भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.49

4.49.1

॥ श्रीकृष्ण उवाच ॥
सूर्यः प्रणम्य ब्रह्माणं मुदायुक्तस्तदाज्ञया ॥
चकार विनयं प्रीत्या तेजस्वी त्रिगुणात्मकः

4.49.2

अथ वह्नेरुपाख्यानं सावधानं निशामय ॥
गोपनीयं पुराणेषु कर्णपीयूषमुत्तमम्

4.49.3

त्रैलोक्यं भस्मसात्कर्तुमेकदाऽग्निः समुद्यतः॥
शततालप्रमाणान्तां शिखां कृत्वा भयानकीम्

4.49.4

क्षुभितः कुपितश्चैव भृगोः शापस्य कारणात् ॥
स्वं च तेजस्विनं मत्वा तुच्छं मत्वाऽन्यमात्मनः

4.49.5

एतस्मिन्नन्तरे विष्णुराजगामावलीलया॥
वह्नेस्तां दाहिकीं शक्तिं तां जहार पुरः स्थितः

4.49.6

मायया शिशुरूपी च तमुवाच जनार्दनः ॥
सस्मितो विनयं कृत्वा भक्तिनम्रात्मकन्धरः

4.49.7

शिशुरुवाच ॥
कथं रुष्टोऽसि भगवन्भवान्मां कारणं वद ॥
त्रैलोक्यं भस्मसात्कर्तुमुद्यतोऽसि निरर्थकम्

4.49.8

त्वमेव भृगुणा शप्तो भृगोश्च दमनं कुरु ॥
एकापराधात्त्रैलोक्यं भस्मीकर्तुं न चार्हसि

4.49.9

विश्वं च ब्रह्मणा सृष्टं तस्य पाता स्वयं हरिः ॥
संहर्ता भगवान्रुद्र एवमेव क्रमो भवेत्

4.49.4.49.10

तत्कथं भस्मसात्कर्तुमीश्वरे शंकरे स्थिते ॥
रक्षितारं हरिं जित्वा संहारं कुरु सत्वरम्

4.49.11

इत्युक्त्वा ब्राह्मणबटुः शरपत्रं पुरः स्थितम् ॥
अतिशुष्कं करे धृत्वा दग्धं कर्तुं ददौ मुदा

4.49.12

दृष्ट्वा शुष्केन्धनो वह्निर्लेलिहानो भयानकः ॥
स वव्रे शिखया विप्रं मेघेन शशिनं यथा

4.49.13

न च दग्धं शुष्कपत्रं लोमैकं च शिशोस्तथा ॥
दृष्ट्वा व्रीडायुतो वह्निर्निस्तब्धो हि शिशोः पुरः

4.49.14

कृत्वा वह्नेर्दर्पभङ्गमन्तर्धानं चकार सः ॥
वह्निः स्वमूर्तिं संहृत्य स्वस्थानं भीतवद्ययौ

4.49.15

उक्तो वह्नेर्दर्पभङ्गः परं वै श्रोतुमिच्छसि ॥
नित्यनूतनमाख्यानं देवानां दर्पमोचनम्

4.49.16

श्रीराधिकोवाच ॥
शेषाणां दर्पभंगं च क्रमेण कथय प्रभो ॥
कथापीयूषधारांते श्रुत्वा तृप्येत को भुवि

4.49.17

श्रीनारायण उवाच ॥
राधिकावचनं श्रुत्वा सस्मितो भगवान्प्रभुः ॥
कथां कथितुमारेभे श्रुत्वा रम्यां पुरातनीम्

4.49.49

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे अग्निदर्पमोचनं नामैकोनपञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc