भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.30

4.30.1

॥ नारद उवाच ॥ ॥
महामुने रहस्यं च श्रुतं ब्रह्मन्किमद्भुतम् ॥
मृते मुनौ किं चकार श्रीकृष्णो भक्तवत्सलः

4.30.2

श्रीनारायण उवाच ॥
दृष्ट्वा मृतं मुनिं कृष्णः संस्कारं कर्तुमुद्यतः ॥
कृत्वा वक्षसि तद्देहं रुरोदोच्चैर्यथा नरः

4.30.3

बाहुभ्यां च समाश्लिष्य पिपेषोद्रिक्तमोहतः ॥
निर्गतं भस्मनिकरं शवाद्वज्रांगघर्षणात्

4.30.4

रक्तमांसास्थिहीनं तच्छरीरं च महात्मनः ॥
षष्टिवर्षसहस्राणि निराहारः कृतो मुने

4.30.5

दग्धं लोहितमांसास्थि ज्वलता जठराग्निना ॥
बाह्यज्ञानविहीनस्य हरिपादाब्जचेतसः

4.30.6

चितां चन्दनकाष्ठेन निर्माय मधुसूदनः ॥
कृत्वाऽग्निकार्यं तत्रैव स्थापयामास शोकतः

4.30.7

ददौ चितायामग्निं च काष्ठं दत्त्वा शवोपरि ॥
ज्वलितायां चिता यां च मूर्च्छामाप क्षणं विभुः

4.30.8

तद्देहे भस्मसाद्भूते नेदुर्दुन्दुभयो दिवि ॥
बभूव पुष्पवृष्टिश्च तत्क्षणाद्गगनादहो

4.30.9

एतस्मिन्नन्तरे तत्र रत्नसारविनिर्मितम् ॥
स्यन्दनं च मनोयायि वस्त्रमाल्यपरिच्छदम्

4.30.4.30.10

पार्षदप्रवरैर्युक्तं श्रीकृष्णसदृशैर्वरैः ॥
आविर्बभूव गोलोकात्सुन्दरं पुरतो हरेः

4.30.12

अवरुह्य रथात्तूर्णं पार्षदप्रवरा हरेः ॥
सर्वे समानरूपास्ते प्रणम्य राधिकेश्वरौ ११ ॥
धृतवन्तं सूक्ष्मदेहं प्रणमय्य मुनीश्वरम् ॥
रथे कृत्वा तु तं देहं जम्मुर्गोलोकमुत्तमम्

4.30.13

गते मुनीन्द्रे गोलोकं वृन्दावनविनोदिनी ॥
बभूव विस्मिता साध्वी पप्रच्छ जगदीश्वरम्

4.30.14

श्रीराधिकोवाच ॥
कोऽयं नाथ मुनिश्रेष्ठः सर्वावयवव क्रिमः ॥
अतिखर्वजनाकारस्तेजीयानतिकुत्सितः

4.30.15

कथं वा निर्गतं भस्म देहादस्य किमद्भुतम् ॥
साक्षाद्विलीनं यत्तेज स्त्वत्पादाब्जेऽनलोपमम्

4.30.16

रथस्थः पुण्यवान्सद्यो गोलकं च जगाम ह ॥
स्वात्मारामस्य यद्धेतो रोदनं ते बभूव ह

4.30.17

त्वया कृतं च सत्कारमश्रुपूर्णेन चक्षुषा ॥
सर्वं विवरणं तूर्णं संव्यस्य कथय प्रभो

4.30.18

राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः
कथां कथितुमारेभे युगान्तरगतामपि

4.30.19

श्रीकृष्ण उवाच ॥
रहस्यमष्टावक्रीयं विख्यातं सर्वतः प्रिये ॥
पश्चाच्छ्रोष्यसि कालेन प्रसङ्गे विदुषां मुखात्

4.30.4.30.20

अष्टावक्रो मुनीन्द्रोऽपि विख्यातो भुवनत्रये ॥
परिपूर्णं यद्यशसा जन्मना तज्जगत्त्रयम्

4.30.21

कृष्णस्य वचनं श्रुत्वा विमनस्का हरिप्रिया ॥
उवाच मधुरं यत्नाच्छुष्ककण्ठोष्ठतालुका

4.30.22

राधिकोवाच ॥
यत्तृषालोर्मनः पूर्ण न बभूव सुधाम्बुधौ ॥
स वितृप्तो भवति किं गोष्पदोदकपानतः

4.30.23

वेदानां वेदवक्तॄणां विधातुर्जनकस्य च ॥
महाविष्णोरीश्वरस्त्वं कोऽन्यो वक्ताऽस्ति त्वत्परः

4.30.24

राधिकावचनं श्रुत्वा तुष्टः कृष्णो बभूव ह ॥
उवाच गोपनीयं च रहस्यं परमाद्भुतम्

4.30.25

श्रीकृष्ण उवाच ॥
शृणु कान्ते प्रवक्ष्येऽहमितिहासं पुरातनम् ॥
श्रवणात्कथनाद्यस्य सर्वं पापं प्रणश्यति

4.30.26

महाविष्णोर्नाभिपद्माद्बभूव जगतां विधिः ॥
ममांशस्य मत्कलया जलाकीर्णे जगत्त्रये

4.30.27

पुत्रा बभूवुश्चत्वारो ब्रह्मणो मानसात्पुरा ॥
नारायणपराः सर्वे ज्वलन्तो ब्रह्मतेजसा

4.30.28

शिशवः पञ्चवर्षीया नग्ना अज्ञानिनो यथा ॥
बाह्यज्ञानविहीनाश्च ब्रह्मतत्त्वविशारदाः

4.30.29

सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
सनत्कुमारो भगवानेते चत्वार एव च

4.30.4.30.30

तानुवाच जगद्धाता सृष्टिं कुरुत पुत्रकाः ॥
ते न तस्थुः पितुर्वाक्ये प्रययुस्तपसे मम

4.30.31

विधाता विमनस्कश्च तनयेषु गतेषु च ॥
पितुर्दुःखाय प्रभवेत्पुत्रश्चेदवचस्करः

4.30.32

ज्ञानेन निर्ममे पुत्रान्स्वाङ्गेषु च तपोधनान् ॥
वेदवेदाङ्गविज्ञांश्च ज्वलतो ब्रह्मतेजसा

4.30.33

अत्रिः पुलस्त्यः पुलहो मरीचिर्भृगुरङ्गिराः ॥
क्रतुर्वसिष्ठो वोढुश्च कपिलश्चासुरिः कविः

4.30.34

शङ्कुः शङ्खः पञ्चशिखः प्रचेतास्ते तपोधनाः ॥
बहुकालं तपस्तप्त्वा चक्रुः सृष्टिं तदाज्ञया

4.30.39

कलत्रवन्तस्ते सर्वे संसारं कर्तुमु न्मुखाः ॥
बभूवुः पुत्रपौत्राश्च सर्वेषां च तपस्विनाम्

4.30.36

तदस्तु च कथा बह्वी मुनिवंशानुकीर्तनी ॥
चार्वी पुण्यस्वरूपा च प्रकृतं शृणु सुन्दरि

4.30.37

प्रचेतसः सुतः श्रीमानसितो मुनिपुङ्गवः ॥
सकलत्रस्तपस्तेपे दिव्यं वर्षसहस्रकम्

4.30.38

न बभूव सुतस्तस्य प्राणांस्त्यक्तुं समुद्यतः ॥
तं सम्बोद्धुं बभूवाथ सत्या वागशरीरिणी

4.30.39

कथं त्यजसि प्राणांस्त्वं गच्छ शङ्करसन्निधिम् ॥
सिद्धं कुरु गृहीत्वा च मन्त्रं शङ्करवक्त्रतः

4.30.4.30.40

मन्त्राधिष्ठातृदेवीं ते सद्यः साक्षाद्भविष्यति ॥
वरेणाभीष्टदेव्याश्च पुत्रस्ते भविता धुवम्

4.30.41

श्रुत्वैतच्चरितं विप्रो जगाम शिवसन्निधिम् ॥
योगिनामप्यगम्यं च शिवलोकं निरामयम्

4.30.42

सकलत्रो यथा योगी तुष्टाव योगिनां गुरुम् ॥
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः

4.30.43

असित उवाच ॥
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ॥
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः

4.30.44

मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन॥
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते

4.30.45

कालरूपं कलयतां कालकालेश कारण ॥
कालादतीत कालस्य कालकाल नमोऽस्तु ते

4.30.46

गुणातीत गुणाधार गुणबीज गुणात्मक ॥
गुणीश गुणिनां बीज गुणिनां गुरवे नमः

4.30.47

ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ॥
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते

4.30.48

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ॥
दीनवत्साश्रुनेत्रश्च पुलकां चितविग्रहः

4.30.49

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ॥
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः

4.30.4.30.50

स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ॥
भवेदनाढ्यो दुःखी च मूको भवति पण्डितः

4.30.51

अभार्यो लभते भार्यां सुशीलां च पतिव्र ताम् ॥
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम्

4.30.52

इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ॥
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम्

4.30.513

श्रीकृष्ण उवाच ॥
समाकर्ण्य मुनेः स्तोत्रं भगवाञ्छंकरः स्वयम् ॥
उवाच ब्रह्मणः पुत्रं स्वभक्तं भक्तव त्सलः

4.30.54

शंकर उवाच ॥
स्थिरो भव मुनिश्रेष्ठ जानामि तव वाञ्छितम् ॥
पुत्रस्ते भविता सत्यं मदंशेन च मत्समः

4.30.55

दास्यामि मन्त्रमतुलं सर्वेषां च सुदुर्लभम् ॥
इत्युक्त्वा च ददौ मन्त्रं तवैव षोडशाक्षरम्

4.30.56

स्तोत्रं पूजाविधानं च कवचं परमाद्भुतम् ॥
संसारविजयं नाम पुरश्चरणपूर्वकम्

4.30.57

वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च ॥
इत्युक्त्वा विरतो रुद्रः स तं नत्वा जगाम ह

4.30.58

जजाप परमं मन्त्रं सोऽसितः शतवत्सरम् ॥
साक्षाद्भूत्वा वरस्तस्मै त्वया दत्तः पुरा सति

4.30.59

पुत्रस्ते भविता सत्यं महाज्ञानी सुतेति च ॥
वरं दत्त्वा त्वमगमो गोलोकं मम सन्निधिम्

4.30.4.30.60

कालेन च सुतस्तस्य शिवांशेन बभूव ह ॥
ब्रह्मिष्ठो देवलो नाम्ना कन्दर्पसमसुन्दरः

4.30.61

सुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा ॥
तां सुन्दरीं विवाहेन जगृहे सर्वमोहिनीम्

4.30.62

स्थाने स्थाने च रहसि शतवर्षं तया सह ॥
स रेमे निपुणः श्रेष्ठः स्त्रीणां रमणकर्मणि

4.30.63

कालान्तरे स विरतो बभूव मुनिपुंगवः ॥
सुखं सर्वं परित्यज्य धर्मिष्ठः श्रीहरिं स्मरन्

4.30.64

उत्थाय रात्रौ शयनाद्विरक्तश्च तपोधनः ॥
स ययौ तपसे कान्ते गन्धमादनपर्वते

4.30.65

निद्रां त्यक्त्वा च तत्कान्ता न दृष्ट्वा स्वामिनं सती ॥
विललाप भृशं शोकात्प्रदग्धा विरहाग्निना

4.30.66

उत्तिष्ठन्ती निर्विशन्ती रुरोदोच्चैर्मुहुर्मुहुः ॥
तप्तपात्रे यथा धान्यं बभूव तन्मनस्तदा

4.30.67

आहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी ॥
चकार तत्सुतस्तस्याः कर्म निर्हरणादिकम्

4.30.68

तपश्चकार स मुनिर्गन्धमादनगह्वरे ॥
दिव्यं वर्षसहस्रं च मम भक्तो जितेन्द्रियः

4.30.69

तं ददर्श ह दैवेन रम्भा शृंगारलोलुपा॥
अतीवसुन्दरं शान्तं कन्दर्पमिव सुन्दरम्

4.30.4.30.70

सा च तं कथयामास निर्जने समुपस्थिता ॥
विधाय वेषं यत्नेन त्रैलोक्यचित्तमोहिनी

4.30.71

रम्भोवाच ॥
निबोध साधो मद्वाक्यं कामिनीनां मनोहरम् ॥
त्यक्त्वा कठोरं रहसि भज मां सुखदायिकाम्

4.30.72

त्वं वरेषु वरः पृथ्व्यां वरारोहा स्वयंवरा ॥
विदग्धाया विदग्धस्य दुर्लभो नव संगमः

4.30.73

यज्ञं कुर्वन्ति भूपाला भारते स्वर्गहेतुकम् ॥
स्वर्गभोगनिमित्तं च भोगसारा वयं मुने

4.30.74

स्तनयोर्युग्ममूर्वोर्मे सुन्दरं मुखपंकजम् ॥
हास्यभ्रूभंगसहितं दृष्ट्वा को न लभेत्सुखम्

4.30.75

स्त्रीरसः सुखसारश्च मुनीनामभिवाञ्छितः ॥
रसिकासुखसंभोगो निर्जने चातिदुर्लभः

4.30.76

देवो वा मानवो वाऽपि गन्धर्वो वाऽथ राक्षसः ॥
स्त्रीसुखेष्वप्यविज्ञेयो रम्भाया रतिवञ्चितः

4.30.77

रहस्युपस्थितां कान्तां न भजेद्यो जितेन्द्रियः ॥
गात्रलोमप्रमाणाब्दं कुम्भीपाके वसेद्ध्रुवम्

4.30.78

सत्यं तस्याश्च वधभाक्तच्छापेन प्रणश्यति ॥
विधाता मोहिनीशापादपूज्यो भुवनत्रये

4.30.79

येन त्यक्तोपस्थिता तं यथा पश्यति पुंश्चली ॥
स्वामिपुत्रस्वबन्धूनां न तथा घातकं रुषा

4.30.4.30.80

परं प्रियं च सर्वेषां जारं जानाति पुंश्चली ॥
यदि तेन परित्यक्ता तं हन्तुं सा तु दक्षिणा

4.30.81

पुंश्चली हिंस्रजन्तुभ्यो नवघातिभ्य एव च॥
दुष्टा शश्वद्दयाहीना दुरन्ता प्रतिजन्मनि

4.30.82

त्यज ध्यानं मुनिश्रेष्ठ भुंक्ष्वेदं तपसः फलम् ॥
रहस्युपस्थितां मां च गृहीत्वा सुचिरं सुखम्

4.30.83

स रम्भावचनं श्रुत्वा तामुवाच भयाकुलः ॥
हितं तथ्यं नीतिसारं परिणामसुखावहम्

4.30.84

देवल उवाच ॥
शृणु रम्भे प्रवक्ष्यामि वेदसारं परं वचः ॥
कुलधर्मोचितं सत्यं ब्राह्मणानां तपस्विनाम्

4.30.85

धर्मोऽयं युक्तकाले च स्वयोषिति रतो द्विजः ॥
सर्वत्र पूजितः शश्वदिह लोके परत्र च

4.30.86

ब्राह्मणः क्षत्रियो वैश्यो यो रतः परयोषिति ॥
याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि

4.30.77

इहातिनिन्द्यः सर्वत्र नाधिकारी स्वकर्मसु ॥
परत्रैवान्धकूपे च यावद्वर्षशतं वसेत् ।

4.30.88

ग्राह्या चोपस्थिता स्त्री च गृहिणा न तपस्विना ॥
त्यागे दोषः कामिनीनां शापभाक्पापभाग्गृही

4.30.89

ब्रह्मा जगद्विधाताऽपि न विरक्तः कलत्रवान् ॥
त्यागे दोषस्तत्कदाचिन्नास्माकं त्यक्तयोषिताम्

4.30.4.30.90

स्वभार्यां च परित्यज्य यो गृह्णाति परस्त्रियम् ॥
यशोधनायुषां हानिर्भवेज्जीवन्मृतस्य च

4.30.91

भुवि नास्ति यशो यस्य जीवनं तस्य निष्फलम् ॥
सुसंपदा किं राज्येन सुखेन च तपस्विनः

4.30.92

निष्कामेन च वृद्धेन मया किं ते प्रयोजनम्॥
सुवेषं सुन्दरं मातर्युवानं पश्य सुन्दरि

4.30.93

इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा ॥
उवाच भूयो वाक्यं तं त्रस्ता प्रस्फुरिताधरा

4.30.94

रम्भोवाच ॥
चारुचम्पकवर्णाभः कन्दर्पसमसुन्दरः ॥
तपःप्रभावात्सश्रीकः सुवेषः संमतः स्त्रियाः

4.30.95

त्वया विनाऽन्यं कं यामि को वास्ति त्वत्परः पुमान्॥
पुंश्चली त्वां परित्यज्य का जीवति स्मरा तुरा

4.30.96

शीघ्रं मां भज विप्रेन्द्र दग्धां कामाग्निना सदा ॥
कामो नश्यति मां त्वत्तो यथा रम्भां मतंगजः

4.30.97

न चेच्छापं प्रदास्यामि वद वेदविदां वर ॥
मां वा दारुणशापं वा सत्वरं ग्रहणं कुरु

4.30.98

दग्धाः प्राणा मनोदग्धं स्वात्मा वा इति संततम्॥
नवशृङ्गारपीयूषपाननिर्वाणतां व्रजेत्

4.30.99

स्वान्तर्दुःखेन दुःखार्तो यो यं शपति निश्चितम्॥
तं शापं खण्डितुं शक्तो न विधाता जगत्पतिः

4.30.4.30.100

द्विजो रम्भावचः श्रुत्वा बभूव ध्यानतत्परः ॥
नोवाच किंचिन्मौनस्थः सा तं कोपाच्छशाप ह

4.30.1

हे वक्रचित्त ते विप्र सर्वावयववक्रिमम् ॥
शरीरमञ्जनाकारं रूपयौवनवर्जितम्

4.30.2

अतीवविकृताकारं त्रिषु लोकेषु गर्हितम् ॥
पुरातनं तपो नष्टं सद्यो भवतु निश्चितम्

4.30.3

इत्युक्त्वा पुंश्चली कामात्कामलोकं जगाम ह ॥
अचिरेण मुनीन्द्रश्च न ददर्श हरेः पदम्

4.30.4

पदारविन्दविरहात्समुद्विग्नो बभूव ह॥
स्वाङ्गं च दृष्ट्वा विकृतं पूर्वपुण्यविवर्जितम्

4.30.5

कृत्वाऽग्निकुण्डं शोकेन प्राणांस्त्यक्तुं समुद्यतः ॥
मया दृष्टो वरो दत्तो दिव्यज्ञानेन बोधितः

4.30.6

आश्वासश्च कृतः प्रीत्या ततः शान्तो बभूव ह ॥
अङ्गान्यष्टौ च वक्राणि दृष्ट्वा तूर्णं महामुनेः

4.30.7

अष्टावक्रेति तन्नाम कौतुकेन मया कृतम् ॥
मद्वाक्यान्मलयद्रोणीमयमागम्य सत्वरः

4.30.8

षष्टि वर्षसहस्राणि चकार परमं तपः ॥
तपोऽवसाने मद्भक्तो मया युक्तः कृतः प्रिये

4.30.9

सर्वस्मिन्प्रलये नष्टे न मद्भक्तः प्रणश्यति॥
सुचिरेणैव तपसा ज्वलता जठराग्निना

4.30.4.30.110

त्यक्ताहारस्यान्तरं च भस्मपूर्णं ततो मुनेः ॥
आगतं मलयद्रोणीं मुनिहेतोर्मया प्रिये

4.30.11

अष्टावक्राच्च मद्भक्तो न भूतो न भविष्यति ॥
एवंभूतस्तपोनिष्ठः प्रपौत्रो ब्रह्मणो मुनिः

4.30.112

निष्कलः पुंश्चली शापाद्ब्रह्माऽपूज्यो यथा पुरा ॥
इत्येवं कथितं सर्वं रहस्यं च महात्मनः ॥
सुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाप्रश्ने त्रिंशत्तमोऽध्यायः ॥ ३०

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc