भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.103

4.103.1

अथ त्र्यधिकशततमोऽध्यायः
नारायण उवाच
अथाऽऽगत्य मधुपुरीं प्रणम्य पितरं विभुः ।
सबलो वटमूले च सस्मार गरुडं हरिः

4.103.2

सादरं लवणोदं च विश्वकर्माणमीप्सितम् ।
तत्याज गोपवेषं च नृपवेषं दधार सः

4.103.3

एतस्मिन्नन्तरे चक्रमाजगाम् हरिं स्वयम् ।
परं सुदर्शनं नाम सूर्यकोटिसमप्रभम्

4.103.4

तेजसा हरिणा तुल्यं परं वैरिविमर्दनम् ।
अव्यर्थमस्त्रमस्त्राणां प्रवरं परमं परम्

4.103.5

रत्नयानं पुरः कृत्वा गरुडो हरिसंनिधिम् ।
विश्वकर्मा सशिष्यश्च जलधिः कम्पितस्तथा

4.103.6

हरिं प्रणेमुस्ते सर्वे मूर्ध्ना च भक्तिपूर्वकम् ।
सस्मितः सादरं यत्नात्तानुवाच क्रमाद्विभुः

4.103.7

श्रीकृष्ण उवाच
हे समुद्र महाभाग स्थलं च शातयोजनम् ।
देहि मे नगरार्थं च पश्चाद्दास्यामि निश्चितम्

4.103.8

नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् ।
रमणीयं च सर्वेषां कमनीयं च योषिताम्

4.103.9

वाञ्छितं चापि भक्तानां वैकुण्ठसदृशं परम् ।
सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम्

4.103.10

दिवानिशं खगश्रेष्ठ संनिधौ विश्वकर्मणः ।
स्थितिं कुरु महाभाग यावन्निर्माति द्वारकाम्

4.103.11

दिवानिशं च मत्पार्श्वे चक्रश्रेष्ठ स्थितिं कुरु ।
ओमित्युक्त्वा तु प्रययुः सर्वे चक्रं विना मुने

4.103.12

कंसस्य पितरं भद्रमुग्रसेनं महाबलम् ।
नृपं चकार नगरे क्षत्रियाणां सतामपि

4.103.13

विजित्य च जरासंधं निहत्य यवनं तथा ।
उपायेन महाभाग निर्माणक्रममीश्वरः

4.103.14

श्रीभगवानुवाच
शतयोजनपर्यन्तं नगरं सुमनोहरम् ।
पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः

4.103.15

रुचकैः पारिभद्रैश्च पलङ्कैश्च स्यमन्तकैः ।
गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा

4.103.16

सूर्यकान्तादिभिश्चैव पुत्रैश्च स्फटिकाकृतैः ।
हरिद्वर्णैश्च मणिभिः श्यामैर्गौरमुखैश्चषैः

4.103.17

गोरोचनाभिः पीतैश्च दाडिमीबीजरूपकैः ।
पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः

4.103.18

मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः ।
श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसंनिभैः

4.103.19

स्वर्णमूल्यशतगुणैरीषद्रक्तैः सुशोभनैः ।
गरिष्ठैश्च वरिष्ठैश्च मणिश्रेष्ठैश्च पूजितैः

4.103.20

यथाविधानं यद्योगं यत्र यन्मुक्तमीप्सितम् ।
मणीनां हरणं चैव यक्षसंघा हिमालयात्

4.103.21

दिवानिशं करिष्यन्ति यावन्निर्माणपूर्वकम् ।
यक्षैश्च सप्तभिर्लक्षैः कुबेरप्रेरितैरपि

4.103.22

वेताललक्षैः कूष्माण्डलक्षैः शंकरयोजितैः ।
दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः

4.103.23

कुरु दिव्यं च पत्नीनां सहस्राणां च षोडश ।
अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च

4.103.24

शिबिरं परिखायुक्तमुच्चैः प्राकारवेष्टितम् ।
युक्तद्वादशशालं च सिंहद्वारपरिष्कृतम्

