ब्रह्मवैवर्त पुराण · अध्याय 4.12
श्रीनारायण उवाच ॥ ॥
एकदा मंदिरे नन्दपत्नी साऽऽनंदपूर्वकम् ॥
कृत्वा वक्षसि गोविंदं क्षुधितं च स्तनं ददौ
एतस्मिन्नंतरे गोप्य आजग्मुर्नंदमंदिरम् ॥
स्थविराश्च वयस्याश्च बालिका बालकान्विताः
अतृप्तं बालकं शीघ्रं संन्यस्य शयने सती ॥
प्रणनाम समुत्थाय कर्मण्यौत्थानिके मुदा
तैलसिंदूरतांबूलं ददौ ताभ्यो मुदाऽन्विता॥
मिष्टवस्तूनि वस्त्राणि भूषणानि च गोपिका
एतस्मिन्नन्तरे कृष्णो रुरोद क्षुधितस्तदा ॥
प्रेरयित्वा स चरणं मायेशो मायया विभुः
पपात चरणं तस्य प्रवीणे शकटे मुने ॥
विश्वंभरपदाघातात्तच्च चूर्णं बभूव ह
बभंज शकटं पेतुर्भग्नकाष्ठानि तत्र वै ॥
पपात दधि दुग्धं च नवनीतं घृतं मधु
दृष्ट्वाऽऽश्चर्यं गोपिकाश्च दुद्रुवुर्बालकं भयात्॥
ददृशुर्भग्नशकटमिंधनाभ्यंतरे शिशुम्
भग्नभांडसमूहं च पतितं बहुगोरसम् ॥
प्रेरयित्वा तु काष्ठानि जग्राह बालकं भिया
मायारक्षितसर्वांगं रुदितं क्षुधितं क्षुधा॥
स्तनं ददौ यशोदा तं रुरोद च भृशं शुचा
पप्रच्छुर्बालकान्गोपा बभंज शकटं कथम् ॥
किंचिद्धेतुं न पश्यामः सहसेति किमद्भुतम्
इत्यूचुर्बालकाः सर्वे गोपाः शृणुत मद्वचः ॥
श्रीकृष्णस्य पदाघाताद्बभंज शकटं ध्रुवम्
श्रुत्वा तद्वचनं गोपा गोप्यश्च जहसुर्मुदा ॥
न हि जग्मुः प्रतीतिं च मिथ्येत्यूचुर्व्रजे प्रजाः
शिशोः स्वस्त्ययनं कार्यं चक्रुर्ब्राह्मणपुंगवाः ॥
हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्विजः
वदामि तत्ते विप्रेन्द्र कवचं सर्वरक्षणम् ॥
यद्दत्तं मायया पूर्वं ब्रह्मणे नाभिपंकजे
निद्रिते जगतीनाथे जले च जलशायिनि ॥
भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात्
योगनिद्रोवाच ॥
दूरीभूतं कुरु भयं भयं किं ते हरौ स्थिते ॥
स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः ॥
श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः
कर्णयुग्मं च कण्ठं च कपालं पातु माधवः ॥
कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम्
अधरोष्ठं हृषीकेशो दंतपंक्तिं गदाग्रजः ॥
रासेश्वरश्च रसनां तालुकं वामनो विभुः
वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा ॥
जनार्दनः पातु नाभिं पातु विष्णुश्च मेहनम्
नितंबयुग्मं गुह्यं च पातु ते पुरुषोत्तमः ॥
जानुयुग्मे जानकीशः पातु ते सर्वदा विभुः
हस्तयुग्मं नृसिंहश्च पातु सर्वत्र संकटे ॥
पादयुग्मं वराहश्च पातु ते कमलोद्भवः
ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः ॥
पूर्वस्यां पातु गोपालः पातु वह्नौ दशास्यहा
वनमाली पातु याम्यां वैकुंठः पातु नैरृतौ ॥
वारुण्यां वासुदेवश्च सतो रक्षाकरः स्वयम्
पातु ते संततमजो वायव्यां विष्टरश्रवाः ॥
उत्तरे च सदा पातु तेजसा जलजासनः
ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित् ॥
जले स्थले चांतरिक्षे निद्रायां पातु राघवः
इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम् ॥
कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया
शुंभेन सह संग्रामे निर्लक्ष्ये घोरदारुणे ॥
गगने स्थितया सद्यः प्राप्तिमात्रेण सो जितः
कवचस्य प्रभावेण धरण्यां पतितो मृतः॥
पूर्वं वर्षशतं खे च कृत्वा युद्धं भयावहम्
मृते शुंभे च गोविन्दः कृपालुर्गगनस्थितः ॥
मालां च कवचं दत्त्वा गोलोकं स जगाम ह
कल्पांतरस्य वृत्तांतं कृपया कथितं मुने ॥
अभ्यंतरभयं नास्ति कवचस्य प्रभावतः
कोटिशः कोटिशो नष्टा मया दृष्टाश्च वेधसः ॥
अहं च हरिणा सार्द्धं कल्पेकल्पे स्थिरा सदा
इत्युक्त्वा कवचं दत्त्वा साऽन्तर्धानं चकार ह ॥
निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः
सुवर्णगुटिकायां च कृत्वेदं कवचं परम् ॥
कण्ठे वा दक्षिणे बाहौ बध्नीयाद्यः सुधीः सदा
विषाग्निजलशत्रुभ्यो भयं तस्य न जायते ॥
जले स्थले चांतरिक्षे निद्रायां रक्षतीश्वरः
संग्रामे वज्रपाते च विपत्तौ प्राणसंकटे ॥
कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत्
बद्ध्वेदं कवचं कण्ठे शंकरस्त्रिपुरं पुरा ॥
जघान लीलामात्रेण दुरंतमसुरेश्वरम्
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा ॥
सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा
आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् ॥
कवचस्य प्रभावेण सर्वत्र जयिनो वयम्
तस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः ॥
आत्मनः कवचं कण्ठे दधार च स्वयं हरिः
प्रभावः कथितः सर्वः कवचस्य हरेस्तथा ॥
अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शकटभंजनयोगनिद्रोक्तकवचन्यासो नाम द्वादशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0