भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.30

3.30.1

शंकर उवाच ॥
कस्त्वं वटो कस्य पुत्रः क्व वासः स्तवनं कथम् ॥
किं वा तेऽहं करिष्यामि वाञ्छितं वद साम्प्रतम्

3.30.3

पार्वत्युवाच ॥
शोकाकुलं त्वां पश्यामि विमनस्कं सुविस्मितम् ॥
वयसाऽतिशिशुं शान्तं गुणेन गुणिनां वरम्॥२।]
भृगुरुवाच ॥
जमदग्निसुतोऽहं च भृगुवंशसमुद्भवः॥
रेणुकाऽम्बा मे परशुरामोऽहं नामतः प्रभो

3.30.4

क्रीणीहि मां दयासिन्धो विद्यापण्येन किंकरम् ॥
त्वामीशः शरणापन्नं रक्ष मां दीनवत्सल

3.30.5

मृगयामागतं भूपं पिता मे चोपवासिनम्॥
चकारातिथ्यमानीय कपिलादत्तवस्तुना

3.30.6

राजा तं कपिलालोभाद्घातयामास मन्दधीः ॥
कपिला तं मृतं दृष्ट्वा गोलोकं च जगाम सा

3.30.7

माताऽनुगमनं चक्रे ह्यनाथोऽहं च साम्प्रतम् ॥
त्वं मे पिता शिवा माता रक्ष मां पुत्रवत्प्रभो

3.30.8

मया कृता प्रतिज्ञा च शोकेनैवातिदुष्करा ॥
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि महीमिति

3.30.9

कार्तवीर्य्यं हनिष्यामि समरे तातघातकम् ॥
इत्येतत्परिपूर्णं मे भगवान्कर्तुमर्हति

3.30.10

ब्राह्मणस्य वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः ॥
बभूवानम्रवक्त्रश्च सा च शुष्कौष्ठतालुका

3.30.11

पार्वत्युवाच ॥
तपस्विन्विप्रपुत्रस्त्वं निर्भूपां कर्तुमिच्छसि ॥
त्रिस्सप्तकृत्वः कोपेन साहसस्ते महान्बटो

3.30.12

हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् ॥
भ्रूभङ्गलीलया यस्य रावणस्य पराजयः

3.30.13

तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं बटो ॥
शक्तिरव्यर्थरूपा च यया ते हिंसितः पिता

3.30.14

हरेर्म्मन्त्रं संस्तवनं यः पठेच्च दिवानिशम् ॥
को वा शक्नोति तं हन्तुं न पश्यामीह भूतले

3.30.15

अये विप्र गृहं गच्छ किं करिष्यति शंकरः ॥
अन्ये भूपाश्च मद्भृत्याः का भीस्तेषां मयि स्थिते

3.30.16

काल्युवाच॥
अये विप्र बटो जाल्म निर्भूपान्कर्तुमिच्छसि॥
यथा हि वामनश्चन्द्रं करेणाहर्तुमिच्छति

3.30.17

कृतयज्ञान्महापुण्यान्महाबलपराक्रमान् ॥
दिगम्बरसहायेन मद्भृत्यान्हन्तुमिच्छसि

3.30.18

स तयोर्वचनं श्रुत्वा रुरोदोच्चैश्च शोकतः ॥
सहसा पुरतस्तेषां प्राणांस्त्यक्तुं समुद्यतः

3.30.19

विप्रस्य रोदनं श्रुत्वा शंकरः करुणानिधिः ॥
पश्यन्दुर्गां च कालीं च ज्ञात्वाऽऽशयमथो विभुः

3.30.20

तयोरनुमतिं प्राप्य सर्वेशो भक्तवत्सलः ॥
जमदग्निसुतं सद्यः प्रवक्तुमुपचक्रमे

3.30.21

शंकर उवाच ॥
अद्यप्रभृति हे वत्स त्वं मे पुत्रसमो महान् ॥
दास्यामि मन्त्रं गुह्यं ते त्रिषु लोकेषु दुर्ल्लभम्

3.30.22

एवंभूतं च कवचं दास्यामि परमाद्भुतम् ॥
लीलया मत्प्रसादेन कार्त्तवीर्यं हनिष्यसि

3.30.23

त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं द्विज ॥
जगत्ते यशसा पूर्णं भविष्यति न संशयः

3.30.24

इत्युक्त्वा शंकरस्तस्मै ददौ मन्त्रं सुदुर्लभम् ॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम्

3.30.25

स्तवं पूजाविधानं च पुरश्चरणपूर्वकम् ॥
मन्त्रसिद्धेरनुष्ठानं यथावन्नियमक्रमम्

3.30.26

सिद्धिस्थानं कालसंख्यं कथयामास नारद ॥
वेदवेदाङ्गादिकं च पाठयामास तत्क्षणम्

3.30.27

नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्लभम् ॥
नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा

3.30.28

गान्धर्वं गारुडं चैव जृम्भणास्त्रं तथैव च ॥
गदां शक्तिं च परशुं शूलमव्यर्थमुत्तमम्

3.30.29

नानाप्रकारशस्त्रास्त्रमन्त्रं च विधिपूर्वकम् ॥
शस्त्रास्त्राणां च संहारं तूणी चाक्षयसायकौ

3.30.30

आत्मरक्षणसन्धानं संग्रामविजयक्रमम् ॥
मायायुद्धं च विविधं हुंकारं मन्त्रपूर्वकम्

3.30.31

रक्षणं च स्वसैन्यानां परसैन्यविमर्दनम् ॥
नानाप्रकारमतुलमुपायं रणसंकटे ॥
संहारे मोहिनीं विद्यां ददौ मृत्युहरां हरः

3.30.32

स्थित्वा चिरं गुरोर्वांसे सर्वविद्यां विबोध्य सः ॥
तीर्थे कृत्वा मन्त्रसिद्धिं तांश्च नत्वा जगाम सः

3.30.30

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामस्य शिवदत्तास्त्रशस्त्रादिप्राप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc