ब्रह्मवैवर्त पुराण · अध्याय 4.29
श्रीनारायण उवाच ॥
अथ गोपाङ्गनाः सर्वाः काममत्ततया मुने ॥
अतिप्रौढाश्च मानिन्यो नेश्वरं मेनिरे पतिम्
काश्चिदूचुरहो कृष्ण सस्मिता वक्रलोचनाः ॥
मालतीपुष्पमुत्तोल्य देहि मे मालिकामिति
काश्चिदूचुरये कृष्ण स्वक्रोडेऽस्मांश्च कुर्विति ॥
गृहीत्वाश्रीहरेः स्कन्धमारुरोह च काचन
उवाच काचिद्दर्पेण प्रमत्ता प्राणवल्लभम् ॥
स्वकीयपीतवसनं परिधारय मामिति
उवाच काचिदीशं तं सिन्दूरं देहि मामिति ॥
उवाच काचित्प्राणेशं शीघ्रमागत्य साम्प्रतम्
कृत्वा कुन्तलसंस्कारं कुरु मे कबरीमिति ॥
काश्चित्संप्रेरयामासुः श्रीखण्डं बल्लवाय च
स्वांगवेषविधायिन्यो भूषार्थं श्रुतिमूलयोः ॥
उवाच काचित्कामेन परं संकेतपूर्वकम्
पश्यन्ती तन्मुखाम्भोजं सस्मिता मैथुनाय च ॥
काचिज्जग्राह मुरलीं बलादाकृष्य माधवम्
जहार पीतवसनं कृत्वा नग्नं च कामिनी ॥
कामिन्यः काश्चिदित्यूचुर्मानिन्यो मधुसूदनम्
अलक्तकद्रवं देहि पादयोर्नखरेषु च ॥
उवाच काचित्प्रेम्णा तं गण्डयोः स्तनयोर्मम
नानाचित्रविचित्राढ्यां करु पत्रावलीमिति ॥
कृत्वाऽनुमानं मनसा दृष्ट्वा तासां प्रमत्तताम्
माधवो राधया सार्द्धमन्तर्धानं चकार ह ॥
अतीव निर्जने स्थाने मुदा स्वेच्छामयो विभुः
कलामानप्रकारं च शृंगारं च चकार ह ॥
पर्वते पर्वते रम्ये द्वीपेद्वीपे सुनिर्जने ॥
तटे तटे नदीनां च सर्वजन्तुविवर्जिते ॥
श्रीगोष्ठे रत्नशैले च वेलागङ्गातटेऽपि च
कालिन्दे च पुलिन्दे च मन्दिरे गन्धमादने ॥
मनोहरे कुन्दवने कावेरीतीरनीरजे
पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते ॥
सर्वत्र रमणं कृत्वा राधावेषं विधाय च
जगाम मलयद्रोणीं रम्यां चन्दनवायुना ॥
शय्यां पुष्पमयीं कृत्वा तत्र रेमे तया सह
अतीव सुखसंभोगान्मूर्च्छां संप्राप्य राधिका ॥
कृत्वा वक्षसि गोविन्दं पुलकाञ्चितविग्रहा
दृष्ट्वा तां मूर्च्छितां कृष्णो घनश्रोणिपयोधराम् ॥
विलुप्तवेषां कामार्तां नग्नां शिथिलकुन्तलाम्
चेतनां कारयामास कृत्वा वक्षसि तन्द्रिताम् ॥
वासयामास वसनं राधायामेखलाम्बरम्
कबरीं रचयामास किंचिद्वामेन वक्रताम् ॥
मालतीमाल्यसंयुक्तां कुन्दपुष्पैश्च वेष्टिताम्॥
तस्याः कपाले सिंदूरतिलकं सुन्दरं ददौ ॥
गण्डयोः स्तनयोश्चित्रां चकार पत्रिकां मुदा
सालक्तकांश्च नखरांश्चित्रितान्पादपद्मयोः ॥
नखैः कृत्रिमपद्मानि निर्ममे श्रोणिवक्षसोः
उत्थायाथ तया सार्द्धं जगाम हि सरोवरम् ॥
नानाप्रकारपद्मानां राजिभिश्च विराजितम्
निर्मलस्फटिकाकारजलपूर्णं मनोहरम् ॥
हंसकारण्डवाकीर्णं जलकुक्कुटकूजितम्
मधुलुब्धमधुघ्राणां पद्मस्थानं सुपद्मजम् ॥
चारुणा कलशब्देन शब्दितं शश्वदेव हि
तत्र स्नात्वा जलक्रीडां चकार ह तया सह ॥
जलं ददौ राधिकायै मुदा सा माधवाय च
सहस्रदलपद्मे च गृहीत्वा माधवः स्वयम्॥
एकं ददौ राधिकायै ररक्ष स्वार्थमेककम्
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमीप्सितम् ॥
स्वाङ्गं दत्त्वा राधिकायै लिलेप राधिकेश्वरः
ततो गच्छंस्तया सार्द्धं ददर्श पुरतो वटम् ॥
अतीवोत्तुङ्गशाखाग्रमतिविस्तृतमेव च
मूले योजनपर्यन्तं छायया परिवेष्टितम् ॥
उवास तत्र गोविन्दः केतकीवनसन्निधौ
पुष्पाक्तेन सुशीतेन वायुना सुरभीकृते ॥
चित्रं रहस्यं सुचिरं पुराणं च पुरातनम् ॥
प्रहर्षितश्च श्रीकृष्णः कथयामास राधिकाम्॥
एतस्मिन्नन्तरे तत्र ददर्श मुनिपुंगवम्
आगच्छन्तं च तं दृष्ट्वा प्रसन्नवदनेक्षणम् ॥
न दृष्ट्वा हृदये रूपमीशस्य परमात्मनः
ध्यानाद्विरतमग्रे च पश्यन्तं बहिरेव तत् ॥
सर्वावयववक्रं च कृष्णं सर्वदिगम्बरम्
नाम्नाऽष्टवक्रं जटिलं ज्वलन्तं ब्रह्मतेजसा ॥
मुखतोऽग्निमुद्गिरन्तं तपोराशिमिवोत्थितम्
अहो किं वा ब्रह्मतेजो मूर्तिमन्तमिह स्वयम् ॥
नखश्मश्रुसुदीर्घं च शांतं तेजस्विनं परम्
पुटाञ्जलियुतं भक्त्या भीतं प्रणतकंधरम् ॥
दृष्ट्वा हसन्तीं राधां तां वारयामास माधवः
प्रभावं कथयामास मुनीन्द्रस्य महात्मनः ॥
अथ प्रणम्य गोविन्दं तुष्टाव मुनिपुंगवः ॥
यत्स्तोत्रं च पुरा दत्तं शंकरेण महात्मना
अष्टावक्र उवाच ॥
गुणातीत गुणाधार गुणबीज गुणात्मक ॥
गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते
सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर ॥
सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः
हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर ॥
वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते
ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर ॥
सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते
प्रकृते प्राकृत प्रज्ञ प्रकृतीश परात्पर ॥
संसारवृक्ष तद्बीज फलरूप नमोऽस्तु ते
सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण ॥
महाविराट्तरोर्बीज राधिकेश नमोऽस्तु ते
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः ॥
शाखाप्रशाखा वेदाद्यास्तपांसि कुसुमानि च
संसारविफला एव प्रकृत्यंकुरमेव च ॥
तदाधार निराधार सर्वाधार नमोऽस्तु ते
तेजोरूप निराकार प्रत्यक्षानूहमेव च ॥
सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते
इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे ॥
प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च
पपात तत्र तद्देहः पादपद्मसमीपतः ॥
तत्तेजश्च समुत्तस्थौ ज्वलदग्निशिखोपमम्
सप्ततालप्रमाणं तु चोत्थाय च पपात ह॥
भ्रामं भ्रामं च परितो लीनं चाभूत्पदाम्बुजे
अष्टावक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ॥
परं निर्वाण मोक्षं च समाप्नोति न संशयः
प्राणाधिको मुमुक्षूणां स्तोत्रराजश्च नारद ॥
हरिणाऽहो पुरा दत्तो वैकुण्ठे शंकराय च
इति श्रीब्रह्मवैवर्ते म० श्रीकृ० ज० नाराय० मुनिमोक्षणप्रस्ताव एकोनत्रिंशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0