बृहद्यमस्मृति · अध्याय 2
न टीं शैलूषिकां चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥
कापालिकान्नभोक्तॄणां तनयागामिनां तथा ।
अज्ञानात् कृच्छ्रम् उद्दिष्टं ज्ञात्वा चैव व्रतद्वयम् ॥
सुरायाः संप्रपानेन गोमांसभक्षणे कृते ।
तप्तकृच्छ्रं चरेद् विप्रो मौञ्जीहोमेन शुध्यति ॥
गोक्षत्त्रियं तथा वैश्यं शूद्रं चाप्य् अनुलोमजम् ।
ज्ञात्वा विशेषेण ततश् चरेच् चान्द्रायणं व्रतम् ॥
कुक्कुटाण्डकमात्रं तु ग्रासं च परिकल्पयेत् ।
अन्यथाभावदोषेण नवमे ऽति च शुध्यह्नि ॥
एकैकं वर्धयेद् ग्रासं शुक्ले कृष्णे च ह्रासयेत् ।
अमायां तु न भुञ्जीत एष चान्द्रायणो विधिः ॥
प्रायश्चित्तम् उपक्रम्य कर्ता यदि विपद्यते ।
पूतस् तद् अहरेद् वापि इह लोके परत्र च ॥
यावद् एकः पृथग् भाव्यः प्रायश्चित्तं न सेवते ।
अप्रशस्ता न ते स्पृश्यास् ते सर्वे ऽपि विगर्हिताः ॥
अभोज्याश् चाप्रतिग्राह्या असंपङ्क्त्याविवाहिकाः ।
पूयन्ते तु व्रते चीर्णे सर्वे ते रिक्थभागिनः ॥
मूल पाठ: Bṛhadyamasmṛti (Yamasmṛti, 182-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0