बृहद्यमस्मृति · अध्याय 5
अतः परं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ।
सर्वेषाम् अन्त्यजातीनां वर्णादीनां यथा क्रमम् ॥
स्त्रीसंपर्कादिकं सर्वं जातम् अन्त्यजसंज्ञकम् ।
योनिसंकरजं सर्वं वर्णतश् चापि सर्वशः ॥
विप्रक्षत्त्रियविट्शूद्रा वर्णिजात्येष्व् अनुक्रमात् ।
एते ब्राह्मणकुत्साः स्युस् तस्माद् ब्राह्म ण्य म् उत्तमम् ॥
वेदाचाररतो विप्रो वेदवेदाङ्गपारगः ।
तैर् अप्य् अनुष्ठितो धर्म उक्तश् चैव विशेषतः ॥
कार्ये चैव विशेषेण त्रिभिर् वर्नैर् अतन्द्रितः ।
बलाद् दासी कृता ये च म्लेच्छचाण्डालदस्युभिः ॥
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ।
प्रायश्चित्तं च दातव्यं तारतम् येन वा द्विजैः ॥
श्राद्धकाले यदा जाता पत्नी यस्य रजस्वला ।
प्रसूता वा न कार्य च दैविकं पैतृकं तथा ॥
ब्राह्मणा मन्त्रिताश् चैव क्षणिता वा प्रयत्नतः ।
उद्दिश्य पितृपाकं च कार्यं पैतृकम् एव तत् ॥
आशौचं न भवत्य् एव नात्र कार्या विचारणा ।
प्रस्थाने वा पिता तस्य पञ्चत्वं च गतो भवेत् ॥
श्राद्धादिकाम् तु पुत्रेण अज्ञातेन कृतं यदा ।
कन्या प्रदानसमये श्रु तवान् पितरं मृतम् ॥
कन्यादानं च तत् कार्यं वचनाद् भव ति क्षमः ।
पितुः पात्रादिकं कर्म पश्चात् सर्वं यथा विधि ॥
अज्ञानाच् च कृतं सर्वं दैविकं पैतृकं च यत् ।
जातके मृ तके वा ऽपि तत् सर्वं सफलं भवेत् ॥
अनेके यस्य ये पुत्राः संसृष्टा हि भवन्ति च ।
ज्येष्ठेन हि कृतं सर्वं सफलं पैतृकं भवेत् ॥
वैदिकं च तथा सर्वं भवत्य् एव न संशयः ।
पृथक् पिण्डं पृथक् श्राद्धं वैश्वदेवादिकं च यत् ॥
भ्रातरश् च पृथक् कुर्युर् नाविभक्ताः कदाचन ।
अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः ॥
सफलं जायते सर्वाम् इति शातातपो ऽब्रवीत् ।
न च दत्तो ऽप्यहीनो ऽति स्नेहेन च तथा ऽपरः ॥
बलाद् गृहीतो बद्धश् च बन्धुभिर् दत्त एव च ।
भ्रातुः पुत्रो मित्रपुत्रः शिष्यश् चैव तथौरसः ॥
अपुत्रस्य च विज्ञेया दायादा नात्र संशयः ।
नवैते पुत्रवत्पाल्याः परलोकप्रदा ह्य् अमी ॥
औरसेन समा ज्ञेया वचसोद्दालकस्य च ।
इदानीं भागनिर्णयम् ऋषिः शातातपो ऽब्रवीत् ॥
ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः ।
समभागप्रदाता च अपुत्रेभ्यो न संशयः ॥
समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि ।
पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथा क्रमात् ॥
अधिकस्य च भागौ द्वौ इतरेभ्यः समासतः ।
आधौ प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा ॥
सर्वेस्व् एव विवादेषु बलवत्य् उत्तरा क्रिया ।
समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा ॥
पूर्वं न्यासविधिश् चैव उत्तरः स्याच् चतुर्विधः ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ।
असाक्षिव्यवहारेषु दिव्यं देयं यथा विधि ॥
मूल पाठ: Bṛhadyamasmṛti (Yamasmṛti, 182-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0