ब्रह्मवैवर्त पुराण · अध्याय 3.12
नारायण उवाच ॥
दुर्गा तद्वचनं श्रुत्वा सस्मार हरिमीश्वरम् ॥
ईश्वरेच्छावशीभूतं जगदेवेत्युवाच ह
सा च देवी दैववशा शनिं प्रोवाच कौतुकात्॥
पश्य मां मच्छिशुमिति निषेकः केन वार्य्यते
पार्वत्या वचनं श्रुत्वा शनिर्मेने हृदा स्वयम् ॥
पश्यामि किं न पश्यामि पार्वतीसुतमित्यहो ॥
यदि बालो मया दृष्टस्तस्य विघ्नो भवेद्ध्रुवम्
अन्यथा सुप्रशस्तं च पुरतः स्वात्मरक्षणम् ॥
इत्येवमुक्त्वा धर्मिष्ठो धर्मं कृत्वा तु साक्षिणम्॥
बालं द्रष्टुं मनश्चक्रे न तु तन्मातरं शनिः
विषण्णमानसः पूर्वं शुष्ककण्ठौष्ठतालुकः॥
सव्यलोचनकोणेन ददर्श च शिशोर्मुखम्
शनेश्च दृष्टिमात्रेण चिच्छिदे मस्तकं मुने ॥
चक्षुर्निमीलयामास तस्थौ नम्राननः शनिः
तस्थौ च पार्वतीक्रोडे तत्सर्वाङ्गं सलोहितम्॥
विवेश मस्तकं कृष्णे गत्वा गोलोकमीप्सितम्
मूर्च्छा संप्राप सा देवी विलप्य च भृशं मुहुः॥
मत्तेव च पृथिव्यां तु कृत्वा वक्षसि बालकम्
विस्मितास्ते सुराः सर्वे चित्रपुत्तलिका यथा ॥
देव्यश्च शैला गन्धर्वाः सर्वे कैलासवासिनः
तान्सर्वान्मूर्च्छितान्दृष्ट्वैवारुह्य गरुडं हरिः ॥
जगाम पुष्पभद्रां स चोत्तरस्यां दिशि स्थिताम्
पुष्पभद्रानदीतीरे ह्यपश्यत्कानने स्थितम् ॥
गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम्
तथोदक्छिरसं रम्यं मूर्च्छितं सुरतश्रमात् ॥
परितः शावकात्कृत्वा परमानन्दमानसम्
शीघ्रं सुदर्शनेनैव चिच्छिदे तच्छिरो मुदा ॥
स्थापयामास गरुडे रुधिराक्तं मनोहरम्
गजच्छिन्नाङ्गविक्षेपात्प्रबोधं प्राप्य हस्तिनी ॥
शावकान्बोधयामास चाशुभं वदती तदा ॥
रुरोद शावकैः सार्द्धं सा विलप्य शुचातुरा
तुष्टाव कमलाकान्तं शान्तं सस्मितमीश्वरम् ॥
शंखचक्रगदापद्मधरं पीताम्बरं परम् ॥
गरुडस्थं जगत्कान्तं भ्रामयन्तं सुदर्शनम्
निषेकं खण्डितुं शक्तं निषेकजनकं विभुम् ॥
निषेकभोगदातारं भोगनिस्तारकारणम्
प्रभुस्तत्स्तवनात्तुष्टस्तस्यै विप्र वरं ददौ ॥
मुण्डातुण्डं पृथक्कृत्य युयुजेऽन्यगजस्य च
जीवयामास तं तत्र ब्रह्मज्ञानेन सर्ववित् ॥
सर्वांगे योजयामास गजस्य चरणाम्बुजम्
त्वं जीवाकल्पपर्य्यन्तं परिवारैः समं गज ॥
इत्युक्त्वा च मनोयायी कैलासं ह्याजगाम सः
आहृत्य पार्वतीहस्ताद्बालं कृत्वा स्ववक्षसि ॥
रुचिरं तच्छिरस्सम्यग्योजयामास बालके
ब्रह्मस्वरूपो भगवान्ब्रह्मज्ञानेन लीलया ॥
जीवयामास तं शीघ्रं हुंकारोच्चारणेन च
पार्वतीं बोधयित्वा तु कृत्वा क्रोडे च तं शिशुम् ॥
बोधयामास तां कृष्ण आध्यात्मिकविबोधनैः
विष्णुरुवाच ॥
ब्रह्मादिकीटपर्य्यन्तं फलं भुङ्क्ते स्वकर्मणः ॥
जगद्बुद्धिस्वरूपाऽसि त्वं न जानासि किं शिव
कल्पकोटिशतं भोगी जीविनां तत्स्वकर्मणा ॥
उपस्थितो भवेन्नित्यं प्रतियोनौ शुभाशुभैः
इन्द्रः स्वकर्मणा कीटयोनौ जन्म लभेत्सति ॥
कीटश्चापि भवेदिन्द्रः पूर्वकर्मफलेन वै
सिंहोऽपि मक्षिकां हन्तुमक्षमः प्राक्तनं विना ॥
मशको हस्तिनं हन्तुं क्षमः स्वप्राक्तनेन च
सुखं दुःख भयं शोकमानन्दं कर्मणः फलम् ॥
सुकर्मणः सुखं हर्षमितरे पापकर्मणः
इहैव कर्मणो भोगः परत्र च शुभाशुभैः ॥
कर्मोपार्जनयोग्यं च पुण्यक्षेत्रं च भारतम्
कर्मणः फलदाता च विधाता च विधेरपि ॥
मृत्योर्मृत्युः कालकालो निषेकस्य निषेककृत्
संहर्तुरपि संहर्त्ता पातुः पाता परात्परः ॥
गोलोकनाथः श्रीकृष्णः परिपूर्णतमः स्वयम्
वयं यस्य कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ॥
महाविराड्यदंशश्च यल्लोमविवरे जगत्
कलांशाः केऽपि तद्धर्मे कलाशांशाश्च केचन ॥
चराचरं जगत्सर्वं तत्र तस्थौ विनायकः
श्रीविष्णोर्वचनं श्रुत्वा परितुष्टा च पार्वती ॥
स्तनं ददौ च शिशवे तं प्रणम्य गदाधरम्
तुष्टाव पार्वती तुष्टा प्रेरिता शंकरेण च ॥
कृताञ्जलिपुटा भक्त्या विष्णुं तं कमलापतिम्
आशिषं युयुजे विष्णुः शिशुं च शिशुमातरम् ॥
ददौ गले बालकस्य कौस्तुभं च स्वभूषणम्
ब्रह्मा ददौ स्वमुकुटं धर्मो वै रत्नभूषणम्॥
क्रमेण देव्यो रत्नानि ददुः सर्वे यथोचितम्
तुष्टाव तं महादेवश्चात्यन्तं हृष्टमानसः ॥
देवाश्च मुनयः शैला गन्धर्वाः सर्वयोषितः
दृष्ट्वा शिवाः शिवा चैव बालकं मृतजीवितम् ॥
ब्राह्मणेभ्यो ददौ तत्र कोटिरत्नानि नारद
अश्वानां च गजानां च सहस्राणि शतानि च ॥
बन्दिभ्यः प्रददौ तत्र बालके मृतजीविते
हिमालयश्च संतुष्टो हृष्टा देवाश्च तत्र वै ॥
ददुर्दानानि विप्रेभ्यो बन्दिभ्यः सर्वयोषित
ब्राह्मणान्भोजयामास कारयामास मङ्गलम् ॥
वेदांश्च पाठयामास पुराणानि रमापतिः
शनिं संलज्जितं दृष्ट्वा पार्वती कोपशालिनी ॥
शशाप च सभामध्येऽप्यङ्गहीनो भवेति च
दृष्ट्वा शप्तं शनिं सूर्य्यः कश्यपश्च यमस्तथा ॥
तेऽतिरुष्टाः समुत्तस्थुर्गामुकाः शङ्करालयात्
रक्ताक्षास्ते रक्तमुखाः कोपप्रस्फुरिताधराः ॥
तां धर्मसाक्षिणं कृत्वा विष्णुं संशप्तुमुद्यताः
ब्रह्मा तान्बोधयामास विष्णुना प्रेरितः सुरैः ॥
रक्तास्यां पार्वतीं चैव कोपप्रस्फुरिताधराम्
ब्रह्माणमूचुस्ते तत्र क्रमेण समयोचितम् ॥
भीरवो देवताः सर्वे मुनयः पर्वतास्तथा
कश्यप उवाच ॥
दुर्दृष्टोऽयं प्राक्तनेन पत्नीशापेन सर्वदा ॥
बालं ददर्श यत्नेन तस्य वै मातुराज्ञया
श्रीसूर्य्य उवाच ॥
तं धर्मं साक्षिणं कृत्वा सूनोर्वै मातुराज्ञया ॥
यत्पुत्रोऽतिप्रयत्नेन ह्यपश्यत्पार्वतीसुतम्
यथा निरपराधेन मत्पुत्रं सा शशाप ह ॥
तत्पुत्रस्यांगभंगश्च भविष्यति न संशयः
यम उवाच ॥
प्रदाय स्वयमाज्ञां च शशापेयं स्वयं कथम् ॥
वयं शपामः कोऽधर्मो जिघांसोश्च विहिंसने
ब्रह्मोवाच ॥
शशाप पार्वती रुष्टा स्त्रीस्वभावाच्च चापलात् ॥
सर्वेषां वचनेनैव क्षन्तुमर्हन्तु साधवः
दुर्गे दत्त्वा त्वमाज्ञां च पुत्रदर्शनहेतवे ॥
कथं शपसि निर्दोषमतिथिं त्वद्गृहागतम्
इत्युक्त्वा शनिमादाय बोधयित्वा च पार्वतीम् ॥
तां तं समर्पणं चक्रे शाप मोचनहेतवे
बभूव पार्वती तुष्टा ब्रह्मणो वचनान्मुने॥
शान्ता बभूबुस्ते तत्र दिनेशयमकश्यपाः
उवाच पार्वती तत्र सन्तुष्टा तं शनैश्चरम् ॥
प्रसादिता शिवेनैव ब्रह्मणा परिसेविता
पार्वत्युवाच ॥
ग्रहराजो भव शने मद्वरेण हरिप्रियः ॥
चिरजीवी च योगीन्द्रो हरिभक्तस्य का विपत्
अद्यप्रभृति निर्विघ्ना हरौ भक्तिर्दृढाऽस्तु ते ॥
शापोऽमोघस्ततो मेऽद्य किञ्चित्खञ्जो भविष्यसि
इत्युक्त्वा पार्वती तुष्टा बालं धृत्वा च वक्षसि ॥
उवास योषितां मध्ये तस्मै दत्त्वा शुभाशिषः
शनिर्जगाम देवानां समीपं हृष्टमानसः ॥
प्रणम्य भक्त्या तां ब्रह्मन्नम्बिकां जगदम्बिकाम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शनिकृतगणेशदर्शन तज्जातगणेशशिरःपतन विष्णुकृतगणेशशिरोयोजन शनिशापादिकथनं नाम द्वादशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0