भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 3.13

3.13.1

नारायण उवाच ॥
अथ विष्णुः शुभे काले देवैश्च मुनिभिः सह ॥
पूजयामास तं बालमुपहारैरनुत्तमैः

3.13.2

सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम ॥
सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम्

3.13.3

वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम् ॥
सर्वसिद्धिं प्रदायैव चकारात्मसमं हरिः

3.13.4

ददौ द्रव्याणि चारूणि चोपचारांश्च षोडश ॥
नामभिः स्तवनं चक्रे मुनिभिश्च समं सुरैः

3.13.5

विघ्नेशश्च गणेशश्च हेरम्बश्च गजाननः ॥
लम्बोदरश्चैकदन्तः शूर्पकर्णो विनायकः

3.13.6

एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च ॥
आशिषं दापयामास चानयामास तान्मुनीन्

3.13.7

सिद्धासनं ददौ धर्मस्तस्मै ब्रह्मा कमण्डलुम् ॥
शङ्करो योगपट्टं च तत्त्वज्ञानं सुदुर्लभम्

3.13.8

रत्नसिंहासनं शक्रः सूर्य्यश्च मणिकुण्डले ॥
माणिक्यमालां चन्द्रश्च कुबेरश्च किरीटकम्

3.13.9

वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः ॥
रत्नच्छत्रं च वरुणो वायू रत्नांगुलीयकम्

3.13.10

क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम् ॥
मञ्जीरं चापि केयूरं ददौ पद्मालया मुने

3.13.11

कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम् ॥
क्रमेण सर्वदेवाश्च देव्यश्च यौतकं ददुः

3.13.12

मुनयः पर्वताश्चैव रत्नानि विविधानि च ॥
वसुन्धरा ददौ तस्मै वाहनाय च मूषकम्

3.13.13

क्रमेण देवा देव्यश्च मुनयः पर्वतादयः॥
गन्धर्वाः किन्नरा यक्षा मनवो मानवास्तथा

3.13.14

नानाविधानि द्रव्याणि स्वादूनि मधुराणि च ॥
पूजां चक्रुश्च ते सर्वे क्रमाद्वै भक्तिपूर्वकम्

3.13.19

पार्वती जगतां माता स्मेराननसरोरुहा ॥
रत्नसिंहासने पुत्रं वासयामास नारद

3.13.16

सर्वतीर्थोदकै रत्नकलशावर्जितैः स्तुतैः ॥
स्नापयामास वेदोक्तमन्त्रेण मुनिभिस्तदा ॥
अग्निशुद्धे च वसने ददौ तस्मै सती मुदा

3.13.17

गोदावर्युदकैः पाद्यमर्घ्यं गंगोदकेन च ॥
दूर्वाभिरक्षतापुष्पैश्चन्दनेन समन्वितम्

3.13.18

पुष्करोदकमानीय पुनराचमनीयकम् ॥
मधुपर्कं रत्नपात्रैरासवं शर्करान्वितम्

3.13.19

स्नानीयं विष्णुतैलं च स्वर्वैद्याभ्यां विनिर्मितम् ॥
अमूल्यरत्नरचितं चारुभूषाकदम्बकम्

3.13.20

पारिजातप्रसूनानामन्येषां शतकानि च ॥
मालतीचम्पकादीनां पुष्पाणि विविधानि च ॥
पूजार्हाणि च पत्राणि तुलसीसहितानि च

3.13.21

चन्दनागुरुकस्तूरी कुंकुमानि च सादरम् ॥
रत्नप्रदीपनिकरं धूपं च परितो ददौ

3.13.22

नैवेद्यं तत्प्रियं चैव तिललड्डुकपर्वतान् ॥
यवगोधूमचूर्णानां लड्डुकानां च पर्वतान्

3.13.23

पक्वान्नानां पर्वताश्च सुस्वादुसुमनोहरान् ॥
पर्वतान्स्वस्तिकानां च सुस्वादुशर्करान्वितान्

3.13.24

गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् ॥
शाल्यन्नानां पिष्टकानां पर्वतान्व्यञ्जनैः सह ॥
पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा

3.13.25

लक्षाणि दधिपूर्णानां कलशानां च पूजने ॥
मधुभृत्कलशानां च त्रिलक्षाणि च सुन्दरी

3.13.26

सर्पिस्सुवर्णकुम्भानां पंचलक्षाणि सादरम् ॥
दाडिमानां श्रीफलानामसंख्यानि फलानि च

3.13.27

खर्जूराणां कपित्थानां जम्बूनां विविधानि च ॥।
आम्राणां पनसानां च कदलीनां च नारद ॥
फलानि नारिकेलानामसंख्यानि ददौ मुदा

3.13.28

अन्यानि परिपक्वानि कालदेशोद्भवानि च ॥
ददौ तानि महाभाग स्वादूनि मधुराणि च

3.13.29

स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम् ॥
गङ्गाजलं च पानार्थं पुनराचमनीयकम्

3.13.30

ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥
सुवर्णपात्रशतकं भक्ष्यपूर्णं च नारद

3.13.31

शैलराजप्रिया मात्याः पुपूजुः शैलजात्मजम्

3.13.32

ॐ श्रीं ह्रीं क्लीं गणेश्वराय ब्रह्मरूपाय चारवे ॥
सर्वसिद्धिप्रदेशाय विघ्नेशाय नमो नमः

3.13.33

इत्यनेनैव मन्त्रेण दत्त्वा द्रव्याणि भक्तितः॥
सर्वे प्रमुदितास्तत्र ब्रह्मविष्णुशिवादयः

3.13.34

द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामद॥
धर्मार्थकाममोक्षाणां फलदः सर्वसिद्धिदः

3.13.35

पञ्चलक्षजपेनैव मन्त्रसिद्धिस्तु मन्त्रिणः॥
मन्त्रसिद्धिर्भवेद्यस्य स च विष्णुश्च भारते

3.13.36

विघ्नानि च पलायन्ते तन्नामस्मरणेन च ॥
महावाग्ग्मी महासिद्धिः सर्वसिद्धिसमन्वितः

3.13.37

वाक्पतिर्गुरुतां याति तस्य साक्षात्सुनिश्चितम् ॥
महाकवीन्द्रो गुणवान्विदुषां च गुरोर्गुरुः

3.13.38

संपूज्यानेन मन्त्रेण देवा आनन्दसंप्लुताः ॥
नानाविधानि वाद्यानि वादयामासुरुत्सवे

3.13.39

ब्राह्मणान्भोजयामासुः कारयामासुरुत्सवम् ॥
ददुर्दानानि तेभ्यश्च बन्दिभ्यश्च विशेषतः

3.13.40

नारायण उवाच ॥
अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् ॥
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम्

3.13.41

ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ॥
नैव वर्णयितुं शक्तोऽस्त्यनुरूपमनीहकम्

3.13.42

प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ॥
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम्

3.13.43

अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ॥
वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम्

3.13.44

संसारार्णवपारे च मायापोते सुदुर्लभे ॥
कर्णधारस्वरूपं च भक्तानुग्रहकारकम्

3.13.49

वरं वरेण्यं वरदं वरदानामपीश्वरम् ॥
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम

3.13.46

ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ॥
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम्

3.13.47

बीजं संसारवृक्षाणामंकुरं च तदाश्रयम् ॥
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम्

3.13.48

सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ॥
स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः

3.13.49

स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ॥
त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि

3.13.50

न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ॥
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ॥
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः

3.13.51

इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि ॥
सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः

3.13.52

इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ॥
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः

3.13.53

तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ॥
वर्द्धते सर्वकल्याणं कल्याणजनकः सदा

3.13.54

यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ॥
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः

3.13.55

तेन दृष्टं च दुस्स्वप्नं सुस्वप्नमुपजायते ॥
कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा

3.13.56

भवेद्विनाशः शत्रूणां बन्धूनां चापि वर्द्धनम् ॥
शश्वद्विघ्नविनाशश्च शश्वत्सम्यग्विवर्द्धनम्

3.13.57

स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्द्धनम् ॥
सर्वैश्वर्य्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत्

3.13.58

फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ॥
महतां सर्वदानानां तद्गणेशप्रसादत

3.13.59

नारद उवाच ॥
श्रुतं स्तोत्रं गणेशस्य पूजनं च मनोहरम् ॥
कवचं श्रोतुमिच्छामि साम्प्रतं भवतारणम्

3.13.60

नारायण उवाच ॥
पूजायां सुनिवृत्तायां सभामध्ये शनैश्चरः ॥
उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम्

3.13.61

शनैश्चर उवाच ॥
सर्वदुःखविनाशाय पापप्रशमनाय च ॥
कवचं विघ्ननिघ्नस्य वद वेदविदांवर

3.13.62

बभूव नो विवादश्च शक्त्या वै मायया सह ॥
तद्विघ्नप्रशमार्थं च कवचं धारयाम्यहम्

3.13.63

श्रीविष्णुरुवाच ॥
विनायकस्य कवचं त्रिषु लोकेषु दुर्लभम् ॥
सुगोप्यं च पुराणेषु दुर्लभं चागमेषु च

3.13.64

उक्तं कौथुमशाखायां सामवेदे मनोहरम् ॥
कवचं विघ्ननाथस्य सर्वविघ्नहरं परम्

3.13.65

राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्य्यज ॥
एवम्भूतं च कवचं न देयं प्राणसङ्कटे

3.13.66

आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया ॥
नित्योऽयमेकदन्तश्च कवचं चास्य वत्सक

3.13.67

पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति सन्ततम्॥
अस्य वै जन्मनः पूर्वं मुनयश्च सिषेविरे

3.13.68

यथा मदवतारेषु जन्मविग्रहधारणम् ॥
तथा गणेश्वरस्यापि जन्म शैलसुतोदरे

3.13.69

यद्धृत्वा मुनयः सर्वे जीवन्मुक्ताश्च भारते ॥
निश्शङ्काश्च सुराः सर्वे शत्रुपक्षविमर्दकाः

3.13.70

कवचं बिभ्रतां मृत्युर्न भिया याति सन्निधिम् ॥
नायुर्व्ययो नाशुभं च ब्रह्माण्डे न पराजयः

3.13.71

दश लक्षजपेनैव सिद्धं तु कवचं भवेत् ॥
यो भवेत्सिद्धकवचो मृत्युं जेतुं स च क्षमः

3.13.72

सुसिद्धकवचो वाग्मी चिरंजीवी महीतले ॥
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः

3.13.73

मालामन्त्रमिमं पुण्यं कवचं मङ्गलं शुभम् ॥
बिभ्रतां सर्वपापानि प्रणश्यन्ति सुनिश्चितम्

3.13.74

भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥
डाकिनीयोगिनीयक्षवेताला भैरवादयः

3.13.75

बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ॥
वर्मणः शब्दमात्रेण पलायन्ते च भीरवः

3.13.76

आधयो व्याधयश्चैव शोकाश्चैव भयावहाः ॥
न यान्ति सन्निधिं तेषां गरुडस्य यथोरगाः

3.13.77

ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ॥
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात्

3.13.78

संसारमोहकस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम्॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः

3.13.79

सर्वेषां कवचानां च सारभूतमिदं मुने ॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ॥
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु

3.13.80

ॐ ह्रीं क्लीं श्रीं गमिति वै सततं पातु लोचनम् ॥
तालुके पातु विघ्नेशः सततं धरणीतले

3.13.81

ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिकाम् ॥
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥
दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः

3.13.82

ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदा ऽवतु ॥
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णं सदाऽवतु

3.13.83

ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु॥
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु

3.13.84

ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं परम् ॥
करौ पादौ सदा पातु सर्वांगं विघ्ननाशकृत्

3.13.85

प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः ॥
दक्षिणे पातु विश्वेशो नैरृत्यां तु गजाननः

3.13.86

पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मजः ॥
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च

3.13.87

ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः

3.13.88

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
संसारमोहनं नाम कवचं परमाद्भुतम्

3.13.89

श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ॥
वृन्दावने विनीताय मह्यं दिनकरात्मज

3.13.90

मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि ॥
परं वरं सर्वपूज्यं सर्वसंकटतारणम्

3.13.91

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ॥
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः

3.13.92

अश्वमेधसहस्राणि वाजपेयशतानि च ॥
ग्रहेन्द्र कवचस्यास्य कलां नार्हन्ति षोडशीम्

3.13.93

इदं कवचमज्ञात्वा यो भजेच्छंकरात्मजम् ॥
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः

3.13.94

इति संसारमोहनं नाम कवचम् ॥
दत्त्वेदं सूर्य्यपुत्राय विरराम सुरेश्वरः ॥
परमानन्दसंयुक्ता देवास्तस्थुः समीपतः

3.13.13

इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशपूजास्तवकवचकथनं नाम त्रयोदशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc