भाषा

ENहिગુ
ग्रंथ पाठ

बृहद्यमस्मृति · अध्याय 3

3.1

ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
प्रायश्चित्तं चरेद् भ्रात पिता वा ऽन्यो ऽपि बान्धवः ॥

3.2

अतो बालतरस्यापि नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥

3.3

अशीत्यधिकवर्षाणि बालो वा ऽप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो व्याधित एव च ॥

3.4

पितृव्यभ्रातृभार्यां च भगिनीं मातुर् एव च ।
श्वश्रूं पितृष्वसारं च तप्तकृच्छ्रं समाचरेत् ॥

3.5

राज्ञीम् आचार्यशिष्यां वा उपाध्यायस्य योषितः ।
एता गत्वा स्त्रियो मोहात् षण्मासं कृच्छ्रम् आचरेत् ॥

3.6

द्वौ मासौ भक्ष्य भोज्यं च द्वौ मासौ यावकेन तु ।
द्वौ मासौ पञ्चगव्येन षण्मासं कृच्छ्रम् आचरेत् ॥

3.7

मातरं गुरुपत्नीं च स्वसारं दुहितां तथा ।
गत्वा तु प्रविशेद् अग्निं नान्या शुद्धिर् विधीयते ॥

3.8

अस्तं गते यदा सूर्ये चाण्डालम् ऋतुमत्स्त्रियः ।
संस्पृशेत् तु यदा कश्चित् प्रायश्चित्तं कथं भवेत् ॥

3.9

जातरूप्यं सुवर्णं तु दिवा ऽऽहृतं च यज् जलं ।
तेन स्नात्वा च पीत्वा च गाम् आलभ्य विशुध्यति ॥

3.10

दासनापितगोपाल कुलमित्रार्धसीरिणः ।
एते शूद्रास् तु भोज्यान्ना यश् चा ऽऽत्मानं निवेदयेत् ॥

3.11

असच् छूद्रेषु अन्नाद्यं ये भुञ्जन्त्य् अबुधा द्विजाः ।
प्रायश्चित्तं तथा प्राप्तं चरेच् चान्द्रायणव्रतम् ॥

3.12

यः करोत्य् एकरात्रेण वृषलीसेवनं द्विजः ।
तद्भक्षणे जपेन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥

3.13

वृषलीं यस् तु गृह्णाति ब्राह्मणो मदमोहितः ।
सदा सूतकिता तस्य ब्रह्महत्या दिने दिने ॥

3.14

वृषलीगमनं चैव मासम् एकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं पुनः श्वानो भविष्यति ॥

3.15

वृषलीफेनपीतस्य निःश्वासोपगतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥

3.16

अग्रे माहिषकं दृष्ट्वा मध्ये च वृषलीपतिम् ।
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥

3.17

महिषीत्य् उच्यते भार्या सा चैव व्यभिचारिणी ।
तान् दोषान् क्षमते यस् तु स वै माहिषकः स्मृतः ॥

3.18

पितुर् गेहे तु या कन्या पश्यत्य् असंस्कृता रजः ।
भ्रूणहत्या पितुस् तस्याः कन्या सा वृषली स्मृता ॥

3.19

यस् तां विवाहयेत् कन्यां ब्राह्मणो मदमोहितः ।
असंभष्यो ह्य् अपाङ्क्तेयः स विप्रो वृषलीपतिः ॥

3.20

प्राप्ते द्वादशमे वर्षे कन्यां यो न प्रयच्छति ।
मासि मासि रजस् तस्याः पिता पिबति शोणितम् ॥

3.21

अष्टवर्षा भवेद् गौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला ॥

3.22

माता चैव पिता चैव ज्येष्ठभ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥

3.23

समर्घं धनम् उत्सृज्य म हा र्घं यः प्रयच्छति ।
स वै वार्धुषिको ज्ञेयो ब्रह्मवादिषु गर्हितः ॥

3.24

शुक्रक्षयकरा वन्ध्या त्याज्यैति परिकीर्तिता ।
तस्यास् तु यो भवेद् भर्ता तं तु विद्याद् अजाविकम् ॥

3.25

दूराच् छ्रान्तं भयग्रस्तं ब्राह्मणं गृहम् आगतम् ।
अनर्चयित्वा यो भुङ्क्ते तत् क्षणे ऽसौ विधीयते ॥

3.26

अजाविको माहिषश् च तथा च वृषलीपतिः ।
तृणाग्रेणापि संस्पृष्ट्वा सवासा जलम् आविशेत् ॥

3.27

यावद् उष्णं भवेद् अन्नं यावद् भुञ्जन्ति वाग्यताः ।
पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥

3.28

हविर्गुणा न वक्तव्याः पितरो यान्त्य् अतर्पिताः ।
पितृभिस् तर्पितैः पश्चाद् वक्तव्यं शोभनं हविः ॥

3.29

यावतो ग्रसते ग्रासान् हव्यकव्येष्व् अमन्त्रितः ।
तावतो ग्रसते प्रेत्य दीप्तान् ग्रासान् अयोमयान् ॥

3.30

आसनेश्व् आसनं दद्यान् न तु हस्ते कदाचन ।
हस्तेश्व् आसनदाने च निराशाः पितरो गताः ॥

3.31

आसने पादम् आरूढो वस्त्रस्यार्धम् अधः कृतम् ।
मुखेन धमितं भुङ्क्ते द्विजश् चान्द्रायणं चरेत् ॥

3.32

अङ्गुल्यां यः पवित्राणि कृत्वा गन्धान् सम र्प येत् ।
पितॄणां नोपतिष्ठेत राक्षसैर् विप्रलुप्यति ॥

3.33

हसन्ग्रासं च यो भुङ्क्ते सशब्दं सेङ्गितं तथा ।
लेहितं वर्तितं चैव षड् एते पङ्क्तिदूषकाः ॥

3.34

श्वित्री कुष्ट्ःई तथा शूली कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः पिशुनो मत्सरी तथा ॥

3.35

दुर्भगो हि तथा षण्ढः पाखण्डी वेदनिन्दकः ।
हैतुकः शूद्रयाजी च अयाज्यानां च याजकः ॥

3.36

नित्यं प्रतिग्रहे लुब्धो याचको विषयात्मकः ।
श्यावदन्तो ऽथ वैद्यश् च असदालापकस् तथा ॥

3.37

एते श्राद्धे च दाने च वर्जनीयाः प्रयत्नतः ।
तथा देवलकश् चैव भृतको वेदविक्रयी ॥

3.38

एते वर्ज्याः प्रयत्नेन एवम् एव यमो ऽब्रवीत् ।
निराशाः पितरस् तस्य भवन्ति ऋणभागिनः ॥

3.39

अथ चेन् म न्त्र विद्युक्तो वैष्णवो ज्ञानवान् हि सः ।
हव्यकव्ये नियोक्तव्य इति प्राह स्वयं यमः ॥

3.40

तस्मात् सर्वप्रयत्नेन श्राद्धे यज्ञे च कर्मणि ।
अदूष्यं चैव विप्रेन्द्रं योज येत्तु प्रयत्नतः ॥

3.41

तथैव मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषनैः ।
वर्जितं च यमः प्राह पङ्क्तिपावन एव सः ॥

3.42

निर्मत्सरः सदाचारः श्रोत्रियो ब्रह्मविद्युवा ।
विद्याविनयसंपन्नः पात्रभूतो द्विजोत्तमः ॥

3.43

वेदान्तविज्ज्येष्ठसामा अलुब्धो वेद तत् परः ।
योजनीयः प्रयत्नेन दैवे पित्र्ये च कर्मणि ।
यद् अत्तं च हुतं तस्मै ह्य् अनन्तं नात्र संशयः ॥

3.44

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ।
उपोष्य रजनीम् एकां पञ्चगव्येन शुध्यति ॥

3.45

उच्छिष्टभाजनं येन विप्रेण चान्नवर्जितम् ।
स्पृष्टं तेन प्रमादाच् च प्राजापत्यं समाचरेत् ॥

3.46

उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन हि ।
दशरुद्रीं जपेत् पश्चाद् गायत्र्या शोधनं परम् ॥

3.47

उच्छिष्टोच्छिष्टसंस्पृष्टः क्षत्त्रियो वैश्य एव च ।
प्रमादोच्छिष्टसंस्पृष्टः शूद्रेण तु यदा द्विजः ॥

3.48

उपोष्य रजनीम् एकां पञ्चगव्येन शुध्यति ।
श्वानकुक्कुटमार्जाराः काको वा स्पृशते यदि ॥

3.49

उच्छिष्टं तं द्विजं यस् तु अहोरात्रेण शुध्यति ।
पञ्चगव्येन शुद्धिः स्याद् इत्य् आह भगवान् यमः ॥

3.50

रजस्वलां स्पृशेद् यस् तु त्रिरात्रं तत्र कारयेत् ।
उपोष्य द्विजसंस्कारं पञ्चगव्येन शुध्यति ॥

3.51

उदक्या दृष्टिपातेन श्रुतशब्देन चैव हि ।
स्नानं देवार्चनं दानं हवनं च प्रणश्यति ॥

3.52

रक्तवस्त्रस्य विक्रेता लाक्षारजकमेव च ।
वेणुजीवनकैवर्त तक्षचर्मोपजीविनः ॥

3.53

एतेषां स्पर्शनात् पापं तथा चैव तु मोहितः ।
प्रतिग्रहाच् च विप्रो वै नरकं प्रतिगच्छति ॥

3.54

उदक्याः स्पर्शने चैव ब्राह्मणो वै प्रमादतः ।
षड्रात्रोपोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥

3.55

सूतके वर्तमाने ऽपि दासवर्गस्य का क्रिया ।
स्वामितुल्यं भवेत् तस्य सूतकं तु प्रशस्यते ॥

3.56

यन् न कारयते तत् तन् नान्यं प्रत्यब्रवीद् यमः ।
विवाहोत्सवयज्ञेषु कार्ये चैवम् उपस्थिते ॥

3.57

रजः पश्यति या नारी तस्य कालस्य का क्रिया ।
विपुले च जले स्नात्वा शुक्लवासास् त्व् अलङ्कृता ॥

3.58

आपो हिष्ट्ःएत्य् ऋगभिषिक्ता ऽऽयं गौरिति वा ऋ चा ।
पूजान्ते होमयेत् पश्चाद् घृताहुत्या शताष्टकं ॥

3.59

गायत्र्या व्याहृतिभिश् च ततः कर्म समाचरेत् ।
यावद् द्विजा न चार्च्यन्ते अन्नदानहिरण्यकैः ॥

3.60

तावच्चीर्णव्रतस्यापि तत् पापं न प्रणश्यति ॥

3.61

यद् देहकं काकबलाकचिल्लाम् एध्येन लिप्तं तु भवेत् कदाचित् ।
श्रोत्रे मुखे वा परिमस्तके वा स्ना नेन लेपोपहतस्य शुद्धिः ॥

3.62

अभक्ष्याणाम् अपेयानाम् अलेह्यानां च भक्षणे ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥

3.63

पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः ।
एतेषाम् उदकं पीत्वा पञ्चगव्येन शुध्यति ॥

3.64

स्त्रीणां रजस्वलानां च स्पर्शश् चैव भवेद् यदि ।
चतुर्णाम् अपि वर्णनां प्रायश्चित्तं कथं भवेत् ॥

3.65

स्पृष्ट्वा रजस्वला ऽन्योन्यं सगोत्रा चान्यगोत्रका ।
कामाद् अकामतो वा ऽपि त्रिरात्राच् चुद्धिर् इष्यते ॥

3.66

स्पृष्ट्वा रजस्वला ऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा ।
अर्धकृच्छ्रं चरेत् पूर्वा पादकृच्छ्रं तथोत्तरा ॥

3.67

स्पृष्ट्वा रजस्वला ऽन्योन्यं ब्राह्मणी वैश्यिनी तथा ।
पादहीनं चरेत् पूर्वा पादम् एकं तथोत्तरा ॥

3.68

स्पृष्ट्वा रजस्वला ऽन्योन्यं ब्राह्मणी शूद्रिणी तथा ।
कृच्छ्रेण शुध्यते शूद्री ब्राह्मी दानेन शुध्यति ॥

3.69

विप्रः स्पृष्टो निशायां तू दक्यया पतितेन वा ।
दिवा ऽऽनीतेन तोयेन स्नापयेद् अग्निसंनिधौ ॥

3.70

दिवा चैवार्कसंस्पृष्टं रात्रौ नक्षत्रदर्शनात् ।
संध्ययोर् उभयोर् वा ऽपि पवित्रं सर्वदा जलम् ॥

मूल पाठ: Bṛhadyamasmṛti (Yamasmṛti, 182-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc