भाषा

ENहिગુ
ग्रंथ पाठ

बृहद्यमस्मृति · अध्याय 4

4.1

खातं वापी तथा कूप पाषाणे शस्त्रघातिते ।
यष्ट्या तु घातिते चैव मृत्पिण्डान्येव साधयेत् ॥

4.2

गोवधे चैव यत् पापं बलीवर्दस्य चैव हि ।
प्रायश्चित्तं भवेत् तत्र स्त्रिया वा पुरुषस्य वा ॥

4.3

खाते च पतिता या गौः कूपे वा चावटे ऽपि वा ।
आ शै वालकु ण्डे वा ऽपि शस्त्रघातेन चैव हि ॥

4.4

यष्ट्या तु पतिता या गौर् बलीवर्दो मृतो ऽपि वा ।
वत्सो वत्सतरो वा ऽपि प्रायश्चित्ती भवेन् नरः ॥

4.5

नारी वा ऽपि कुमारो वा प्रायश्चित्ताद् विशुध्यति ।
पापी प्रख्यापयेत् पापं दत्त्वा धेनुं तथा वृषम् ॥

4.6

प्रच्छन्नपापिनो ये स्युः कृतघ्ना दुष्टचारिणः ।
नरकेषु च पच्यन्ते यावद् आभूतसंप्लवम् ॥

4.7

तस्माच् च पापिना ग्राह्यं प्रायश्चित्तं यथा तथा ।
प्रमादाच् च हता येन कपिला वा तथेतरा ॥

4.8

यथा ब्रह्मवधे पापं कपिलाया वधे तथा ।
बलीवर्दे ऽपि च तथा प्रायश्चित्तं समं स्मृतम् ॥

4.9

रोधने बन्धने चैव मृत्पिण्डनवगोमये ।
उत्कृष्टेनापि गोहन्ता प्रायश्चित्तेन शुध्यति ॥

4.10

मुष्ट्या वा निहता या गौः शकटे वा रिपङ्कयोः ।
गोवर्तपतिता गावः श्वनद्याम् उत्तरे ऽपि वा ॥

4.11

एतत् ते कथितं सर्वं गवां वि घातम् उत्तमम् ।
यत्र यत्र म्रियेद् गौश् च प्रायश्चित्तं पृथक् पृथक् ॥

4.12

वने च पतिता या गौः पामरत्रा स शङ्क्तिता ।
मृता चैव यदा सा गौः प्रायश्चित्ती भवेच् च सः ॥

4.13

प्रेषितः पुरुषो वा ऽपि प्रायश्चित्तं च यत् स्मृतम् ।
आब्दिकं चैव शूद्रस्य वैश्यस्य द्विगुणं भवेत् ॥

4.14

त्रिगुणं क्षत्त्रियस्यैव विप्रस्यैव चतुर्गुणम् ।
गोष्ठे निवसनं कार्यं गोघ्नो ऽहम् इति वाचयेत् ॥

4.15

कष्टेन वर्तमानो ऽपि कालेनैव शुचिर् भवेत् ।
गवां मध्ये वसेद् रात्रौ दिवा गा वै ह्य् अनुव्रजेत् ॥

4.16

न स्त्रीणां वपनं कुर्यान् न च गोव्रजनं स्मृतम् ।
न च गोष्ठे वसेद् रात्रौ न कुर्याद् वैदिकीं श्रुतिम् ॥

4.17

सर्वान् केशान् समुच्छ्रित्य च्छेदयेद् अङ्गुलद्वयम् ।
एवम् एव तु नारीणां शिरोमुण्डापनं स्मृतम् ॥

4.18

सूतके मृतके चैव विधिं प्रब्रूहि नो यम ।
जातके वर्तमाने ऽपि मृतकं च यदा भवेत् ॥

4.19

को विधिः स विनिर्दिष्टः कथयस्व यथा तथम् ।
एवम् उक्तो हि भगवान् यमः प्राह यथा तथम् ॥

4.20

जातके नैव मृतकं क्षयं याति न संशयः ।
पूर्वव्रतम् अनिर्दिष्टं मया च सूतकं भवेत् ॥

4.21

सूतकेन न लिप्येत इति प्राह स्वयं यमः ।
सूतकेन न लिप्येत व्रतं संपूर्णतां व्रजेत् ॥

4.22

श्राद्धं दानं तपो यज्ञो देवताराधनं तथा ।
ब्रह्महा च सुरापश् च स्वर्णस्तेयी गुरुद्रुहः ॥

4.23

संसर्गी पञ्चमो ज्ञेयस् तत्समो नात्र संशयः ।
एतेषु द्वादशाब्दं च प्रायश्चित्तं विधीयते ॥

4.24

तथा पातकिनां चैव षडब्दं चैव संस्मृतम् ।
उपपातकिनां चैव त्रिपञ्चाब्दं विधीयते ॥

4.25

प्राजापत्यैस् त्रिभिः कृच्छ्रं कृच्छ्रं वै द्वादशाब्दिकम् ।
एकभक्तं तथा नक्तम् उपवासम् अथापि वा ॥

4.26

एतद् दिनचतुष्केण पादकृच्छ्रश् च जायते ।
त्रिपादकृच्छ्रो विज्ञेयः पापक्शयकरः स्मृतः ॥

4.27

धर्मशास्त्रानुसारेण प्रायश्चित्तं मनीषिभिः ।
दातव्यं पापमुक्त्यर्थं प्राणिनां पापकारिणाम् ॥

4.28

अनुता पो य दा पुं सो भवेद् वै पापिनः किल ।
प्रायश्चित्तं तदा देयम् इत्य् आह भगवान् यमः ॥

4.29

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत् पूतस् तत् पापं पर्षदं व्रजेत् ॥

4.30

तस्माच् छास्त्रानुसारेण प्रायश्चित्तं विधीयते ।
अष्टशाल्यां मृता ये च ये च स्त्रीसूतके मृताः ॥

4.31

द्रंष्ट्राभिर् भक्षिता ये च ये च आत्महनो जनाः ।
अष्टशाल्यां मृतो विप्रः प्रायश्चित्तं तु बन्धुभिः ॥

4.32

कार्यं तु आब्दिकं चैव तथा स्त्रीणां च दापयेत् ।
शुद्ध्यर्थं नान्यथा भाव्यम् इत्य् आह भगवान् यमः ॥

4.33

दुर्मृत्युमरणं प्राप्ता ये ऽप्य् अधोगतिम् आगताः ।
तेषां शुद्ध्यर्थम् एवात्र द्वित्र्यब्दं हि विशिष्यते ॥

4.34

ब्राह्मणक्षत्त्रियविशां शूद्रानां चान्त्यजातिनाम् ।
तारतम् येन दातव्यम् इति प्राह स्वयं यमः ॥

4.35

पतितानां च विप्राणां तथा स्त्रीणां विगर्हितम् ।
कथं शुद्धिर् भवेत् तासां तेषां चैव विशेषतः ॥

4.36

व्यभिचाराद् ऋतौ शुद्धिः स्त्रीणां चैव न संशयः ।
गर्भे जाते परित्यागो नान्यथा मम भाषितम् ॥

4.37

दुष्टस्त्रीदर्शनेनैव पितरो यान्त्य् अधोगतिम् ।
घृतं योन्यां क्षिपेद् घोरं परपुंसगता हि या ॥

4.38

हवनं च प्रयत्नेन गायत्र्या चायुतत्रयम् ।
ब्राह्मणान् भोजयेत् पश्चाच् छतम् अष्टोत्तरेण हि ॥

4.39

विधवा चैव या नारी पुंसोपगतसेविनी ।
त्याज्या सा बन्धुभिश् चैव नान्यथा यमभाषितम् ॥

4.40

पतितस्य च विप्रस्य अनुतापरतस्य च ।
पापाच् चैव निवृत्तस्य प्रायश्चित्ती भवेत् तदा ॥

4.41

तारतम् येन दातव्यं प्रायश्चित्तं यथा विधि ।
सकामो हि यदा विप्रः पापाचारपरो भवेत् ॥

4.42

दिष्ट्या निवृत्तपापौघः प्रायश्चित्ती तदार्हति ।
तथा क्षत्त्रियवैश्यौ वा शूद्रो वा ऽपि यथा क्रमात् ॥

4.43

विधव् आगमने पापं सकृच् चैव तु यद् भवेत् ।
असकृच् च यदा ज्ञात्वा प्रायश्चित्तं प्रवर्तते ॥

4.44

असकृद् गमनाच् चैव चरेच् चान्द्रायणद्वयम् ।
सकृद् गमने यत् पापं प्राजापत्यद्वयेन हि ॥

4.45

पुनर्भूर् विकृता येन कृता विप्रेण चैव हि ।
विना शाखाप्रभेदेन पुनर्भूर् भण्यते हि सा ॥

4.46

सवर्णश् च सवर्णायाम् अभिषिक्तो यदा भवेत् ।
ब्राह्मणः कामलुब्धो ऽपि श्राद्धे यज्ञे च गर्हितः ॥

4.47

क्षत्त्रियो ब्राह्मणीसक्तः क्षत्त्रिण्यां विश एव वा ।
वैश्याया गमने शूद्रः पतिताया भवान् यथा ॥

4.48

प्रातिलोम्ये महत्पापं प्रवदन्ति मनीषिणः ।
प्रायश्चित्तं चा ऽऽनुलोम्ये न भवत्य् एव चान्यथा ॥

4.49

मानसं वाचिकं चैव कायिकं पातकं स्मृतम् ।
तस्मात् पापाद् विशुद्ध्यर्थं प्रायश्चित्तं दिने दिने ॥

4.50

प्रातह् संध्यां सनक्षत्राम् उपा सीतै व यत्नतः ।
मध्याह्ने च तथा रौद्रीं सायं चैव तु वैष्णवीम् ॥

4.51

त्रिविधं पापशुद्ध्यर्थं संध्योपासनम् एव च ।
संध्याहीनो हि यो विप्रः स्नानहीनस् तथैव च ॥

4.52

स्नानहीनो मलाशी स्यात् संध्याहीनो हि भ्रूणहा ।
नश्येत् पापं हि यां ध्या तुर् उपासनपरो हि सः ॥

4.53

ब्रह्मलोकं व्रजत्य् एव नान्यथा यमभाषितम् ।
विद्यात् अपोभ्यां संयुक्तः शान्तः शुचिर् अलम्पटः ॥

4.54

अलुभ्दाह्लादनिष्पापा भूदेवा नात्र संशयः ।
पात्रीभूताश् च विज्ञेया विप्रास् ते नात्र संशयः ॥

4.55

तेभ्यो दत्तम् अनन्तं हि इत्य् आह भगवान् यमः ।
कुकर्मस्थास् तु ये विप्रा लोलुपा वेदवर्जिताः ॥

4.56

संध्याहीना व्रतभ्रष्टाः पिशुना विषयात्मकाः ।
तेभ्यो दत्तं निष्फलं स्यान् नात्र कार्याविचारणा ॥

4.57

प्रतिग्रहे संकुचिता यदान्यातैयविधृता ।
भूमिदर्शनात् पापमोचका कृतत्रेताद्वापरे कलौ नौवर्वीरोषितः ॥

4.58

राजप्रतिग्रहात् सर्वं ब्रह्मवर्चसम् एव च ।
नश्यतीति न संदेह इत्य् आह भगवान् यमः ॥

4.59

राज्ञां प्रतिग्रहस् त्याज्यो लोकत्रयजिगीषुभिः ।
राज्ञः प्रतिग्रहाच् चैव ब्राह्मण्यं हि विलुप्यते ॥

4.60

गावो दूरप्रचारेण हिरण्यं लोभलिप्सया ।
स्त्री विनश्यति गर् भे ण ब्राह्मणो राजसेवया ॥

4.61

सेवकाश् चापि विप्राणां राज्ञां सुकृतनामभिः ।
कुम्भीपाकेषु पच्यन्ते यावद् आभूतसंप्लवम् ॥

4.62

असेव्यासेविनो विप्रा अयाज्यानां च याजकाः ।
अपाङ्क्तास् ते च विज्ञेयाः सर्वधर्मबहिष्कताः ॥

मूल पाठ: Bṛhadyamasmṛti (Yamasmṛti, 182-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc