भाषा

ENहिગુ
ग्रंथ पाठ

बृहद्यमस्मृति · अध्याय 1

1.1

अथातो यमधर्मस्य प्रायश्चित्तं व्याख्यास्यामः ।
चतुर्णाम् अपि वर्णानां प्रायश्चित्तं प्रकल्पयेत् ॥

1.2

ब्राह्मणस् तु शुना दष्टो जम्बूकेन वृकेण वा ।
उदिते ग्रहनक्षत्रे दृष्ट्वा सद्यः शुचिर् भवेत् ॥

1.3

जलाग्निबन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपन्नगात्राश् च शस्त्राघातहताश् च ये ॥

1.4

नवैते प्रत्यवसिताः सर्वधर्मबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन च ॥

1.5

उभयावसिताः पापा ये शामशबलाच्युताः ।
इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥

1.6

गोब्राह्मणहतं दग्धं मृतम् उद्बन्धनेन तु ।
पाशं छित्त्वा ततस् तस्य तप्तकृच्छ्रद्वयं चरेत् ॥

1.7

कृमिभिर् ब्रह्मसंयुक्तं मक्षिकैश् चोपघातितम् ।
कृच्छ्रार्धं संप्रकुर्वीत शक्त्या दद्यात् तु दक्षिणाम् ॥

1.8

चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगतं जलम् ।
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ॥

1.9

चाण्डालघटभाण्डस्थं यस् तोयं पिबति द्विजः ।
तत्क्षनात् क्षिपते यस् तु प्राजापत्येन शुध्यति ॥

1.10

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनादिकम् ॥

1.11

चरेत् सांतपनं विप्रः प्राजापत्यं तु क्षत्त्रियः ।
तदर्धं तु चरेद् वैश्यः पादं शूद्रस्य दापयेत् ॥

1.12

चाण्डालान्नं भक्षयित्वा तद्वत् सलिलम् एव च ।
मासं कृच्छ्रं चरेद् विप्रश् चान्द्रायणम् अथापि वा ॥

1.13

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् ॥

1.14

चाण्डालमूर्तिका ये च ये च संकीर्णयोनयः ।
तेषां दत्त्वा च भुक्त्वा च तप्तकृच्छ्रं समाचरेत् ॥

1.15

चाण्डालिकासु नारीषु द्विजो मैथुनकारकः ।
कृत्वा ऽघमर्षणं पक्षं शुध्यते च पयोव्रतात् ॥

मूल पाठ: Bṛhadyamasmṛti (Yamasmṛti, 182-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc