भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.102

4.102.1

द्व्यधिकशततमोऽध्यायः
नारायण उवाच
कृण्णः सांदीपनेर्गेहं गत्वा च सबलो मुदा ।
नमश्चकार स्वगुरुं गुरुपत्नीं पतिव्रताम्

4.102.2

शुभाशिषं गृहीत्वा च दत्त्वा रत्नमणिं हरिः ।
गुरवे तस्य भार्यायै तमुवाच यथोचितम्

4.102.3

श्रीकृष्ण उवाच
त्वत्तो विद्यां लभिष्यामि वाञ्छितां वाञ्छितं मम ।
कृत्वा शुभक्षणं विप्र मां पाठय यथोचितम्

4.102.4

ओमित्युक्त्वा मुनिश्रेष्ठः पूजयामास तं मुदा ।
मधुपर्कप्राशनेन गवा वस्त्रेण चन्दनैः

4.102.5

मिष्टान्नं भोजयामास ताम्बूलं च सुवासितं ।
सुप्रियं कथयामास तुष्टाव परमेश्वरम्

4.102.6

सांदीपनिरुवाच
परं ब्रह्म परं धाम परमीश परात्पर ।
स्वेच्छामयं स्वयंज्योतिर्निलिप्तैको निरङ्कुशः

4.102.7

भक्तैकनाथ भक्तेष्ट भक्तानुग्रहविग्रह ।
भक्तवाञ्छाकल्पतरो भक्तानां प्राणवल्लभ

4.102.8

मायया बालरूपोऽसि ब्रह्मेशशेषवन्दितः ।
मायया भुवि भूपाल भुवो भारक्षयाय च

4.102.9

योगिनो यं विदन्त्येवं ब्रह्मज्योतिः सनातनम् ।
ध्यायन्ते भक्तनिवहा ज्योतिरभ्यन्तरे मुदा

4.102.10

द्विभुजं मुरलीहस्तं सुन्दरं श्यामहुपकम् ।
चन्दनोक्षितसर्वाङ्गं सस्मितं भक्तवत्सलम्

4.102.11

पीताम्बरधरं देवं वनमालविभूषितम् ।
लीलापाङ्गतरङ्गैश्च निन्दितानङ्गमूर्च्छितम्

4.102.12

अलक्तभवनं तद्वत्पादपद्मं सुशोभनम् ।
कौस्तुभोद्भासिताङ्गं च दिव्यमूर्तिं मनोहरम्

4.102.13

ईषद्धास्यप्रसन्नं च सुवेषं प्रस्तुतं सुरैः ।
देवदेवं जगन्नाथं त्रेलोक्यमोहनं परम्

4.102.14

कोटिकन्दर्पलीलाभं कमनीयमनीश्वरम् ।
अमूल्यरत्ननिर्माणभूषणौघेन भूषितम्

4.102.15

वरं वरण्यं वरदं वरदानामभीप्सितम् ।
चतुर्णामपि वेदानां कारणानां च कारणम्

4.102.16

पाठार्थ मत्प्रियस्थानमागतोऽसि च मायया ।
पाठं ते लोकशिक्षार्थं रमणं गमनं रणम् ॥
स्वात्मारामस्य च विभोः परिपूर्णतमस्य च

4.102.17

गुरुपत्न्युवाच
अद्य मे सफलं जन्म सफलं जीवनं मम ।
पातिव्रत्यं च सफलं सफलं च तपोवनम्

4.102.18

मद्दक्षहस्तः सफलो दत्तं येनान्नमीप्सितम् ।
तदाश्रमं तीर्थपरं तीर्थपादपदाङ्कितम्

4.102.19

त्वत्पादरजसा पूता गृहाः प्राङ्गणमुत्तमम् ।
त्वत्पादपद्मं दृष्ट्वा चैवाऽऽवयोर्जन्मखण्डनम्

4.102.20

तावद्दुःखं च शोकश्च तावद्भोगश्च रोगकः ।
तावज्जन्मानि कर्माणि क्षुत्पिपासादिकानि च

4.102.21

यावत्त्वत्पादपद्मस्य भजनं नास्ति दर्शनम् ।
हे कालकाल भगवन्स्रष्टुः संहर्तुरीश्वर

4.102.22

कृपां कुरु कृपानाथ मायामोहनिकृन्तन ।
इत्युक्त्वा साश्रुनेत्रा सा क्रोडे कृत्वा हरिं पुनः
स्वस्तनं पाययामास प्रेम्णा च देवकी यथा

4.102.23

श्रीकृष्ण उवाच
मातस्त्वं मां कथं स्तौषि बालं दुग्धमुखं सुतम् ।
गच्छ गोलोकमिष्टं च स्वामिना सहसाप्रतम्

4.102.24

त्यक्त्वा प्राकृतिकं मिथ्या नश्वरं च कलेवरम् ।
विधाय निर्मलं देहं जन्ममृत्युजराहरम्

4.102.25

इत्युक्तवा चतुरो वेदान्पठित्वा मुनिपुंगवात् ।
मासेन परया भक्त्या दत्त्वा पुत्रं मृतं पुरा

4.102.26

रत्नानां च त्रिलक्षं च मणीनां पञ्चलक्षणम् ।
हीरकाणां चतुर्लक्षं मुक्तानां पञ्चलक्षकम्

4.102.27

माणिक्यानां द्विलक्षं च वस्त्रं त्रैलोक्यदुर्लभम् ।
हारं च दुर्गया दतं हस्तरत्नाङ्गुलीयकम्

4.102.28

दशकोटिं सुवर्णानां गुरवे दक्षिणां ददौ ।
अमूल्यरत्ननिर्माणं नारीसर्वाङ्गभूषणमा

4.102.29

गुरुप्रियायै प्रददौ वह्निशुद्धांशुकं वरम् ।
मुनिर्दत्त्वा च पुत्राय तःसर्वं प्रियया सह

4.102.30

सद्रत्नरथमारुह्य ययौ गोलोकमुत्तमम् ।
तमद्भूतं हरिं दृष्ट्वा प्रययौ स्वालयं मुदा

4.102.31

एवं ब्रह्मण्यदेवस्य चरित्रं शृणु नारद ।
इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिपूर्वकम्

4.102.32

श्रीकृष्णे निश्चलां भक्तिं लभते नात्र संशयः ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पणण़डितः

4.102.33

इह लोके सुखं प्राप्य यात्यन्ते श्रीहरेः पदम् ।
तत्र नित्यं हरेर्दास्यं लभते नात्र संशयः

4.102.102

इतिओ श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ मुनिपत्नीस्तोत्रं नाम
द्व्यधिकशततमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc