ब्रह्मवैवर्त पुराण · अध्याय 4.11
॥ श्रीनारायण उवाच ॥
एकदा गोकुले साध्वी यशोदा नंदगेहिनी ॥
गृहकर्मणि संसक्ता कृत्वा बालं स्ववक्षसि
वात्यारूपं तृणावर्तमागच्छंतं च गोकुलम् ॥
श्रीहरिर्मनसा ज्ञात्वा भारयुक्तो बभूव ह
भाराक्रांता यशोदा च तत्याज बालकं तदा ॥
शयनं कारयित्वा च जगाम यमुनां मुने
एतस्मिन्नंतरे त वात्यारूपधरोऽसुरः ॥
आदाय तं भ्रामयित्वा गत्वा च शतयोजनम्
बभंज वृक्षशाखाश्च ह्यंधीभूतं च गोकुलम् ॥
चकार सद्यो मायावी पुनस्तत्र पपात ह
असुरोऽपि हरिस्पर्शाज्जगाम हरिमंदिरम् ॥
सुंदरं रथमारुह्य कृत्वा कर्मक्षयं स्वकम्
पांड्यदेशोद्भवो राजा शापाद्दुर्वाससोऽसुरः ॥
श्रीकृष्णचरणस्पर्शाद्गोलोकं स जगाम ह
वात्यारूपे गते गोपा गोप्यश्च भयविह्वलाः ॥
न दृष्ट्वा बालकं तत्र शयानं शयने मुने
सर्वे निजघ्नुः स्वं वक्षस्थलं शोकाकुला भयात् ॥
केचिन्मूर्छामवापुश्च रुरुदुश्चापि केचन
अन्वेषणं प्रकुर्वंतो ददृशुर्बालकं व्रजे ॥
धूलिधूसरसर्वांगं पुष्पोद्यानांतरस्थितम्
बाह्यैकदेशे सरसस्तीरे नीरसमन्विते ॥
पश्यंतं गगनं शश्वद्वदंतं भयकातरम्
गृहीत्वा बालकं नंदः कृत्वा वक्षसि सत्वरम् ॥
दर्शं दर्शं मुखं तस्य रुरोद च शुचाऽन्वितः
यशोदा रोहिणी शीघ्रं दृष्ट्वा बालं रुरोद च ॥
कृत्वा वक्षसि तद्वक्त्रं चुचुंब च मुहुर्मुहुः
मंगलं कारयामास स्नापयामास बालकम् ॥
स्तनं ददौ यशोदा च प्रसन्नवदनेक्षणा
॥ नारद उवाच ॥ ॥
कथं शशाप दुर्वासाः पांड्यदेशोद्भवं नृपम् ॥
सुविचार्य वद ब्रह्मन्नितिहासं पुरातनम्
॥ श्रीनारायण उवाच ॥ ॥
पांड्यदेशाधिपो राजा सहस्राक्षः प्रतापवान् ॥
स्त्रीसहस्रं समादाय कामबाणप्रपीडितः
मनोहरे निर्जने च पर्वते गंधमादने ॥
विजहार नदीतीरे पुष्पोद्याने मनोरमे
नानाप्रकारशृगारं विपरीतादिकं नृपः ॥
नखदंतक्षतांगं च कामिनीनां चकार सः
कृत्वा मूर्तिसहस्रं च योगींद्रो नृपतीश्वरः ॥
कृत्वा स्थलविहारं च जलक्रीडां चकार ह
नार्यो विवसनाः सर्वा नग्नाश्च नृपयोषितः ॥
विजह्रुश्च पुष्पभद्रानदीतीरे मनोहरे
एतस्मिन्नंतरे तत्र समायातो महामुनिः ॥
शिष्यलक्षैः परिवृतो गच्छन्वै शंकरं प्रति
दृष्ट्वा मुनिं महामत्तो नोत्तस्थौ न ननाम ह ॥
वाचा हस्तेन राजा च संभाषां न चकार ह
दृष्ट्वा चुकोप नृपतिं शशाप स्फुरिताधरः ॥
असुरो भव पापिष्ठ योगाद्भ्रष्टो भुवं व्रज
भारते लक्षवर्षं च स्थातव्यं ते नराधम ॥
ततो हरिपदस्पर्शाद्गोलोकं यास्यसि ध्रुवम्
स्थानेस्थाने हे महिष्यो जनिं लभत भारते ॥
राजेंद्रगेहे राजेंद्राद्भविष्यथ मनोहराः
इत्युक्त्वा तु मुनींद्रस्तु जगाम शंकरालयम् ॥
हा हा शब्दं विचक्रुश्च शिष्यसंघाः कृपालवः
गते मुनींद्रे राजेंद्रो रुरोद च सरित्तटे ॥
रुरुदू रमणीयाश्च रमण्यो विरहातुराः ॥
हे नाथ रमणश्रेष्ठेत्युच्चार्य च पुनः पुनः ॥
त्वां विना वा क्व यास्यामो वयं त्वं वा क्व यास्यसि
वयं नो विहरिष्यामस्त्वया सार्द्धं सुनिर्जने ॥
न करिष्यसि राज्यं त्वं न यास्यामो गृहं वयम्
शरच्चंद्रप्रभामुष्टं न द्रक्ष्यामो मुखं तव ॥
प्रसारिताभ्यां बाहुभ्यां नानयिष्याम इत्यतः
इत्युक्त्वा रुरुदुः सर्वाः पुरस्कृत्य नराधिपम् ॥
मूर्छामवापुश्चरणं धृत्वा राज्ञः सरित्तटे
राजाऽग्निकुण्डमाधाय नारीभिः सह नारद ॥
स्मृत्वा हरिपदांभोजं ज्वलदग्निं विवेश ह
हाहाकारं सुराः सर्वे विचक्रुर्गगने स्थिताः॥
इत्यूचुर्मुनयश्चैव दैवं च बलवत्तरम्
स च राजा तृणावर्तो जगाम हरिमंदिरम्॥
महिष्यो भारते वर्षे लेभिरे जन्म वाञ्छितम्
इत्येवं कथितं सर्वं हरेर्माहात्म्य मुत्तमम् ॥
माक्षणं नृपतेश्चैव मुनींद्रशापहेतुकम्
इति श्रीब्र० म० श्रीकृष्णज० नारायणनारदसंवादे तृणावर्तवधो नामै कादशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0