4.103.25

युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः ।
निषिद्धवृक्षरहितं प्रसिद्धैश्च परिष्कृतम्

4.103.26

सुलक्षणं चन्द्रवेधं प्राङ्गणं च तथैव च ।
यदूनामाश्रमं दिव्यं किंकराणां तथैव च

4.103.27

सर्वत्र सिद्धं निलयमुग्रसेनस्य भूभृतः ।
आश्रमं सर्वतोभद्रं वसुदेवस्य मत्पितुः

4.103.28

विश्वकर्मोवाच
के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन ।
भद्राभद्रप्रदाश्चापि तान्वदस्व जगद्गुरो

4.103.29

केषामस्थिनियुक्तं च शिबिरं च शुभाशुभम् ।
दिशि कुत्र जलं भद्रमभद्रं च वद प्रभो

4.103.30

भद्रप्रदश्च को वृक्षो दिशि कृत्र प्रवर्तते ।
किं प्रमाणं गृहाणां च प्राङ्गणानां सुरेश्वर

4.103.31

मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ।
प्राकाराणां किं प्रमाणं परिखाणां सुरेश्वर

4.103.32

द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् ।
कस्य कस्य तरोः काष्ठं प्रशस्तं शिबिरे प्रभो

4.103.33

अमङ्गलं वा केषां च सर्वं मां वक्तुमर्हसि

4.103.34

श्रीभगवानुवाच
आश्रमे नारिकेलश्च गृहिणां च धनप्रदः ।
शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः

4.103.35

सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्वस्मिन्नृणां संपत्प्रदस्तथा

4.103.36

शुभप्रदश्च सर्वत्र सुरकारो निशामय ।
बिल्वश्च पनसश्चैव जम्बीरो बदरी तथा

4.103.37

प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनदस्तथा ।
संपत्प्रदश्च सर्वत्र यतो हि वर्धते गृही

4.103.38

जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।
बन्धुप्रदश्च पूर्वस्मिन्दक्षिणे मित्रदस्तथा

4.103.39

सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः ।
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा

4.103.40

ईशाने सुखदश्चैव सर्वत्रैव निशामय ।
सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा

4.103.41

अलाबुश्चापि कूष्माण्डमायाम्बुश्च सकिंशुकः ।
खर्जूरी कर्कटी चापि शिबिरे मङ्गलप्रदा

4.103.42

वास्तूककारबिल्वश्च वार्ताकश्च शुभप्रदः ।
लताफलं च शुभदं सर्वं सर्वत्र निश्चितम्

4.103.43

प्रशस्तं कथितं कारो निषिद्धं च निशामय ।
वन्यवृक्षो निषिद्धश्च शिबिरे नगरेऽपि च

4.103.44

वटो निषिद्धः शिबिरे नित्यं चोरभयं यतः ।
नगरेषु प्रसिद्धश्च दर्शनात्पुण्यदस्तथा

4.103.45

निषिद्धः शाल्मलिश्चैव शिबिरे नगरे पुरे ।
दुःखप्रदश्च सततं भूमिपानां सदाऽपि च

4.103.46

न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
विद्यामतिनिषिद्धस्तु सततं दुःखदस्तदा

4.103.47

हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्जयेत् ।
शतेन धनहानिः स्यात्प्रजाहानिर्भवेद्ध्रुवम्

4.103.48

शिबिरेऽतिनिषिद्धश्च नगरे किंचिदेव च ।
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च

4.103.49

विद्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् ।
खर्जूरश्च गहुश्चैव निषिद्धः शिबिरे तथा

4.103.50

न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
वृक्षश्च चणकादीनां धान्यं च मङ्गलप्रदम्

4.103.51

ग्रामेषु नगरे चापि शिबिरे च तथैव च ।
इक्षुवृक्षश्च शुभदः संततं शुभदस्तथा

4.103.52

अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्चिद्धरिद्रा शुभदा शुभदश्चाऽऽर्द्रकस्तथा

4.103.53

हरीतकी च शुभदा ग्रामेषु नगरेषु च ।
न वाद्या भद्रदा नित्यं तथा चाऽऽमलकी घ्रुवम्

4.103.54

गजानामस्थि शुभदमश्वानां च तथैव च ।
कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम्

4.103.55

न शुभप्रदमन्येषामुच्छिन्नकारणं परम् ।
वानराणां नराणां च गर्दभानां गवामपि

4.103.56

कुक्कुराणां शृगालानां मार्जाराणामभद्रकम् ।
भेटकानां सूकराणां सर्वेषां च शुभप्रदम्

4.103.57

ईशाने चापि पूर्वस्मिन्पश्चिमे च तथोत्तरे ।
शिबिरस्य जलं भद्रमन्यत्राशुभमेव च

4.103.58

दीर्घे प्रस्थे समानं च न कुर्यान्मन्दिरे बुधः ।
चतुरस्रे गृहे कारो गृहिणां धननाशनम्

4.103.59

दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।
शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम्

4.103.60

प्रस्थे हस्तद्वयात्पूर्वं दीर्घे हस्तत्रयं तथा ।
गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च

4.103.61

न मध्यदेशे कर्तव्यं किंचिन्न्यूनाधिके शुभम् ।
चतुरस्रं चन्द्रवेधं शिबिरं मङ्गलप्रदम्

4.103.62

अभद्रदं सूर्यवेधं शिबिरं मङ्गलप्रदम् ।
अभद्रदं सूर्यवेधं प्राङ्गणं च तथैव च

4.103.63

शिबिराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् ।
धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा

4.103.64

प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ।
मालती यूथिका कुन्दं माधवी केतकी तथा

4.103.65

नागेश्वरं मल्लिकां च काञ्चनं बकुलं शुभम् ।
अपराजिता च शुभदा तेषामुद्यानमीप्सितम्

4.103.66

पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः ।
ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद्गृहं गृही

4.103.67

उर्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ।
सूत्रधारं तैलाकारं स्वर्णकारं च हीरकम्

4.103.68

वाटीमूले ग्राममध्ये न कुर्यात्स्थापनं बुधः ।
ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम्

4.103.69

भट्टं वैद्यं पुष्पकारं स्थापयेच्छिबिरान्तिके ।
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम्

4.103.70

परितः शिबिराणां च गम्भीरं दशहस्तकम् ।
संकेतपूर्वकं चैव परिखाद्वारमीप्सितम्

4.103.71

शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ।
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च

4.103.72

निम्बाणां सिन्धुवाराणां बदरीणामभद्रकम् ।
धत्तूराणां वटानां चाप्येरण्डानामवाञ्छितम्

4.103.73

एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सितम् ।
वृक्षं च वज्रहस्तं च भूधरो वर्जयेदधः

4.103.74

पुत्रदारधनं हन्यादित्याह कमलोद्भवः ।
कथितं लोकशिक्षार्थं कुरु काष्ठं विना पुरीम्

4.103.75

शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ।
विश्वकर्मा हरिं नत्वा जगाम् पक्षिणा सह

4.103.76

समुद्रस्य समीपं च वटमूलं मनोहरम् ।
सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह

4.103.77

स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा ।
यत्किंचित्कथितं कारुं कृष्णेन परमात्मना

4.103.78

तदेव लक्षणं सर्वं ददर्श नगरे मुने ।
कारुं हसन्ति स्वप्ने च सर्वे ते शिल्पकारिणः

4.103.79

गरुडं गरुडाश्चान्ये बलवन्तश्च पक्षिणः ।
बुद्धो ददर्श गरुडो विश्वकर्मा च लज्जितः

4.103.80

अतीव द्वारकां रम्यां शतयोजनविस्तृताम् ।
ब्रह्मादीनां च नगरं विजित्य च विराजिताम् ॥
तेजसाऽऽच्छादितां सूर्यं रत्नानां च परिष्कृताम्

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ द्वारकानिर्माणारम्भे त्र्यधिकशततमोऽध्यायः ॥ १०३

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc