भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.29

3.29.1

नारायण उवाच ॥
ब्रह्मणो वचनं श्रुत्वा प्रणम्य च जगद्गुरुम्॥
स्फीतस्तस्माद्वरं प्राप्य शिवलोकं जगाम सः

3.29.2

लक्षयोजनमूर्ध्वं च ब्रह्मलोकाद्विलक्षणम् ॥
अनिर्वाच्यसुशोभाढ्यं वाय्वाधारं मनोहरम्

3.29.3

वैकुण्ठं दक्षिणे यस्य गौरीलोकश्च वामतः ॥
यदधो धुवलोकश्च सर्वलोकात्परः स्मृतः

3.29.4

तेषामूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ॥
अत ऊर्ध्वं न लोकश्च सर्वोपरि च स स्मृतः

3.29.5

मनोयायी स योगीन्द्रः शिवलोकं ददर्श ह ॥
उपमानोपमेयाभ्यां रहितं महदद्भुतम्

3.29.6

योगीन्द्राणां वरेण्यैश्च सिद्धविद्याविशारदैः॥
कोटिकल्पतपःपूतैः पुण्यवद्भिर्निषेवितम्

3.29.7

वेष्टितं कल्पवृक्षाणां समूहैर्वाञ्छितप्रदैः ॥
समूहैः कामधेनूनामसंख्यानां विराजितम्

3.29.8

पारिजाततरूणां च वनराजिविराजितम् ॥
पुष्पोद्यानायुतैर्युक्तं सदा चातिसुशोभितम्

3.29.9

मणीन्द्रसाररचितैः शोभितैर्मणिवेदिभिः ॥
राजमार्गशतैर्दिव्यैः सर्वतः परिभूषितम्

3.29.10

मणीन्द्रासारनिर्माणशतकोटिगृहैर्युतम् ॥
नानाचित्रविचित्राढ्यैर्मणीन्द्रकलशोज्ज्वलैः

3.29.11

तन्मध्यदेशे रम्ये च ददर्श शङ्करालयम् ॥
मणीन्द्रसाररचितप्राकारं सुमनोहरम्

3.29.12

अत्यूर्ध्वमम्बरस्पर्शि क्षीरनीरनिभं परम् ॥
षोडशद्वारसंयुक्तं शोभितं शतमन्दिरैः

3.29.13

अमूल्यरत्नरचितै रत्नसोपानभूषितैः ॥
रत्नस्तम्भकपाटैश्च हीरकेण परिष्कृतैः

3.29.14

माणिक्यजालमालाभिः सद्रत्नकलशोज्ज्वलैः ॥
नानाविचित्रचित्रेण चित्रितैः सुमनोहरैः

3.29.15

आलयस्य पुरस्तत्र सिंहद्वारं ददर्श सः ॥
रत्नेन्द्रसारखचितकपाटैश्च विराजितैः

3.29.16

शोभितं वेदिकाभिश्च बाह्याभ्यन्तरतः सदा ॥
रचिताभिः पद्मरागैर्महामरकतैर्गृहम्

3.29.17

नानाप्रकारचित्रेण चित्रितं सुमनोहरम् ॥
करालरूपावद्राक्षीद् द्वारपालौ भयंकरौ ॥

3.29.18

महाकरालदन्तास्यौ विरक्तौ रक्तलोचनौ ॥
दग्धशैलप्रतीकाशौ महाबलपराक्रमौ

3.29.19

विभूतिभूषितांगौ च व्याघ्रचर्माम्बरौ वरौ ॥
पिङ्गलाक्षौ विशालाक्षौ जटिलौ च त्रिलोचनौ

3.29.20

त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा ॥
तौ दृष्ट्वा मनसा भीतस्त्रस्तः किञ्चिदुवाच ह

3.29.21

विनयेन विनीतश्च दुर्विनीतौ महाबलौ ॥
आत्मनः सर्ववृत्तान्तं कथयामास तत्पुरः ॥

3.29.22

विप्रस्य वचनं श्रुत्वा कृपायुक्तौ बभूवतुः ॥
गृहीत्वाऽऽज्ञां चरद्वारा शंकरस्य महात्मनः

3.29.23

प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ वरौ ॥
भृगुस्तदाज्ञामादाय प्रविवेश हरिं स्मरन्

3.29.24

प्रत्येकं षोडश द्वारो ददर्श सुमनोहराः ॥
द्वारपालैर्नियुक्ताश्च नानाचित्रविचित्रिताः

3.29.25

दृष्ट्वा ता महदाश्चर्य्यादपश्यच्छूलिनः सभाम् ॥
नानासिद्धगणाकीर्णां महर्षिगणसेविताम्

3.29.26

पारिजातसुगन्धाढ्यवायुना सुरभीकृताम् ॥
ददर्श तत्र देवेशं शङ्करं चन्द्रशेखरम्

3.29.27

त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम्॥
विभूतिभूषितांगं तं नागयज्ञोपवीतिनम् ॥
रत्नसिंहासनस्थं च रत्नभूषणभूषितम्

3.29.28

महाशिवं शिवकरं शिवबीजं शिवाश्रयम्॥
आत्मारामं पूर्णकामं सूर्य्यकोटिसमप्रभम्

3.29.29

ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम् ॥
शश्वज्ज्योतिस्स्वरूपं च लोकानुग्रहविग्रहम्

3.29.30

धृतवन्तं जटाजालं दक्षकन्यासमन्वितम् ॥
तपसां फलदातारं दातारं सर्वसम्पदाम्

3.29.31

शुद्धस्फटिकसंकाशं पञ्च वक्त्रं त्रिलोचनम् ॥
गुह्यं ब्रह्म प्रवोचन्तं शिष्येभ्यस्तत्त्वमुद्रया

3.29.32

स्तूयमानं च योगीन्द्रैः सिद्धेन्द्रैः परिसेवितम् ॥
पार्षदप्रवरैश्शश्वत्सेवितं श्वेतचामरैः

3.29.33

ध्यायमानं परं ब्रह्म परिपूर्णतमं परम्॥
स्वेच्छामयं गुणातीतं जरामृत्युहरं परम्

3.29.34

ज्योतीरूपं च सर्वाद्यं श्रीकृष्णं प्रकृतेः परम् ॥
ध्यायन्तं परमानन्दं पुलकाञ्चितविग्रहम् ॥
सुस्वरं साश्रुनेत्रं तमुद्गायन्तं गुणार्णवम्

3.29.35

भूतेन्द्रैर्वै रुद्रगणैः क्षेत्रपालैश्च वेष्टितम् ॥
मूर्ध्ना ननाम परशुरामो दृष्ट्वा तमादरात्

3.29.36

तद्वामे कार्त्तिकेयं च दक्षिणे च गणेश्वरम् ॥
नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ॥
अंके ददर्श कान्तां तां गौरीं शैलेन्द्रकन्यकाम्

3.29.37

ननाम सर्वान्मूर्ध्ना च भक्त्या च परया मुदा ॥
दृष्ट्वा हरं परं तोषात्स्तोतुं समुपचक्रमे

3.29.38

सगद्गदपदं दीनस्साश्रुनेत्रोऽतिकातरः ॥
कृताञ्जलिपुटः शान्तः शोकार्तः शोकनाशनम्

3.29.39

परशुराम उवाच ॥
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः ॥
अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम्

3.29.40

न योजनां कर्त्तुमीशो देवेशं स्तौमि मूढधीः ॥
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥

3.29.41

वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम् ॥
ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम्

3.29.42

यमाकाशमिवाद्यन्तमध्यहीनं तथाऽव्ययम् ॥
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम्

3.29.43

ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् ॥
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम्

3.29.44

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
स्वप्नेऽप्यदृष्टं भक्तैश्चाधुना पश्यामि चक्षुषा

3.29.45

शक्रादयः सुरगणाः कलया यस्य सम्भवाः ॥
चराचराः कलांशेन तं नमामि महेश्वरम्

3.29.46

स्त्रीरूपं क्लीबरूपं च पौरुषं च बिभर्ति यः ॥
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम्

3.29.47

यं भास्करस्वरूपं च शशिरूपं हुताशनम् ॥
जलरूपं वायुरूपं तं नमामि महेश्वरम्

3.29.48

अनन्तविश्वसृष्टीनां संहर्तारं भयंकरम् ॥
क्षणेन लीलामात्रेण तं नमामि महेश्वरम्

3.29.49

यः कालः कालकालश्च कलिर्बीजं च कालजः॥
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम्

3.29.50

इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे ॥
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः

3.29.51

जामदग्न्यकृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ॥
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति

3.29.29

इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामस्य कैलासगमननामैकोनत्रिंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc