग्ने.कथितास्.तु.शेषैर्.अन्यायनर्तावृतुर्.अर्क.चारात्॥(उपजातिका)
चन्र.ज्ञ.जीवाः.परिवर्तनीयाः.शुक्र.आर.मन्दैर्.अयने.विलोमे।
द्रेष्काण.भागे.प्रथमे.तु.पूर्वो.मासो.अनुपाताच्.च.तिथिर्.विकल्प्यः॥(इन्द्रवज्रा)
अत्र.अपि.होरा.पटवो.द्विज.इन्द्राः.सूर्य.अंश.तुल्यां.तिथिम्.उद्दिशन्ति।
रात्रि.द्यु.संज्ञेषु.विलोम.जन्म.भागैश्.च.वेलाः.क्रमशो.विकल्प्याः॥(इन्द्रवज्रा)
के.चिच्.छश.अङ्क.अध्युषितान्.नव.अंशच्.छुक्ला.अन्त.संज्ञं.कथयन्ति.मासम्।
लग्न.त्रि.कोण.उत्तम.वीर्य.युक्तं.सम्प्रोच्यते.अङ्ग.आल.भन.आदिभिर्.वा॥(इन्द्रवज्रा)
यावान्.गतः.शीत.करो.विलग्नाच्.चन्द्राद्.वदेत्.तावति.जन्म.राशिः।
मीन.उदये.मीन.युगं.प्रदिष्टं.भक्ष्य.आहृत.आकार.रुतैश्.च.चिन्त्यम्॥(इन्द्रवज्रा)
होरा.नव.अंश.प्रतिमं.विलग्नं.लग्नाद्.रविर्.यावति.च.दृकाणे।
तस्माद्.वदेत्.तावति.वा.विलग्नं.प्रष्टुः.प्रसूताव्.इति.शास्त्रम्.आह॥(इन्द्रवज्रा)
जन्म.आदिशेल्.लग्नगे.वीर्यगे.वा.छाया.अङ्गुल.घ्नेर्.कहते.अवशिष्टम्।
आसीन.सुप्त.उत्थित.तिष्ठत.आभं.जाया.सुख.आज्ञ.उदयगं.प्रदिष्टम्॥(इन्द्रवज्रा)
गो.सिंहौ.जितुम.अष्टमौ.क्रिय.तुले.कन्या.मृगौ.च.क्रमात्.संवर्ग्यो.दशक.अष्ट.सप्त.विषयैः.शेषाः.स्व.संख्या.गुणाः।
जीव.आर.आस्फुजि.दैन्दवाः.प्रथमवच्.छेषा.ग्रहाः.सौम्यवद्.राशीनं.नियतो.विधिर्.ग्रह.युतैः.कार्या.च.तद्.वर्गणा॥(शा.वि)
सप्त.आहतं.त्रि.घन.भाजित.शेषम्.ऋक्षं.दत्त्वा.अथ.वा.नव.विशोध्य.न.वा.अथ.वा.अस्मात्।
एवं.कलत्र.सहज.आत्मज.शत्रु.भेभ्यः.प्रष्टुर्.वदेद्.उदय.राशि.वशेन.तेषाम्॥(व.ति)
वर्ष.ऋतु.मास.तिथयो.द्यु.निशं.ह्य्.ऊडूनि.वेल.उदये.ऋक्ष.नव.भाग.विकल्पनाः.स्युः।
भूयो.दश.आदि.गुणिताः.स्व.विकल्प.भक्ता.वर्ष.आदयो.नवक.दान.विशोधनाभ्याम्॥(व.ति)
विज्ञेया.दशकेष्व्.अब्दा.ऋतु.मासास्.तथैव.च।
अष्टकेष्व्.अपि.मासाद्.अर्धास्.तिथयश्.च.तथा.स्मृताः॥(अनुष्टुभ्)
दिवा.रात्रि.प्रसूतिं.च.नक्षत्र.आनयनं.तथा।
सप्तकष्व्.अपि.वर्गेषु.नित्यम्.एव.उपलक्षयेत्॥(अनुष्टुभ्)
वेलाम्.अथ.विलग्नं.च.होराम्.अंशकम्.एव.च।
पञ्चकेषु.विजानीयान्.नष्ट.जातक.सिद्धये॥(अनुष्टुभ्)
संस्कार.नाम.मात्रा.द्वि.गुणा.छाया.अङ्गुलैः.समायुक्ताः।
शेषं.त्रि.नवक.भक्तान्.नक्षत्रं.तद्.धनिष्ट्ःआ.आदि॥(आर्या)
द्वि.त्रि.चतुर्.दश.दश.तिथि.सप्त.त्रि.गुणा.नव.अष्ट.च.इन्द्र.आद्याः।
पञ्च.दशघ्नास्.तद्.दिङ्.मुख.अन्विता.भ.धनिष्ठा.आदि॥(आर्या)
इति.नष्ट.जातकम्.इदं.बहु.प्रकारं.मया.विनिर्दिष्टम्।
ग्राह्यम्.अतः.सच्.छिष्यैः.परीक्ष्य.यन्ताद्.यथा.भवति॥(आर्या)ए26
मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0