भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.31

3.31.1

नारद उवाच॥
भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः ॥
कृपयाऽदात्परशुरामाय स्तोत्रं च वर्म च

3.31.2

को वाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च ॥
स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हति

3.31.3

नारायण उवाच ॥
मन्त्राराध्यो हि भगवान्परिपूर्णतमः स्वयम् ॥
गोलोकनाथः श्रीकृष्णो गोपगोपीश्वरः प्रभुः

3.31.4

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥
स्तवराजं महापुण्यं भूतियोगसमुद्भवम्

3.31.5

मन्त्रं कल्पतरुं नाम सर्वकामफलप्रदम् ॥
ददौ परशुरामाय रत्नपर्वतसन्निधौ

3.31.6

स्वयंप्रभानदीतीरे पारिजातवनान्तरे ॥
आश्रमे लोकदेवस्य माधवस्य च सन्निधौ

3.31.7

महादेव उवाच ॥ वत्सागच्छ महाभाग भृगुवंशसमुद्भव ॥
पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु

3.31.8

शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ॥
त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम्

3.31.9

श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ॥
रासमण्डलमध्ये च मह्यं वृन्दावने वने

3.31.3.31.10

अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥
पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते

3.31.11

यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ॥
शुम्भं निशुम्भं महिषं रक्तबीजं जघान ह

3.31.12

यद्धृत्वाऽहं च जगतां संहर्त्ता सर्वतत्त्ववित्॥
अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया

3.31.13

यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् ॥
यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च

3.31.14

यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ॥
यद्धृत्वा भगवान्वायुर्विश्वाधारो विभुः स्वयम्

3.31.15

यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ॥
यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥

3.31.16

यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ॥
यद्धृत्वा पठनाच्चन्द्रो महाबलपराक्रमः

3.31.17

अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ॥
चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम्

3.31.18

यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा ॥
यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी

3.31.19

यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः॥
सर्वविद्याधिदेवी सा यच्च धृत्वा सरस्वती

3.31.3.31.20

यद्धृत्वा जगतां लक्ष्मीरन्नदात्री परात्परा ॥
यद्धृत्वा पठनाद्वेदान्सावित्री सा सुषाव च

3.31.21

वेदाश्च धर्म्मवक्तारो यद्धृत्वा पठनाद् भृगो ॥
यद्धृत्वा पठनाच्छुद्धस्तेजस्वी हव्यवाहनः ॥
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः

3.31.22

दातव्यं कृष्णभक्ताय साधवे च महात्मने ॥
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात्

3.31.23

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम्

3.31.24

त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः ॥
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम्

3.31.25

प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ॥
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः

3.31.26

कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ॥
हरये नम इत्येवं भ्रूलतां पातु मे सदा

3.31.27

ॐ गोविंदाय स्वाहेति नासिकां पातु सन्ततम् ॥
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा

3.31.28

ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ॥
ॐ कृष्णाय नमः शश्वत्पातु मेऽधरयुग्मकम्

3.31.29

ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ॥
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु

3.31.3.31.30

ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा॥
रासेश्वराय स्वाहेति तालुकं पातु मे सदा

3.31.31

राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ॥
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम

3.31.32

ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम॥
नमः किशोरवेषाय स्वाहा पृष्ठं सदाऽवतु

3.31.33

उदरं पातु मे नित्यं मुकुन्दाय नमः सदा॥
ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम

3.31.34

ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम॥
ॐ ह्रीं भगवते स्वाहा नखरं पातु मे सदा

3.31.35

ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु॥
ॐ ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम

3.31.36

ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ॥
ॐ गोपीरमणाय स्वाहा नितम्बं पातु मे सदा

3.31.37

ॐ गोपीरमणनाथाय पादौ पातु सदा मम ॥
ॐ ह्रीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु

3.31.38

ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु ॥
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु

3.31.39

ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु॥
ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु

3.31.3.31.40

परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ॥
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु

3.31.41

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ॥
नैरृत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः

3.31.42

गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ॥
उत्तरे मां सदा पातु रसिकानां शिरोमणिः

3.31.43

ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ॥
वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः

3.31.44

सदैव माधवः पातु बलिहारी महाबलः ॥
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा

3.31.45

स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ॥
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः

3.31.46

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम्

3.31.47

।
मया श्रुतं कृष्णवक्त्रात्प्रवक्तव्यं न कस्यचित् ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः

3.31.48

कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥
स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः

3.31.49

यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ॥
निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात्

3.31.3.31.50

राजसूयसहस्राणि वाजपेयशतानि च॥
अश्वमेधायुतान्येव नरमेधायुतानि च

3.31.51

महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम्

3.31.54

व्रतोपवासनियमं स्वाध्यायाध्ययनं तपः ॥
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ ५२ ॥।
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ॥
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम्॥
स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः॥
यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम्

3.31.55

इदं कवचमज्ञात्वा भजेत्कृष्णं सुमन्दधीः॥
कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः

3.31.56

गृहीत्वा कवचं वत्स महीं निःक्षत्रियां कुरु॥
त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया

3.31.57

।
राज्यं देयं शिरो देयं प्राणा देयाश्च पुत्रक ॥।
एवंभूतं च कवचं न देयं प्राणसंकटे

3.31.31

इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामाय श्रीकृष्णकवचप्रदानं नामैकत्रिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc